तेषां क्रमविशेषेण लक्षणं कारणं तथा। प्रवक्ष्यामि तथा तत्त्वं यथा रुद्रेण भाषितम् ।। १०.
प्राणायामगतिश्वापि प्राणस्यायाम उच्यते । स चापि त्रिविधः प्रोक्तो मन्दो मध्योत्तमस्तथा ।। १०.
प्राणानाञ्च निरोधस्तु स प्राणायामसंज्ञितः । प्राणायामप्रमाणन्तु मात्रा वै द्वादश स्मृताः ।। १०.
मन्दो द्वादशमात्रस्तु उद्वाता द्वादश स्मृताः । मध्यमश्च द्विरुद्वातश्चतुर्विंशतिमात्रिकः ।। १०.
उत्तमस्तत्र्त्रिरुद्वातो मात्राः षट्त्रिंशदुच्यते। स्वेदकम्पविषादानां जननो ह्युत्तमः स्मृतः ।। १०.
इत्येतत् त्रिविधं प्रोक्तं प्राणायामस्य लक्षणम्। प्रमाणञ्च समासेन लक्षणञ्च निबोधत ।। १०.
सिंहो वा कुञ्जरो वापि तथाऽन्यो वा मृगो वने। गृहीतः सेव्यमानस्तु मृदुः समुपजायते ।। १०.
तथा प्राणो दुराधर्षः सर्वेषामकृतात्मनाम् । योगतः सेव्यमानस्तु स एवाभ्यासतो व्रजेत् ।। १०.
स चैव हि यथा सिंहः कुञ्जरो वापि दुर्बलः। कालान्तरवशाद्योगाद्गम्यते परिमर्द्दनात् ।। १०.
परिधाय मनो मन्दं वश्यत्वं चाधिगच्छति । परिधाय मनोदेवं तथा जीवति मारुतः ।। १०.
वश्यत्वं हि यथा वायुर्गच्छते योगमास्थितः। तदा स्वच्छन्दतः प्राणं नयते यत्र चेच्छति ।। १०.
यथा सिंहो गजो वापि वश्यत्वादवतिष्ठते। अभयाय मनुष्याणां मृगेभ्यः संप्रवर्त्तते ।। १०.
यथा परिचितश्चायं वायुर्वै विश्वतोमुखः। परिध्यायमानः संरुद्धः शरीरे किल्बिषं दहत् ।। १०.
प्राणायामेन युक्तस्य विप्रस्य नियतात्मनः। सर्वे दोषाः प्रणश्यन्ति सत्त्वस्थश्चैव जायते ।। १०.
तपांसि यानि तप्यन्ते व्रतानि नियमाश्च ये। सर्वयज्ञफलञ्चैव प्राणायामश्च तत्समः ।। १०.
अब्बिन्दुं यः कुशाग्रेण मासि मासि समश्रुते। संवत्सरशतं साग्रं प्राणायामञ्च तत्समम् ।। १०.
प्राणायामैर्दहेर्दोषान् धारणाभिश्च किल्बिषम्। प्रत्याहारेण विषयान् ध्यानेनानाश्वरान् गुणान् ।। १०.
तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् । सर्वपापविशुद्धात्मा परं ब्रह्माधिगच्छति ।। १०.
एकं महान्तं दिवसमहोरात्रमथापि वा। अर्द्धमासं तथा मासमयनाब्दयुगानि च ।। ११.
महायुगसहस्राणि ऋषयस्तपसि स्थिताः। उपासते महात्मानः प्राणं दिव्येन चक्षुषा ।। ११.
अतऊर्द्ध्वं प्रवक्ष्यामि प्राणायामप्रयोजनम्। फलञ्चैव विशेषेण यथाह भगवान् प्रभुः ।। ११.
प्रयोजनानि चत्वारि प्राणायामस्य विद्धिवै। शान्तिः प्रशान्तिर्दीप्तिश्च प्रसादश्च चतुष्टयम् ।। ११.
घोराकारशिवानान्तु कर्मणां फलसम्भवम्। स्वयंकृतानि कालेन इहामुत्र च देहिनाम् ।। ११.
पितृमातृ प्रदुष्टानां ज्ञातिसम्बन्धिसङ्करैः। क्षपणं हि कषायाणां पापानां शान्तिरुच्यते ।। ११.
लोभमानात्मकानां हि पापानामपि संयमः । इहामुत्र हितार्थाय प्रशान्तिस्तप उच्यते ।। ११.
सूर्येन्दुग्रहताराणां तुल्यस्तु विषयो भवेत्। ऋषीणाञ्च प्रसिद्धानां ज्ञानविज्ञानसम्पदाम् ।। ११.
अतीतानागतानाञ्च दर्शनं साम्प्रतस्य च । बुद्धस्य समतां यान्ति दीप्तिः स्यात्तप उच्यते ।। ११.
इन्द्रियाणीन्द्रियार्थांश्च मनः पञ्च च मारुतान् । प्रसादयति येनासौ प्रसाद इति संज्ञितः ।। ११.
इत्येष धर्मः प्रथमः प्राणायामश्चतुर्विधः। सन्निकृष्टफलो ज्ञेयः सद्यःकालप्रसादजः ।। ११.
अत ऊर्द्ध्वं प्रवक्ष्यामि प्राणायामस्य लक्षणम्। आसनं च यथातत्त्वं युञ्जतो योगमेव च ।। ११.