दण्डी च मेखली चैव ह्यधः शायी तथा जटी। गुरुशुश्रूषणं भैक्षं विद्याद्वै ब्रह्मचारिणः
चीरपत्राजिनानि स्युर्द्धान्यमूलफलौषधम्। उभे सन्ध्येऽवगाहश्च होमश्वारण्य वासिनाम्
आसन्नमुसले भैक्षमस्तेयं शौचमेव च। अप्रमादोऽव्यवायश्च दया भूतेषु च क्षमा
अक्रोधो गुरुशुश्रूषा सत्यञ्च दशमं स्मृतम्। दशलक्षणिको ह्येष धर्मः प्रोक्तः स्वयम्भुवा
भिक्षोर्व्रतानि पञ्चात्र पञ्चैवोपव्रतानि च। आचारशुद्धिर्नियमः शौचञ्च प्रतिकर्म च। सम्यग्दर्शनमित्येवं पञ्चैवोपव्रतान्यपि
ध्यानं समाधिर्मनसेन्द्रियाणां ससागरैर्भैक्षमथोपगम्य। मौनं पवित्रोपचितैर्विमुक्तिः परिव्रजो धर्ममिमं वदन्ति
सर्वे ते श्रेयसे प्रोक्तो आश्रमा ब्रहमणा स्वयम्। सत्यार्ज्जवन्तपः क्षान्तिर्योगेज्या दमपूर्विका
वेदाः साङ्गाश्च यज्ञाश्च व्रतानि नियमाश्च ये। न सिद्ध्यन्ति प्रदुष्टस्य भावदोष उपागते
बहिः कर्माणि सर्वाणि प्रसिद्धयन्ति कदाचन। अन्तर्भावप्रदुष्टस्य कुर्वतोऽपि पराक्रमान्
सर्वस्वमपि योदद्यात् कलुषेणान्तरात्मना। न तेन धर्मभाक् स स्याद्भाव एवात्र कारणम्
एवं देवाः सपितर ऋषयो मनवस्तथा। तेषां स्थानममुष्मिस्तु संस्थितानां प्रचक्षते
अष्टाशीतिसहस्राणि ऋषीणामूर्द्ध्वरेतसाम्। स्मृतं तु तेषां तत्स्थानं तदेव गुरुवासिनाम्
सप्तर्षीणान्तु यत्श्थानं स्मृतन्तद्वै दिवौकसाम्। प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणः क्षयः। योगिनाममृतं स्थानं नानाधीनां न विद्यते
स्थानान्याश्रमिणां तानि ये स्वधर्मे व्यवस्थिताः। चत्वार एते पन्थानो देवयाना विनिर्मिताः
ब्रह्मणा लोकतन्त्रेण आद्ये मन्वन्तरे भुवि। पन्थानो देवयानाय तेषां द्वारं रविः स्मृतः
तथैव पितृयाणानां चन्द्रमाद्वारमुच्यते। एवं वर्णाश्रमाणां वै प्रविभागे कृते तदा। यदास्य न व्यवर्त्तन्त प्रजा वर्णाश्रमात्मिकाः
ततोऽन्या मानसीः सोऽथ त्रेतामगध्येऽसृजत् प्रजाः। आत्मनः स्वशरीराच्च तुल्याश्वैवात्मना तु वै
तस्मिस्त्रेतायुगे त्वाद्ये मध्यं प्राप्ते क्रमेण तु। ततोऽन्या मानसीस्तत्र प्रजाः स्रष्टुं प्रचक्रमे
ततः सत्त्वरजोद्रिक्ताः प्रजाः सोऽथासृजत् प्रभुः। धर्मार्थकाममोक्षाणां वार्त्तायाश्चैव साधिकाः
देवाश्च पितरश्चैव ऋषयो मनवस्तथा। युगानुरूपा धर्मेण यैरिमा विचिताः प्रजाः
उपस्थिते तदा तस्मिन् प्रजाधर्मे स्वयम्मुवः। अभिदध्यौ प्रजाः सर्वा नानारूपास्तु मानसीः
पूर्वोक्ता या मया तुभ्यञ्जनलोकं समाश्रिताः। कल्पेऽतीते तु ते ह्यासन् देवाद्यास्तु प्रजा इह
ध्यायतस्तस्य ताः सर्वाः सम्भूत्यर्थमुपस्थिताः। मन्वन्तरक्रमेणेह कनिष्ठे प्रथमे मताः
ख्यात्यानुबन्धैस्तैस्तैस्तु सर्वार्थैरिह भाविताः। कुशलाकुशलप्रायैः कर्मभिस्तैः सदा प्रजाः। तत्कर्मफलशेषेण उपष्टब्धाः प्रजज्ञिरे
देवासुरपितृत्वैश्च पशुपक्षिसरीसृपैः। वृक्षनारकिकीटत्वै स्तैस्तैर्भावैरुपस्थिताः। आधीनांर्थ प्रजानाञ्च आत्मनो वै विनिर्ममे
ततोऽभिध्यायतस्तस्य जज्ञिरे मानसीप्रजाः। तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह। क्षेत्रज्ञाः समवर्त्तन्त गात्रेभ्यस्तस्य धीमतः
ततो देवासुरपितॄन् मानवञ्च चतुष्टयम्। सिसृक्षुम्भांस्येतांश्च स्वात्मना समयूयुजत्
युक्तात्मनस्ततस्तस्य ततो मात्रा स्वयम्भुवः। तमभिध्यायतः सर्गं प्रयत्नोऽभुत् प्रजापतेः
ततोऽस्य जघनात् पूर्वमसुरा जज्ञिरे सुताः। असुः प्राणः स्मृतो विप्रा स्तज्जन्मानस्ततोऽसुराः
यया सृष्टाः सुरास्तन्वा तां तनुं स व्यपोहत। सापविद्धा तनुस्तेन सद्यो रात्रिरजायत