सनत्कुमारं च विभुं सनकं च सनन्दनम्। न ते लोकेषु सर्ज्जन्ते निरपेक्षाः सनातनाः
सर्वे ते ह्यागतज्ञाना वीतरागा विमत्सराः। तेष्वेवं निरपेक्ष्येषु लोकवृत्तानुकारणात्
हिरण्यगर्भो भगवान् परमेष्ठी ह्यचिन्तयत्। तस्य रोषात्समुत्पन्नः पुरुषोऽर्क्कसमद्युतिः। अर्द्धनारीनरवपुस्तेजसा ज्वलनोपमः
सर्वं तेजोमयं जातमादित्यसमतेजसम्। विभजात्मानमित्युक्त्वा तत्रैवान्तरधीयत
एवमुक्त्वा द्विधाभूतः पृथक् स्त्री पुरुषः पृथक्। स चैकादशधा जज्ञे अर्द्धमात्मानमीश्वरः ॥१.९.
तेनोक्तास्ते महात्मानः सर्व एव महात्मना। जगतो बहुलीभावमधिकृत्य हितैषिणः
लोकवृत्तान्तहेतोर्हि प्रयतध्वमतन्द्रिताः। विश्वं विश्वस्य लोकस्य स्थापनाय हिताय च
एवमुक्तास्तु रुरुदुर्दुद्रुवुश्च समन्ततः। रोदनाद्द्रावणाच्चैव रुद्रा नाम्नेतिविश्रुताः
यैर्हि व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम्। तेषामनुचरा लोके सर्वलोकपरायणाः
नैकनागा युतबला विक्रान्ताशचव गणेश्वराः। तत्र या सा महाभागा शंकरस्यार्द्धकायिनी
प्रागुक्ता तु मया तुभ्यं स्त्री स्वयंभोर्मुखोद्गता। कायार्द्धं दक्षिणन्तस्याः शुक्लं वामं तथाऽसितम्
आत्मानं विभजस्वेति सोक्ता देवी स्वयंभुवा। सा तु प्रोक्ता द्विधाभूता शूक्ला कृष्णा च वै द्विजाः। तस्या नामानि वक्ष्यामि श्रृणुध्वं सुसमाहिताः
स्वाहा स्वधा महाविद्या मेधा लक्ष्मीः सरस्वती। अपर्णा चैकपर्णा च तथा स्यादेव पाटला
उमा हैमवती षष्ठी कल्याणी चैव नामतः। ख्यातिः प्रज्ञा महाभागा लोके गौरीति विश्रुता
विश्वरूपमथार्यायाः पृथग्देहविभावनात्। श्रृणु संक्षेपतस्तस्या यथावदनुपूर्वशः ॥१.९.
प्रकृतिर्नियता रौद्री दुर्गा भद्रा प्रमाथिनी। कालरात्रिर्महामाया रेवती भुतनायिका
द्वापरान्तविकारेषु देव्या नामानि मे श्रृणु। गौतमी कौशिकी आर्या चण्डी कात्यायनी सती
कुमारी यादवी देवी वरदा कृष्णपिङ्गला। बर्हिर्ध्वजा शूलधरा परमब्रह्मचारिणी
माहेन्द्री चेन्द्रभगिनी वृषकन्यैकवाससी। अपराजिता बहुभुजा प्रगल्भा सिंहवाहिनी
एकानसा दैत्यहनी माया महिषमर्द्दिनी। अमोघा विन्ध्यनिलया विक्रान्ता गणनायिका
देवीनामविकाराणि इत्येतानि यथाक्रमम्। भद्रकाल्यास्तवोक्तानि देव्या नामानि तत्त्वतः
ये पठन्ति नरास्तेषां विद्यते न पराभवः। अरण्ये प्रान्तरे वापि पुरे वापि गृहेऽपि वा
रक्षामेतां प्रयुञ्जीत जले वापि स्थलेऽपि वा। व्याध्रकुम्भीरचौरेभ्यो भूतस्थाने विशेषतः। आधिष्वपि च सर्वासु देव्या नामानि कीर्त्तयेत्
अर्भकग्रहभूतैश्च पूतनामातृभिः सदा। अभ्यर्दितानां बालानां रक्षामेतां प्रयोजयेत्
महादेवी कुले द्वे तु प्रज्ञा श्रीश्च प्रकीर्त्त्यते। आभ्यां देवीसहस्राणि यैर्व्याप्तमखिलं जगत् ॥१.९.
साऽसृजद् व्यवसायन्तु धर्मं भूतसुखावहम्। सङ्कल्पञ्चैव कल्पादौ जज्ञिरेऽव्यक्तयोनितः
मानसश्च रुचिर्न्नाम विज्ञेयो ब्रह्मणः सुतः। प्राणात् स्वादसृजद्दक्षञ्चक्षुर्भ्याञ्च मरीचिकम्
भृगुस्तु हृदयाज्जज्ञे ऋषिः सलिलजन्मनः। शिरसोऽङ्गिरसञ्चैव श्रोत्रादत्रिन्तथैव च
पुलस्त्यञ्च तथोदानाद्य्वानाच्च पुलहं पुनः। समानजं वसिष्ठन्तु अपानान्निर्ममे क्रतुम्
अभिमानात्मकं भद्रं निर्ममे नीललोहितम्। इत्येते ब्रह्मणः पुत्राः प्राणजा द्वादश स्मृताः