अत्येति देवानैश्चर्याद्बलेन च महासुरान्। ज्ञानेन च मुनीन् सर्वान् योगाद्भूतानि सर्वशः ।। १०.
योगं तपश्च सत्यञ्च धर्मञ्चापि महामुने। माहेश्वरस्य ज्ञानस्य साधनञ्च प्रजक्ष्व नः ।। १०.
येन येन च धर्मेण गतिं प्राप्स्यन्ति वै द्विजाः। तत्सर्वं श्रोतुमिच्छामि योगं माहेश्वरं प्रभो ।। १०.
पञ्च धर्माः पुराणे तु रुद्रेण समुदाहृताः। माहेश्वर्यं यथा प्रोक्तं रुद्रैरक्लिष्टकर्मभिः ।। १०.
आदित्यैर्वसुभिः साध्यैरश्विभ्याञ्चैव सर्वशः। मरुद्भिर्भृगुभिश्चैव ये चान्ये विबुधालयाः ।। १०.
यमशुक्रपुरोगैश्च पितृकालान्तकैस्तथा। एतैश्वान्यैशचव बहुभिस्ते धर्माः पर्युपासिताः ।। १०.
ते वै प्रक्षीणकर्माणः शारदाम्बरनिर्मलाः। उपासते मुनिगणाः सन्धायात्मानमात्मनि ।। १०.
गुरुप्रियहिते युक्ता गुरूणां वै प्रियेप्सवः। विमुच्य मानुषं जन्म विहरन्ति च देववत् ।। १०.
महेश्वरेण ये प्रोक्ताः पञ्च धर्माः सनातनाः। तान् सर्वान् क्रमयोगेन उच्यमानान्निबोधत ।। १०.
प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा। स्मरणञ्चैव योगेऽस्मिन् पञ्च धर्माः प्रकीर्त्तिताः ।। १०.
तेषां क्रमविशेषेण लक्षणं कारणं तथा। प्रवक्ष्यामि तथा तत्त्वं यथा रुद्रेण भाषितम् ।। १०.
प्राणायामगतिश्वापि प्राणस्यायाम उच्यते । स चापि त्रिविधः प्रोक्तो मन्दो मध्योत्तमस्तथा ।। १०.
प्राणानाञ्च निरोधस्तु स प्राणायामसंज्ञितः । प्राणायामप्रमाणन्तु मात्रा वै द्वादश स्मृताः ।। १०.
मन्दो द्वादशमात्रस्तु उद्वाता द्वादश स्मृताः । मध्यमश्च द्विरुद्वातश्चतुर्विंशतिमात्रिकः ।। १०.
उत्तमस्तत्र्त्रिरुद्वातो मात्राः षट्त्रिंशदुच्यते। स्वेदकम्पविषादानां जननो ह्युत्तमः स्मृतः ।। १०.
इत्येतत् त्रिविधं प्रोक्तं प्राणायामस्य लक्षणम्। प्रमाणञ्च समासेन लक्षणञ्च निबोधत ।। १०.
सिंहो वा कुञ्जरो वापि तथाऽन्यो वा मृगो वने। गृहीतः सेव्यमानस्तु मृदुः समुपजायते ।। १०.
तथा प्राणो दुराधर्षः सर्वेषामकृतात्मनाम् । योगतः सेव्यमानस्तु स एवाभ्यासतो व्रजेत् ।। १०.
स चैव हि यथा सिंहः कुञ्जरो वापि दुर्बलः। कालान्तरवशाद्योगाद्गम्यते परिमर्द्दनात् ।। १०.
परिधाय मनो मन्दं वश्यत्वं चाधिगच्छति । परिधाय मनोदेवं तथा जीवति मारुतः ।। १०.
वश्यत्वं हि यथा वायुर्गच्छते योगमास्थितः। तदा स्वच्छन्दतः प्राणं नयते यत्र चेच्छति ।। १०.
यथा सिंहो गजो वापि वश्यत्वादवतिष्ठते। अभयाय मनुष्याणां मृगेभ्यः संप्रवर्त्तते ।। १०.
यथा परिचितश्चायं वायुर्वै विश्वतोमुखः। परिध्यायमानः संरुद्धः शरीरे किल्बिषं दहत् ।। १०.
प्राणायामेन युक्तस्य विप्रस्य नियतात्मनः। सर्वे दोषाः प्रणश्यन्ति सत्त्वस्थश्चैव जायते ।। १०.
तपांसि यानि तप्यन्ते व्रतानि नियमाश्च ये। सर्वयज्ञफलञ्चैव प्राणायामश्च तत्समः ।। १०.
अब्बिन्दुं यः कुशाग्रेण मासि मासि समश्रुते। संवत्सरशतं साग्रं प्राणायामञ्च तत्समम् ।। १०.
प्राणायामैर्दहेर्दोषान् धारणाभिश्च किल्बिषम्। प्रत्याहारेण विषयान् ध्यानेनानाश्वरान् गुणान् ।। १०.
तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् । सर्वपापविशुद्धात्मा परं ब्रह्माधिगच्छति ।। १०.
एकं महान्तं दिवसमहोरात्रमथापि वा। अर्द्धमासं तथा मासमयनाब्दयुगानि च ।। ११.
महायुगसहस्राणि ऋषयस्तपसि स्थिताः। उपासते महात्मानः प्राणं दिव्येन चक्षुषा ।। ११.