व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः। प्रियङ्गवौ ह्युदाराश्च कारषाश्च सतीनकाः
माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः। आढक्यश्वणकाश्चैव सप्तसप्तदशाः स्मृताः
इत्येता ओषधीनां तु ग्राम्याणां जातयः स्मृताः। ओषध्यो यज्ञियाश्चैव ग्राम्यारण्या श्चतुर्द्दश
व्रीहयः सयवा माषा गोधूमा अणवस्तिलाः। प्रियङुसप्तमा ह्येते अष्टमी तु कुलत्थिका
श्यामाका स्त्वथ नीवारा जर्त्तिलाः सगवेधुकाः। कुरुविन्दा वेणुयवास्तथा मर्कटकाश्च ये
ग्राम्यारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्द्दश। उत्पन्नाः प्रथमा ह्येता आदौ त्रेतायुगस्य तु
अफालकृष्टा ओषध्यो ग्राम्यारण्यास्तु सर्वशः। वृक्षा गुल्मलतावल्लीवीरुधस्तृणजातयः
मूलैः फलैश्च रोहिण्यो गृह्णन् पुष्पैश्च जायते। पृथ्वी दुग्धा तु बीजानि यानि पूर्वं स्वयम्भुवा
ऋतुपुष्पफलास्ता वै ओषध्यो जज्ञिरे त्विह। यदा प्रसृष्टा ओषध्यो न प्ररेहन्ति ताः पुनः
ततः स तासां वृत्त्यर्थं वार्त्तोपायं चकार ह। ब्रह्मा स्वयंभूर्भगवान् दृष्ट्वा सिद्धिं तु कर्मजाम्
ततः प्रभृत्यथौषध्यः कृष्टपच्यास्तु जज्ञिरे। संसिद्धायान्तु वार्त्तायान्ततस्तासां स्वयंभुवः। मर्यादाः स्थापयामास यथारब्धाः परस्परम्
ये वै परिगृहीतारस्तासामासन्विधात्मकाः। इतरेषां कृतत्राणाः स्थापयामास क्षत्रियान्
उपतिष्ठन्ति ये तान्वै यावन्तो निर्भयास्तथा। सत्यं ब्रह्म यथा भूतं यथा भूतं ब्रुवन्तो ब्राह्मणाश्च ते
ये चान्येप्यबलास्तेषां वैश्यसंकर्मसंस्थिताः। कीनाशा नाशयन्ति स्म पृथिव्यां प्रागतन्द्रिताः। वैश्यानेव तु तानाहुः की नाशान् वृत्तिसाधकान्
शोचन्तश्च द्रवन्तश्च परिचर्यासु ये रताः। निस्तेजसोऽल्पवीर्याश्च शूद्रास्तानब्रवीत्तु सः
तेषां कर्माणि धर्माश्च ब्रह्मा तु व्यदधात् प्रभुः। संस्थितौ प्राकृतायां तु चातुर्वर्णस्य सर्वशः
पुनः प्रजास्तु ता मोहात् तान् धर्मांस्तानपालयन्। वर्ण धर्मैरजीवन्त्यो व्यरुध्यन्त परस्परम्
ब्रह्मा तमर्थं बुद्ध्वा तु याथातथ्येन वै प्रभुः। क्षत्रियाणां बलं दण्डं युद्धमाजीवमादिशत्
याजनाध्यापनं चैव तृतीयं च परिग्रहम्। ब्राह्मणानां विभुस्तेषां कर्माण्येतान्यथादिशत्
पाशुपाल्यं च वाणिज्यं कृषिं चैव विशां ददौ। शिल्पाजीवं भृतिञ्चैव शूद्राणां व्यदधात् प्रभुः
सामान्यानि तु कर्माणि ब्रह्मक्षत्रविशां पुनः। यजनाध्ययनं दानं सामान्यानि तु तेषु च
कर्माजीवं ततो दत्त्वा तेभ्यश्चैव परस्परम्। लोकान्तरेषु स्थानानि तेषां सिद्ध्याऽददत् प्रभुः
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम्। स्थानमैन्द्रं क्षत्रियाणां संग्रामष्वेपलायिनाम्
वैश्यानां मारुतं स्थानं स्वधर्ममुपजीविनाम्। गान्धर्वं शूद्रजातीनां प्रतिचारेण तिष्ठताम्
स्थानान्येतानि वर्णानां व्यत्याचारवतां स्वयम्। ततः स्थितेषु वर्णेषु स्थापयामास चाश्रमान्
गृहस्थो ब्रह्मचारित्वं वानप्रस्थं सभिक्षुकम्। आश्रमांश्चतुरो ह्येतान् पूर्वमास्थापयत् प्रभुः
वर्णकर्माणि ये केचित्तेषामिह न कुर्वते । कुतः कर्मा क्षितिं प्राहुराश्रमस्थानवासिनः
ब्रह्मा तान् स्थापयामास आश्रमान्नामनामतः। निर्द्देशार्थं ततस्तेषां ब्रह्मा धर्मान् प्रभाषत। प्रस्थानानि च तेषां वै यमांश्च नियमांश्च ह
चातुर्वर्णात्मकः पूर्वं गृहस्थश्चाश्रमः स्मृतः। त्रयाणामाश्रमाणाञ्च प्रतिष्ठायोनिरेव च। यथाक्रमं प्रवक्ष्यामि यमैश्च नियमैश्च ते
दाराऽग्नयोऽथातिथेय इज्याश्राद्धक्रियाः प्रजाः। इत्येष वै गृहस्थस्य समासाद्धर्मसंग्रहः