एते सर्वे महाभागाः प्रज्ञाः स्वानुष्ठिताः स्थिताः। मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् ।। १०.
श्रद्धा कामं विजज्ञे वै दर्पो लक्ष्मीसुतः स्मृतः। धृत्यास्तु नियमः पुत्रस्तुष्टयाः सन्तोष उच्यते ।। १०.
पुष्ट्या लाभः सुतश्चापि मेधापुत्रः श्रुतस्तथा। क्रियायास्तु नयः प्रोक्तो दण्डः समय एव च ।। १०.
बुद्धेर्वौधसुतश्चापि अप्रमादश्च तावुभौ । लज्जाया विनयः पुत्रो व्यवसायो वपुःसुतः ।। १०.
क्षेमः शान्तिसुतश्चापि सुखं सिद्धेर्व्यजायत। यशः कीर्त्तेः सुतश्चापि इत्येते धर्मसूनवः ।। १०.
कामस्य हर्षः पुत्रो वै देव्या रत्या व्यजायत। इत्येष वै सुखोदर्क्कः सर्गो धर्मस्य कीर्त्तितः ।। १०.
जज्ञे हिंसा त्वधर्माद्धै निकृतिश्चानृतावुभौ । निकृत्यानृतयोर्जज्ञे भयं नरक एव च ।। १०.
माया च वेदना चापि मिथुनद्वयमेतयोः। भयाज्जज्ञेऽथ सा माया मृत्युं भूतापहारिणम् ।। १०.
वेदनायास्ततश्चापि दुःखं जज्ञेऽथ रौरवात् । मृत्ययोर्व्याधिज्वरा शोकाः क्रोधोऽसूया च जज्ञिरे । दुःखान्तरा स्मृता ह्येते सर्वे चाधर्मलक्षणाः ।। १०.
तेषां भार्याऽस्ति पुत्रो वा ते सर्वे निधनाः स्मृताः । इत्येष तामसः सर्गो जज्ञे धर्मनियामकः ।। १०.
प्रजाः सृजेति व्यादिष्टो ब्रह्मणा नीललोहितः । सोऽभिध्याय सतीं भार्यान्निर्ममे ह्यात्मसम्भवाम् ।। १०.
नाधिकान्न च हीनांस्तान्मानसानात्मनः समान्। सहस्रं हि सहस्राणामसृजत् कृमिवाससा। तुल्या श्चैवात्मनः सर्वे रूपतेजोबलश्रुतैः ।। १०.
पिङ्गलान्सन्निषङ्गांश्च सकपर्द्दान् विलोहितान् । विवासान् हरि केशांश्च दृष्टिघ्नांश्च कपालिनः ।। १०.
बहुरूपान् विरूपांश्च विश्वरूपांश्चरूपिणः। रथिनो वर्मिणश्चैव धर्मिणश्च वरूथिनः ।। १०.
सहस्रशत बाहूंश्च दिव्यान् भौमान्तरिक्षगान्। स्थूलशीर्षानष्टदंष्ट्रानुद्विजिह्वांस्त्रिलोचनान् ।। १०.
अन्नादान् पिशितादांश चव आज्यपान् सोमपांस्तथा। मेदपां स्वातिकायांश्च शितिकण्ठोग्रमन्यवः ।। १०.
सोपासङ्गतलत्रांश्च धन्विनो ह्युपवर्मिणः। आसीनान् धावतश्चैव जृम्भिनश्चैव धिष्ठितान् ।। १०.
अध्या पिनोऽथ जपतो युञ्जतोऽध्यायतस्तथा। ज्वलतो वर्षतश्चैव द्योतमानान् प्रधूपितान् ।। १०.
बुद्धान् बुद्धतमांश्चैव ब्रह्मिष्ठान् शुभदर्शनान् । नीलग्री वान् सहस्राक्षान् संर्वाश्चाथ क्षपाचरान् ।। १०.
अदृश्यान् सर्वभूतानां महायोगान् महौजसः। रूदतोद्रवतश्चैव एवंयुक्तान् सहस्रशः। अपातयामानसृजत् रुद्ररूपान् सुरोत्तमान् ।। १०.
ब्रह्मा दृष्ट्वाऽब्रवीदेतान्मास्राक्षीरीदृशीः प्रजाः। स्रष्टव्या नात्मनस्तुल्याः प्रजा नैवाधिकास्त्वया। अन्याः सृजत्वं भद्रन्ते स्थितोहन्त्वं सृज प्रजाः ।। १०.
एते ये वै मया मृष्टा विरूपा नीललेहिताः । सहस्राणां सहस्रन्तु आत्मनोपमनिश्चिताः ।। १०.
एते देवा भविष्यन्ति रूद्रा नाम महाबलाः। पृथिव्यामन्तारीक्षे च रुद्रनाम्ना प्रतिश्रुताः ।। १०.
शतरुद्रसमाम्नाता भविष्यन्तीह यज्ञियाः। यज्ञभाजो भविष्यन्ति सर्वे देवयुगैः सह ।। १०.
मन्वन्तरेषु ये देवा भविष्यन्तीह च्छन्दजाः। तैः सार्द्धमीज्यमानास्ते स्थास्यन्तीह युगक्षयात् ।। १०.
एवमुक्तस्तदा ब्रह्मा महादेवेन धीमता। प्रत्युवाच तदा भीमं हृष्यमाणः प्रजापतिः ।। १०.
एवं भवतु भद्रं ते यथा ते व्याहृतं प्रभो। ब्रह्मणा समनुज्ञा ते सदा सर्वमभूत् किल ।। १०.
ततःप्रभृति देवेशो न प्रासूयत वै प्रजाः। ऊर्द्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसंप्लवम्। यस्माच्चोक्तं स्थितोऽस्मीति ततः स्थाणुरिति स्मृतः ।। १०.
ज्ञानं वैराग्यमैश्वर्यं तपः सचत्यं क्षमा धृतिः। स्रष्टृत्वमात्मसम्बोधस्त्वधिष्ठातृत्वमेव च। अथ यानि दशैतानि नित्यन्तिष्ठन्ति शङ्करे ।। १०.
सर्वान् देवान् ऋषींश्चैव समेतानसुरैः सह। अत्येति तेजसा देवो महादेवस्ततः स्मृतः ।। १०.