इत्येते मानसाः पुत्रा विज्ञेया ब्रह्मणः सुताः। भृग्वादयस्तु ये सृष्टा ना चैते ब्रह्मवादिनः
गृहमेधिनः पुराणास्ते धर्मस्तैः प्राक् प्रवार्त्तितः। द्वादशैते प्रवर्त्तन्ते सह रुद्रेण वैप्रजाः
ऋभुः सनत्कुमारस्तु द्वावेतावूर्द्ध्वरेतसौ। पूर्वोत्पन्नौ पुरा तेभ्यः सर्वेषामपि पूर्वजौ
व्यतीते प्रथमे कल्पे पुराणे लोकसाधकौ। वैराजे तावुभौ लोके तेजः संक्षिप्य चास्थितौ
तावुभौ योगधर्माणावारोप्यात्मानमात्मनि। प्रजाधर्मञ्च कामञ्च वर्त्तयेतां महौजसा ॥१.९.
यथोत्पन्नस्तथैवेह कुमार इति चोच्यते। तस्मात्सनत्कुमारोयमिति नामास्य कीर्तितम्
तेषां द्वादश ते वंशा दिव्या देवगुणान्विताः। क्रियावन्तः प्रजावन्तो महर्षिभिरलंकृताः
इत्येष करणोद्भूतो लोकान् स्रष्टुं स्वयंभुवः। महदादिविशेषान्तो विकारः प्रकृतेः स्वयम्
चन्द्रसूर्यप्रभालोको ग्रहनक्षत्रमण्डितः। नदीभिश्च समुद्रैश्च पर्वतैश्च समावृतः
पुरैश्च विविधाकारैः प्रीतैर्ज्जनपदैस्तथा। तस्मिन् ब्रह्मवनेऽव्यक्ते ब्रह्मा चरति शर्वरीम्
अव्यक्तबीजप्रभवस्तस्यैवानुग्रहोत्थितः। बुद्धिस्कन्धमयश्चैव इन्द्रियाङ्कुरकोटरः
महाभूतप्रशाखश्च विशेषैः पत्रवांस्तथा। धर्माधर्मसुपुष्पस्तु सुखदुःखफलोदयः
आजीवः सर्वभूतानामयं वृक्षः सनातनः। एतद्ब्रह्मबलं चैव ब्रह्मवृक्षस्य तस्य ह
अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम्। इत्येषोऽनुग्रहः सर्गो ब्रह्मणः प्राकृतस्तु यः
मुख्यादयस्तु षट्सर्गा वैकृता बुद्धिपूर्वकाः। त्रैकाले समवर्तन्त ब्रह्मणस्तेऽभिमानिनः ॥१.९.
सर्गाः परस्परस्याथ कारणं ते बुधैः स्मृताः। दिव्यौ सुपर्णौ सयुजौ सशाखौ पटविद्रुमौ
द्यौर्मूर्द्धानं यस्य विप्रास्तुवन्ति खन्नाभिं वै चन्द्रसूर्यौ च नेत्रे। दिशः श्रोत्रे चरणौ चास्य भूमिः सोऽचिन्त्यात्मा सर्वभूत प्रसूतिः
वक्राद्यस्य ब्राह्मणाः संप्रसूता यद्वक्षस्तः क्षत्रियाः पूर्वभागे। वैश्याश्वोरोर्यस्य पद्भयां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः
महेश्वरः परोऽव्यक्तादण्डमव्यक्तसंभवम्। अण्डाज्जज्ञे पुनर्ब्रह्मा येन लोकाः कृतास्त्विमे
एवंभूतेषु लोकेषु ब्रह्मणा लोककर्तृणा। यदा ता न प्रवर्त्तन्ते प्रजाः केनापि हेतुना ।। १०.
तमोमात्रावृतो ब्रह्मा तदाप्रभृति दुःखितः। ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम् ।। १०.
अथात्मनि समस्राक्षीत्तमोमात्रां नियामिकाम् । राजसत्वं पराजित्य वर्त्तमानं स धर्मतः ।। १०.
तप्यते तेन दुःखेन शोकञ्चक्रे जगत्पतिः। तमश्च व्यनुदत्तस्माद्रजस्तमसमावृणोत् ।। १०.
तत्तमः प्रतिनुत्तं वै मिथुनं स व्यजायत। अधर्माच्चरणाज्जज्ञे हिंसा शोकादजायत ।। १०.
ततस्तस्मिन् समुद्भूते मिथुने चरणात्मनि। ततश्च भगवानासीत् प्रीतश्चैवमशिश्रियत् ।। १०.
स्वां तनुं स ततो ब्रह्मा तामपोहदभास्वराम्। द्विधाकरोत्स तं देहमर्द्धेन पुरुषोऽभवत् ।। १०.
अर्द्धेन नारी सा तस्य शतरूपा व्यजायत। प्राकृतां भूतधात्रीं तां कामान्वै सृष्टवान् विभुः ।। १०.
सा दिवं वृथिवीञ्चैव महिम्ना व्याप्य धिष्ठिता। ब्रह्मणः सा तनुः पूर्वा दिवमावृत्त्य तिष्ठति ।। १०.
या त्वर्द्धात् सृजते नारी शतरूपा व्यजायत। सा देवी नियुतन्तप्त्वा तपः परमदुश्चरम् ।। १०.
भर्तारन्दीप्तयशसं पुरुषं प्रत्यपद्यत। स वै स्वायम्भुवः पूर्वं पुरुषो मनुरुच्यते ।। १०.