सा तमोबहुला यस्मात्ततो रात्रिस्त्रियामिका। आवृतास्तमसा रात्रौ प्रजास्तस्मात् स्वयम्भुवः
दृष्ट्वा सुरांस्तु देवेशस्तनुमन्यामपद्यत। अव्यक्तां सत्त्वबहुलां ततस्तां सोऽभ्ययूयुजत्। ततस्तां युञ्जतस्तस्य प्रियमासीत् प्रभोः किल
ततो मुखे समुत्पन्ना दीव्यतस्तस्य देवताः। यतोऽस्य दीव्यतो जातास्तेन देवाः प्रकीर्त्तिताः
धातुर्द्दिवीति यः प्रोक्तः क्रीडायां स विभाव्यते। तस्यान्तन्वान्तु दिव्यायां जज्ञिरे तेन देवताः
देवान् सृष्ट्वाथ देवेशस्तनुमन्यामपद्यत। सत्त्वमात्रात्मिकां देवस्ततोऽन्यां सोऽभ्यपद्यत ॥१.९.
पितृवन्मन्यमानस्तान् पुत्रान् प्राध्यायत प्रभुः। पितरो ह्युपपक्षाभ्यां रात्र्यह्नोरन्तरासृजत्। तस्मात्ते पितरो देवाः पुत्रत्वन्तेन तेषु तत्
यया सृष्टास्तु पितरस्तान्तनुं स व्यपोहत। सापविद्धा तनुस्तेन सद्यः सन्ध्या प्रजायत
तस्मादहस्तु देवानां रात्रिर्या साऽसुरी स्मृता। तयोर्मध्ये तु वै पैत्री या तनुः सा गरीयसी
तस्माद्देवासुराः सर्वे ऋषयो मनवस्तथा। ते युक्तास्तामुपासन्ते ब्रह्मणो मध्यमान्तनुम्
ततोऽन्यां स पुनर्ब्रह्मा तनुं वै प्रत्यपद्यत। रजोमात्रात्मिकायान्तु मनसा सोऽसृजत् प्रभुः
रजःप्रायात् ततः सोऽथ मानसानसृजत् सुतान्। मनसस्तु ततस्तस्य मानसा जज्ञिरे प्रजाः
दृष्ट्वा पुनः प्रजाश्चापि स्वान्तनुन्ता मपौहत। सापविद्धा तनुस्तेन ज्योत्स्ना सद्यस्त्वजायत
तस्माद्भवन्ति संदृष्टा ज्योत्स्नाया उद्भवे प्रजाः। इत्येतास्तनवस्तेन व्यपविद्धा महात्मना
सद्यो रात्र्यहनी चैव सन्ध्या ज्योत्स्ना च जज्ञिरे। जयोत्स्ना सन्ध्या तथाहश्च सत्त्वमात्रात्मकं स्वयम्। तमोमात्रात्मिका रात्रिः सा वै तस्मात्र्त्रियामि का
तस्माद्देवा दिव्यतत्त्वात् दृष्टा सृष्टा मुखात्तु वै। यस्मात्तेषां दिवा जन्म बलिनस्तेन ते दिवा ॥१.९.
तन्वा यदसुरान् रात्रौ जघनादसृ जत् प्रभुः
एतान्येव भविष्याणां देवानामसुरैः सह। पितॄणां मानवानाञ्च अतीतानागतेषु वै। मन्वन्तरेषु सर्वेषां निमित्तानि भवन्ति हि
ज्योत्स्ना रात्र्यहनी सन्ध्या चत्वार्याभासितानि वै। भान्ति यस्मात्ततो भासि भाशब्दोऽयं मनीषिभिः। व्याप्तिदीप्त्यां निगदितः पुनश्चाह प्रजापतिः
सोऽम्भांस्येतानि दृष्ट्वा तु देवदानवमानवान्। पितॄंश्च वासृजत्सोऽन्यानात्मनो विबुधान् पुनः
तामुत्कृत्य तनुं कृत्स्नान्ततोऽन्यामसृजत् प्रभुः। मूर्तिं रजस्तमःप्रायां पुनरेवाभ्ययूयुजत्
अन्धकारे क्षुधाविष्ट स्ततोऽन्यां सृजते पुनः। तेन सृष्टाः क्षुधात्मानस्तेऽम्भांस्यादातुमुद्यताः
अम्भांस्येतानि रक्षाम उक्तवन्तश्च तेषु च। राक्षसास्ते स्मृता लोके क्रोधात्मानो निशाचराः
येऽब्रुवन् क्षिणुमोऽम्भांसि तेषां दृष्टाः परस्परम्। तेन ते कर्मणा यक्षा गुह्यकाः क्रूरकर्मिणः
रक्षणे पालने चापि धातुरेष विभाव्यते। य एष क्षितिधातुर्वै क्षयणे सन्निरुच्यते
तान्दृष्ट्वा ह्यप्रियेणास्य केशा अशीर्यंत धीमतः। शीतोष्णाच्चोच्छ्रिता ह्यूर्द्ध्वं तदारोहन्त तं प्रभुम् ॥१.९.
हीना मच्छिरसो व्याला यस्माच्चैवापसर्पिताः। व्यालात्मानः स्मृता व्यालाद्धीनत्वादहयः स्मृताः
पन्नत्वात्पन्नगाश्चैव सर्पाश्चैवापसर्पिणः। तेषां पृथिव्यां निलयाः सूर्याचन्द्रमसोरधः
तस्य क्रोधोद्भवो योऽसावग्निगर्भस्सुदारुणः। स तु सर्पसहोत्पन्नानाविवेश विषात्मिकान्
सर्पान् दृष्ट्वा ततः क्रोधात् क्रोधात्मानो विनिर्ममे। वर्णेन कपिशेनोग्रास्ते भूताः पिशिताशनाः
भूतत्वात्ते स्मृता भूताः पिशाचाः पिशिताशनात्। वयतो गास्ततस्तस्य गन्धर्वो जज्ञिरे तदा