धनूंषि दश विस्तीर्णः श्रीमान् राजपथः स्मृतः। नृवाजिरथनागानामसम्बाधः सुसञ्चरः
धनूंषि चैव चत्वारि शाखारथ्यास्तु तैः कृताः। गृहरथ्योपरथ्याश्च द्विकाश्चाप्युपरथ्यकाः
घण्टापथश्चतुष्पादस्त्रिपदञ्च गृहान्तरम्। वृत्तिमार्गास्त्वर्द्धपदं प्राग्वंशः पदिकः स्मृतः
अवस्करं परीवाहं पदमात्रंसमन्ततः। कृतेषु तेषु स्थानेषु पुनस्वक्रुर्गृहाणि वै
यथा ते पूर्वमासन्वै वृक्षास्तु गृहसंस्थिताः। तथा कर्तुं समारब्धाश्चिन्तयित्वा पुनः पुनः
वृक्षाश्चैवगताः शाखा न ताश्चैव परागताः। अत ऊर्द्ध्वंगता श्चान्या एवं तिर्य्यग्गताः पुरा
बुद्ध्वाऽन्विष्यस्तथा न्यायो वृक्षशाखा यथा गताः। तथा कृतास्तु तैः शाखास्तस्माच्छालास्तु ताः स्मृताः
एवं प्रसिद्धाः शाखाभ्यः शालाश्चैव गृहाणि च। तस्मात्ता वैस्मृताः शालाः शालात्वं चैव तासु तत्
प्रसीदति मनस्तासु मनः प्रसादयन्ति ताः। तस्माद्गृहाणि शालाश्च प्रासादाश्चैव संज्ञिताः
कृत्वा द्वन्द्वोपघातांस्तान् वार्त्तोपायमचिन्तयन्। नष्टेषु मधुना सार्द्धं कल्पवृक्षेषु वै तदा। विषादव्याकुलास्तावै प्रजास्तृष्णाक्षुधात्मिकाः
ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः। वार्तार्थसाधिकाप्यन्या वृत्तिस्तासां हि कामतः
तासां वृष्ट्युदकानीह यानि निम्नैर्गतानि तु। वृष्ट्या तदभावत्स्रोतः खातानि निम्नगाः स्मृताः
एवं नद्यः प्रवृत्तास्तु द्वितीये वृष्टिसर्ज्जने। ये परस्तादपां स्तोका आपन्नाः पॄथिवीतले
अपाम्भूमेश्च संयोगादोषध्यस्तासु चाभवन्। पुष्पमूलफलिन्यस्तु ओषध्यस्ताः प्रजज्ञिरे
अफालकृष्टाश्चानुप्ता ग्राम्याऽरण्याश्चतुर्दश। ऋतुपुष्पफलाश्चैव वृक्षा गुल्माश्च जज्ञिरे
प्रादुर्भावश्च त्रेतायां वार्त्तायामौषधस्य तु। तैनौषधेन वर्त्तन्ते प्रजास्त्रेतायुगे तदा
ततः पुनरभूत्तासां रागो लोभश्च सर्वशः। अवश्यम्भाविनार्थेन त्रेतायुगवशेन तु
ततस्ताः पर्यगृह्णन्त नदीक्षेत्राणि पर्वतान्। वृक्षान् गुलर्मौषधीश्चैव प्रसह्य तु यथाबलम्
सिद्धात्मानस्तु ये पूर्वं व्याख्याताः प्राकृते मया। ब्रह्मणा मानवास्ते वै उत्पन्ना योजनादिह
शान्ताश्च सुष्मिणश्चैव कर्मिणो दुःखिनस्तदा। ततः प्रवर्त्तमानास्ते त्रेतायां जर्ज्ञिरे पुनः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा द्रोहिजनास्तथा। भाविताः पूर्वजातीषु कर्मभिश्च शुभाशुभैः
इतस्तेभ्यो बला ये तु सत्यशीला ह्यहिंसकाः। वीतलोभा जितात्मानो निवसन्ति स्म तेषु वै
प्रतिगृह्णन्ति कुर्वन्ति तेभ्यश्चान्येऽल्पतेजसः। एवं विप्रतिपन्नेषु प्रपन्नेषु परस्परम्
तेन दोषेण तेषां ता ओषध्यो मिषतां तदा। प्रणष्टा ह्रियमाणा वै मुष्टिब्यां सिकता यथा
अग्रसद्भूर्युगबलाद्ग्राम्यारण्याश्चतुर्दश। फलं गृह्णन्ति पुष्पैश्च पुष्वं पत्रैश्च याः पुनः
ततस्तासु प्रणष्टासु विभ्रान्तास्ताः प्रजास्तदा। स्वयम्भुवं प्रभुं जग्मुः क्षुधाविष्टाः प्रजापतिम्
वृत्त्यर्थमभि लिप्सन्त आदौ त्रेतायुगस्य तु। ब्रह्मा स्वयम्भूर्भगवान् ज्ञात्वा तासां मनीषितम्
युक्तं प्रत्यक्षदृष्टेन दर्शनेन विचार्य च। ग्रस्ताः पृथिव्या ओषध्यो ज्ञात्वा प्रत्यदुहत्पुनः
कृत्वा वत्सं सुमेरुं तु दुदोह पृथिवीमिमाम्। दुग्धेयं गौस्तदा तेन बीजानि पृथिवीतले
जज्ञिरे तानि बीजानि ग्राम्यारण्यास्तु ताः पुनः। ओषध्यः फलपाकान्ताः सप्तसप्तदशास्तु ताः