स तु गर्भाद्विनिःसृत्य मातुर्वै उदरात्तदा। उपक्लृप्तासनं यत्तु होतुरर्थे हिरण्मयम्। निषसाद सगर्भोऽत्र तत्रासीनः शशंस च ।। ६.
आक्यानपञ्चमान् वेदान् महर्षिः काश्यपो यथा। तं दृष्ट्वा मुनयस्तस्य नामाकुर्वंस्तु तद्विधम् ।। ६.
हिरण्यकशिपुस्तस्मात् कर्मणा तेन विश्रुतः। हिरण्याक्षोऽनुजस्तस्य सिंहिका तस्य चानुजा। राहोः सा जननी देवी विप्रचित्तेः परिग्रहात् ।। ६.
हिरण्यकशिपुर्द्दैत्यश्चचार परमं तपः। शतं वर्षसहस्राणां निराहारो ह्यधःशिराः ।। ६.
तं ब्रह्मा छन्दयामास दैत्यं तुष्टो वरेण तु। सर्वामरत्वं विप्रेभ्यः सर्वभूतेभ्य एव च। योगाद्देवान् विनिर्जित्य सर्वदेवत्वमास्थितः ।। ६.
दानवाश्चासुराश्चैव देवाः समा भवन्तु वै। मारुतेर्यन्महैश्वर्यमेष मे दीयतां वरः ।। ६.
एवमुक्तोऽथ ब्रह्मा तु तस्मै दत्त्वा यथेप्सितम्। दत्त्वा तस्मै वरान् दिव्यान् तत्रैवान्तरधीयत। हिरण्यकशिपुर्दैत्यः श्लोकैर्गीतः पुरातनैः ।। ६.
राजा हिरण्यकशिपुर्यां यामाशां निषेवते। तस्यास्तस्या दिशो देवा नमश्चक्रुर्महर्षिभिः ।। ६.
एवंप्रभावो दैत्येन्द्रो हिरण्यकशिपु र्द्विजाः। तस्यासीन्नरसिंहः स विष्णुर्मृत्युः पुरा किल। नखैस्तु तेन निर्भिन्नस्ततः शुद्धा नखाः स्मृताः ।। ६.
हिरण्याक्षसुताः पञ्च विक्रान्ताः सुमहा बलाः। उत्कुरः शकुनिश्चैव कालनाभस्तथैव च ।। ६.
महानाभश्च विक्रान्तो भूतसन्तापनस्तथा। हिरण्याक्षसुताः ह्येते देवैरपि दुरासदाः ।। ६.
तेषां पुत्राश्च पौत्राश्च बाडेयः सगणः स्मृतः। शतन्तानि सहस्राणि निहतास्तारकामये ।। ६.
हिरण्यकशिपोः पुत्राश्चत्वारस्तु महाबलाः। प्रह्लादः पूर्वजस्तेषामनुह्लादस्तथैव च। संह्रादश्च ह्रदश्चैव ह्रदपुत्रान्निबोधत ।। ६.
ह्रादो निसुन्दश्च तता ह्रदपुत्रौ बभूवतुः। सुन्दोपसुन्दौ विक्रान्तौ निसुन्दतन यावुभौ ।। ६.
ब्रह्मघ्नस्तु महावीर्यो मूकस्तु ह्रददायिनः। मारीचः सुन्दपुत्रस्तु ताडकामुपपद्यते ।। ६.
ताडका निहता साऽथ राघवेण बलीयसा। मूको विनिहतश्चापि किराते सव्यसाचिना ।। ६.
उत्पन्ना महता चैव तपसा भाविताः स्वयम्। तिस्रः कोट्यस्तु तेषां वै मणिवर्त्तनिवासिनाम्। अवध्या देवतानां वै निहताः सव्यसाचिना ।। ६.
अनुह्लादसुतो वायुः शिनीवाली तथैव च । तेषान्तु शतसाहस्रो गणो हालाहलः स्मृतः ।। ६.
वैरोचनस्तु प्राह्लादिः पञ्च तस्यात्मजाः स्मृताः। गवेष्ठी कालनेमिश्च जम्भो बाष्कल एव च। शम्भुस्तु अनुजस्तेषां स्मृताः प्राह्लादिसूनवः ।। ६.
यथाप्रधानं वक्ष्यामि तेषां पुत्रान् दुरासदान्। शुम्भश्चैव निशुम्भश्च विष्वक्सेनो महौजसः ।। ६.
गवेष्ठिनः सुता ह्येते जम्भस्य शतदुन्दुभिः। तथा दक्षश्च खण्डश्च त्रयस्तु जम्भसूनवः ।। ६.
विरोधश्च मनुश्चैव वृक्षायुः कुशलीमुखः। बाष्कलस्य सुता ह्येते कालनेमिसुतान् श्रृणु ।। ६.
ब्रह्मजित् क्षत्रजिच्चैव देवान्तकनरान्तकौ । कालनेमिसुता ह्येते शम्भोस्तु श्रृणुत प्रजाः ।। ६.
धनुको ह्यसिलोमा च नाबलश्च सगोमुखः। गवाक्षश्चैव गोमांश्च शम्भोः पुत्राः प्रकीर्त्तिताः ।। ६.
विरोचनस्य पुत्रस्तु बलिरेकः प्रतापवान्। बलेः पुत्रशतं जज्ञे राजानः सर्व एव ते ।। ६.
तेषां प्रधानाश्चत्वारो विक्रान्ताः सुमहाबलाः। सहस्रबाहुर्ज्येष्ठस्तु बाणो द्रविणसम्मतः। कुम्भनाभो गर्द्दभाक्षः कुशिरित्येवमादयः ।। ६.
शकुनी पूतना चैव कन्ये द्वे तु बलेः सुते। बलेः पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।। ६.
बलिर्यो नामविख्यातो गणो विक्रान्तपौरुषः। बाणस्य चन्द्र मनसो लौहित्यमुपपद्यते ।। ६.
दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम्। स कश्यपः प्रसन्नात्मा सम्यगाराधितस्तया । वरेण च्छन्दयामास सा च वव्रे वरं ततः ।। ६.
स तु तस्यै वरं प्रादात् प्रार्थितं भगवन् प्रभुः। किमिच्छसि मयि शुभ्रे मारीचस्तामभाषत ।। ६.