सामानि जगती च्छन्दस्तोमं पञ्चदशन्तथा। वैरूप्यमतिरात्रञ्च पश्चिमादसृजन्मुखात्
एकविंशमथर्वाणमाप्तोर्यामाणमेव च। अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात्
विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च। वयांसि च ससर्ज्जादौ कल्पस्य भगवान् प्रभुः
उच्चावचानि भूतानि गात्रेब्यस्तस्य जज्ञिरे। ब्रह्मणस्तु प्रजासर्गं सृजतो हि प्रजापतेः
सृष्ट्वा चतुष्टयं पूर्वं देवासुरपितॄन् प्रजाः। ततः सृजति भूतानि स्थावराणि चराणि च ॥१.९.
यक्षान् पिशाचान् गन्धर्वान् तथैवाप्सरसाङ्गणान्। नरकिन्नररक्षांसि वयः पशुमृगोरगान्
अव्ययञ्च व्ययं चैव यदिदं स्थाणु जङ्गमम्। तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे। तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते। तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्त्तिषु। विनियोगञ्च भूतानां धातैव व्यदधात् स्वयम्
केचित् पुरुषकारन्तु प्राहुः कर्म च मानवाः। दैवमित्यपरे विप्राः स्वभावं दैवचिन्तकाः
पौरुषं कर्म दैवञ्च फलवृत्तिस्वभावतः। न चैकं न पृथग्भावमधिकं न तयोर्विदुः। एतदेवञ्च नैकञ्च न चोभे न च वाप्युभे
कर्मस्थान् विषयान् ब्रूयुः सत्त्वस्थाः समदर्शिनः। नामरूपञ्च भूतानां कृतानाञ्च प्रपञ्चनम्। वेदशब्धेभ्य एवादौ निर्ममे स महेश्वरः
ऋषीणां नामधेयानि याश्च देवेषु दृष्टयः। शर्वर्यन्ते प्रसूतानां तान्येवास्य दधाति सः
यथर्त्तावृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा भावा युगादिषु
एवंविधासु सृष्टासु ब्रह्मणाऽव्यक्तजन्मना। शर्वर्यन्ते प्रदृश्यन्ते सिद्धिमाश्रित्य मानसीम् ॥१.९.
एवंभूतानि सृष्टानि चराणि स्थावराणि च। यदास्य ताः प्रजाः सृष्टा न व्यवर्धन्त धीमतः
अथान्यान्मानसान् पुत्रान् सदृशानात्मनोऽसृजत्। भृगुं पुलस्त्यं पुलहं क्रतुमाङ्गिरसन्तथा
मरीचिं दक्षमत्रिं च वसिष्ठं चैव मानसम्। नव ब्रह्माण इत्येते पुराणे निश्चयं गताः । तेषां ब्रह्मात्मकानां वै सर्वेषां ब्रह्मवादिनाम्
ततोऽसृजत्पुनर्ब्रह्मा रुद्रं रोषात्मसंभवम्। संकल्पं चैव धर्मं च पूर्वेषामपि पूर्वजः
अग्रे ससर्ज्ज वै ब्रह्मा मानसानात्मनः समान्। सनन्दनं ससनकं विद्वांसं च सनातनम्
सनत्कुमारं च विभुं सनकं च सनन्दनम्। न ते लोकेषु सर्ज्जन्ते निरपेक्षाः सनातनाः
सर्वे ते ह्यागतज्ञाना वीतरागा विमत्सराः। तेष्वेवं निरपेक्ष्येषु लोकवृत्तानुकारणात्
हिरण्यगर्भो भगवान् परमेष्ठी ह्यचिन्तयत्। तस्य रोषात्समुत्पन्नः पुरुषोऽर्क्कसमद्युतिः। अर्द्धनारीनरवपुस्तेजसा ज्वलनोपमः
सर्वं तेजोमयं जातमादित्यसमतेजसम्। विभजात्मानमित्युक्त्वा तत्रैवान्तरधीयत
एवमुक्त्वा द्विधाभूतः पृथक् स्त्री पुरुषः पृथक्। स चैकादशधा जज्ञे अर्द्धमात्मानमीश्वरः ॥१.९.
तेनोक्तास्ते महात्मानः सर्व एव महात्मना। जगतो बहुलीभावमधिकृत्य हितैषिणः
लोकवृत्तान्तहेतोर्हि प्रयतध्वमतन्द्रिताः। विश्वं विश्वस्य लोकस्य स्थापनाय हिताय च
एवमुक्तास्तु रुरुदुर्दुद्रुवुश्च समन्ततः। रोदनाद्द्रावणाच्चैव रुद्रा नाम्नेतिविश्रुताः
यैर्हि व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम्। तेषामनुचरा लोके सर्वलोकपरायणाः
नैकनागा युतबला विक्रान्ताशचव गणेश्वराः। तत्र या सा महाभागा शंकरस्यार्द्धकायिनी