यथायोग्यं यथाप्रीति निकेतेष्ववसन् पुनः। मरुधन्वसु निम्नेषु पर्वतेषु नदीषु च। संश्रयन्ति च दुर्गाणि धन्वानं शाश्वतोदकम्
यथायोगं यथाकामं समेषु विषमेषु च। आरब्धास्ते निकेता वै कर्त्तं शीतोष्ण वारणम्
ततः संस्थापयामास खेटानि च पुराणि च। ग्रामांश्चैव यथाभागं तथैवान्तः पुराणि च
तासामायामविष्कम्भान् संनिवेशान्तराणि च। चक्रुस्तदा यथाप्रज्ञं प्रदेशः संज्ञितस्तु तैः
अंगुष्ठस्य प्रदेशिन्या व्यासः प्रादेश उच्यते। तालः स्मृतो मध्यमया गोकर्णश्चाप्यनामया
कनिष्ठया वितस्तिस्तु द्वादशाङुल उच्यते। रत्निरङ्गुलपर्व्वाणि संख्यया त्वेकविंशतिः
चतुर्विंशतिभिश्चैव हस्तः स्यादङ्गुलानि तु। किष्कुः स्मृतो द्विरत्निस्तु द्विचत्वारिंशदङ्गुलम्
चतुर्हस्तं धनुर्दण्डो नालिकायुगमेव च। धनुः सहस्रे द्वे तत्र गव्यूतिस्तैर्विभाव्यते
अष्टौ धनुःसहस्राणि योजनं तौर्निरुच्यते। एतेन योजनेनैव सन्निवेशस्ततः कृतः
चतुर्णामेव दुर्गाणां स्वसमुत्थानि त्रीणि तु। चतुर्थं कृत्रिमं दुर्गं तस्य वक्ष्याम्यहं विधिम्
सौधोच्चवप्रप्राकारं सर्वतश्चातकावृतम्। तदेकं स्वस्तिकद्वारं कुमारीपुरमेव च
श्रोतसीसह तद्द्वारं निखातं पुनरेव च। हस्ताष्टौ च दश श्रेष्ठा नवाष्टौ वाऽपरे मताः
खेटानां नगराणाञ्च ग्रामाणाञ्चैव सर्व्वशः। त्रिविधानाञ्च दुर्गाणां पर्व्व तोदकबन्धनम्
त्रिविधानाञ्च दुर्गाणां विष्कम्भायाममेव च। योजनानाञ्च विष्कम्भमष्टभागार्द्धमायतम्
परमार्द्धार्द्धमायामं प्रगुदक्प्रवरं पुरम्। छिन्नकर्णं विकर्णन्तु व्यञ्जनं कृशसंस्थितम्
वृत्तं हीनञ्च दीर्घञ्च नगरं न प्रशस्यते। चतुरस्रार्जवं दिक्स्थं प्रशस्तंवै पुरं परम्
चतुर्विंशतिराद्यन्तु हस्तानष्टशतं परम्। अत्र मध्यं प्रशंसन्ति ह्रस्वोत्कृष्टविवर्ज्जितम्
अथ किष्कुशतान्यष्टौ प्राहुर्मुख्यनिवेशनम्। नगरादर्धविष्कम्भं खेटं ग्रामं ततो बहिः
नगराद्योजनं खेटं शेटाद्ग्रामोऽर्द्धयोजनम्। द्विक्रोशं परमा सीमा क्षेत्रसीमा चतुर्द्धनुः
विंशद्धनूंषि विस्तीर्णो दिशां मार्गस्तु तैः कृतः। विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु
धनूंषि दश विस्तीर्णः श्रीमान् राजपथः स्मृतः। नृवाजिरथनागानामसम्बाधः सुसञ्चरः
धनूंषि चैव चत्वारि शाखारथ्यास्तु तैः कृताः। गृहरथ्योपरथ्याश्च द्विकाश्चाप्युपरथ्यकाः
घण्टापथश्चतुष्पादस्त्रिपदञ्च गृहान्तरम्। वृत्तिमार्गास्त्वर्द्धपदं प्राग्वंशः पदिकः स्मृतः
अवस्करं परीवाहं पदमात्रंसमन्ततः। कृतेषु तेषु स्थानेषु पुनस्वक्रुर्गृहाणि वै
यथा ते पूर्वमासन्वै वृक्षास्तु गृहसंस्थिताः। तथा कर्तुं समारब्धाश्चिन्तयित्वा पुनः पुनः
वृक्षाश्चैवगताः शाखा न ताश्चैव परागताः। अत ऊर्द्ध्वंगता श्चान्या एवं तिर्य्यग्गताः पुरा
बुद्ध्वाऽन्विष्यस्तथा न्यायो वृक्षशाखा यथा गताः। तथा कृतास्तु तैः शाखास्तस्माच्छालास्तु ताः स्मृताः
एवं प्रसिद्धाः शाखाभ्यः शालाश्चैव गृहाणि च। तस्मात्ता वैस्मृताः शालाः शालात्वं चैव तासु तत्
प्रसीदति मनस्तासु मनः प्रसादयन्ति ताः। तस्माद्गृहाणि शालाश्च प्रासादाश्चैव संज्ञिताः
कृत्वा द्वन्द्वोपघातांस्तान् वार्त्तोपायमचिन्तयन्। नष्टेषु मधुना सार्द्धं कल्पवृक्षेषु वै तदा। विषादव्याकुलास्तावै प्रजास्तृष्णाक्षुधात्मिकाः