तमोमात्रावृतो ब्रह्मा तदाप्रभृति दुःखितः। ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम् ।। १०.
अथात्मनि समस्राक्षीत्तमोमात्रां नियामिकाम् । राजसत्वं पराजित्य वर्त्तमानं स धर्मतः ।। १०.
तप्यते तेन दुःखेन शोकञ्चक्रे जगत्पतिः। तमश्च व्यनुदत्तस्माद्रजस्तमसमावृणोत् ।। १०.
तत्तमः प्रतिनुत्तं वै मिथुनं स व्यजायत। अधर्माच्चरणाज्जज्ञे हिंसा शोकादजायत ।। १०.
ततस्तस्मिन् समुद्भूते मिथुने चरणात्मनि। ततश्च भगवानासीत् प्रीतश्चैवमशिश्रियत् ।। १०.
स्वां तनुं स ततो ब्रह्मा तामपोहदभास्वराम्। द्विधाकरोत्स तं देहमर्द्धेन पुरुषोऽभवत् ।। १०.
अर्द्धेन नारी सा तस्य शतरूपा व्यजायत। प्राकृतां भूतधात्रीं तां कामान्वै सृष्टवान् विभुः ।। १०.
सा दिवं वृथिवीञ्चैव महिम्ना व्याप्य धिष्ठिता। ब्रह्मणः सा तनुः पूर्वा दिवमावृत्त्य तिष्ठति ।। १०.
या त्वर्द्धात् सृजते नारी शतरूपा व्यजायत। सा देवी नियुतन्तप्त्वा तपः परमदुश्चरम् ।। १०.
भर्तारन्दीप्तयशसं पुरुषं प्रत्यपद्यत। स वै स्वायम्भुवः पूर्वं पुरुषो मनुरुच्यते ।। १०.
तस्यैवसप्ततियुगं मन्वन्तरमिहोच्यते । लब्धा तु पुरुषः पत्नीं शतरूपामयोनिजाम् ।। १०.
तया स रमते सार्द्धं तस्मात्सा रतिरुच्यते। प्रथमः संप्रयोगः स कल्पादौ समवर्त्तत ।। १०.
विराजमसृजत् ब्रह्मा सोऽभवत् पुरुषो विराट् । सम्राण्मानसरूपात्तु वै राजस्तु मनुः स्मृतः ।। १०.
स वैराजः प्रजासर्गः स सर्गे पुरुषो मनुः। वैराजात्पुरुषाद्वीराच्छतरूपा व्यजायत ।। १०.
प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ । कन्ये द्वे च महाभागे याभ्यां जाताः प्रजास्त्विमाः ।। १०.
देवी नाम्ना तथाकूतिः प्रसूतिश्चैव ते शुभे। स्वायम्भुवः प्रसूतिन्तु दक्षाय व्यसृजत् प्रभुः ।। १०.
प्राणो दक्षस्तु विज्ञेयः सङ्कल्पो मनुरुच्यते। रुचेः प्रजापतेश्चैव आकूतिं प्रत्यपादयत् ।। १०.
आकूत्यां मिथुनं यज्ञे मानसस्य रुचेः शुभम्। यज्ञश्च दक्षिणा चैव यमकौ सम्बभूवतुः ।। १०.
यज्ञस्य दक्षिणायाञ्च पुत्रा द्वादश जज्ञिरे। यामा इति समाखयाता देवाः स्वायम्भुवेऽन्तरे ।। १०.
यमस्य पुत्रा यज्ञस्य तस्माद्यामास्तु ते स्मृताः। अजिताश्चैव शूकाश्च गणौ द्वौ ब्रह्मणः स्मृतौ ।। १०.
यामाः पूर्वं परिक्रान्ता यतः संज्ञा दिवौकसः। स्वायम्भूवसुतायान्तु प्रसूत्यां लोकमातरः ।। १०.
तस्यां कन्याश्चतुर्विंशद्दक्षस्त्वजनयत् प्रभुः। सर्वास्ताश्च महाभागाः सर्वाः कमललोचनाः ।। १०.
योगपत्न्यश्च ताः सर्वाः सर्वास्ता योगमातरः। श्रद्धा लक्ष्मी धॄतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा। बुद्धिर्ल्लज्जा वपुः शान्तिः सिद्धिः कीर्त्तिस्त्रयोदशी ।। १०.
पत्न्यर्थे प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः। द्वाराण्येतानि चैवास्य विहितानि स्वयम्भुवा ।। १०.
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः। ख्यातिः सत्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा ।। १०.
सन्नतिशचवानसूया च ऊर्ज्जा स्वाहा स्वधा तथा। तास्ततः प्रत्यपद्यन्त पुनरन्ये महर्षयः ।। १०.
रुद्रो भृगुर्मरीचिश्च अङ्गिराः पुलहः क्रतुः । पुलस्त्योऽत्रिर्वसिष्ठश्च पितरोऽग्रिस्तथैव च ।। १०.
सतीं भवाय प्रायच्छत् ख्यातिञ्च भृगवे तथा। मरीचये च सम्भूतिं स्मृतिमाङ्गिरसे ददौ ।। १०.
प्रीतिं चैव पुलस्त्याय क्षमां वै पुलहाय च। क्रतवे सन्नतिं नाम अनसूयान्तथात्रये ।। १०.
ऊर्ज्जं ददौ वसिष्ठाय स्वाहां वै ह्यग्नये ददौ । स्वधां चैव पितृभ्यस्तु तास्वपत्यानि वक्ष्यते ।। १०.