ध्यायतीत्येष धातुर्वै यात्रार्थे परिपठ्यते। पिबतो जज्ञिरे गास्तु गंधर्वास्तेन ते स्मृताः ।.
अष्टास्वेतासु सृष्टासु देवयोनिषु स प्रभुः। ततः स्वच्छन्दतोऽन्यानि वयांसि वय सोऽसृजत्
छाद्यतस्तानि छन्दांसि वयसोऽपि वयांस्यपि। शून्यान् दृष्ट्वा तु देवो वैऽसृजत्पक्षिगणानपि
मुखतोऽजान् ससर्ज्जाथ वक्षसश्चवयोऽसृजत्। गाश्चैवाथोदराद्ब्रह्मा पार्श्वाभ्याञ्च विनिर्ममे
पद्भ्याञ्चाश्चान् समातङ्गान् शरभान् गवयान् मृगान्। उष्ट्रानश्चतरांश्चैव ताश्वान्याश्चैव जातयः ॥१.९.
ओषध्यः फलमूलानि रोमतस्तस्य जज्ञिरे। एवं पश्वोषधीः सृष्ट्वा न्ययुञ्जत्सोऽध्वरे प्रभुः
तस्मादादौ तु कल्पस्य त्रेतायुगमुखे तदा। गौरजः पुरुषो मेषो ह्यश्वोऽश्वतरगर्द्दभौ। एतान् ग्राम्यान् पशूनाहुरारण्यांश्च निबोधत
श्वापदा द्विखुरो हस्ती वानरः पक्षिपञ्चमाः। उन्दकाः पशवः सृष्टाः सप्तमास्तु सरीसृपाः
गायत्रं वरुणञ्चैव त्रिवृत्सौम्यं रथन्तरम्। अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात्
छन्दांसि त्रैष्टुभङ्कर्म स्तोमं पञ्चदशन्तथा। बृहत्साममथोक्थञ्च दक्षिणात्सोऽसृजन्मुखात्
सामानि जगती च्छन्दस्तोमं पञ्चदशन्तथा। वैरूप्यमतिरात्रञ्च पश्चिमादसृजन्मुखात्
एकविंशमथर्वाणमाप्तोर्यामाणमेव च। अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात्
विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च। वयांसि च ससर्ज्जादौ कल्पस्य भगवान् प्रभुः
उच्चावचानि भूतानि गात्रेब्यस्तस्य जज्ञिरे। ब्रह्मणस्तु प्रजासर्गं सृजतो हि प्रजापतेः
सृष्ट्वा चतुष्टयं पूर्वं देवासुरपितॄन् प्रजाः। ततः सृजति भूतानि स्थावराणि चराणि च ॥१.९.
यक्षान् पिशाचान् गन्धर्वान् तथैवाप्सरसाङ्गणान्। नरकिन्नररक्षांसि वयः पशुमृगोरगान्
अव्ययञ्च व्ययं चैव यदिदं स्थाणु जङ्गमम्। तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे। तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते। तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्त्तिषु। विनियोगञ्च भूतानां धातैव व्यदधात् स्वयम्
केचित् पुरुषकारन्तु प्राहुः कर्म च मानवाः। दैवमित्यपरे विप्राः स्वभावं दैवचिन्तकाः
पौरुषं कर्म दैवञ्च फलवृत्तिस्वभावतः। न चैकं न पृथग्भावमधिकं न तयोर्विदुः। एतदेवञ्च नैकञ्च न चोभे न च वाप्युभे
कर्मस्थान् विषयान् ब्रूयुः सत्त्वस्थाः समदर्शिनः। नामरूपञ्च भूतानां कृतानाञ्च प्रपञ्चनम्। वेदशब्धेभ्य एवादौ निर्ममे स महेश्वरः
ऋषीणां नामधेयानि याश्च देवेषु दृष्टयः। शर्वर्यन्ते प्रसूतानां तान्येवास्य दधाति सः
यथर्त्तावृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा भावा युगादिषु
एवंविधासु सृष्टासु ब्रह्मणाऽव्यक्तजन्मना। शर्वर्यन्ते प्रदृश्यन्ते सिद्धिमाश्रित्य मानसीम् ॥१.९.
एवंभूतानि सृष्टानि चराणि स्थावराणि च। यदास्य ताः प्रजाः सृष्टा न व्यवर्धन्त धीमतः
अथान्यान्मानसान् पुत्रान् सदृशानात्मनोऽसृजत्। भृगुं पुलस्त्यं पुलहं क्रतुमाङ्गिरसन्तथा
मरीचिं दक्षमत्रिं च वसिष्ठं चैव मानसम्। नव ब्रह्माण इत्येते पुराणे निश्चयं गताः । तेषां ब्रह्मात्मकानां वै सर्वेषां ब्रह्मवादिनाम्
ततोऽसृजत्पुनर्ब्रह्मा रुद्रं रोषात्मसंभवम्। संकल्पं चैव धर्मं च पूर्वेषामपि पूर्वजः
अग्रे ससर्ज्ज वै ब्रह्मा मानसानात्मनः समान्। सनन्दनं ससनकं विद्वांसं च सनातनम्