ततः कृतांशे क्षीणे तु बभूव तदनन्तरम्। त्रेतायां युगमन्यन्तु कृताशमृषिसत्तमाः
तस्मिन् क्षीणे कृतांशे तु तच्छिष्टासु प्रजास्विह। कल्पादौ संप्रवृत्तायास्त्रेतायाः प्रमुखे तदा
प्रणश्यति तदा सिद्धिः कालयोगेन नान्यथा। तस्यां सिद्धौ प्रणष्टायामन्या सिद्धिरवर्त्तत
अपां सौक्ष्म्ये प्रतिगते तदा मेघात्मना तु तौ। मेघेभ्यस्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्ज्जनम्
सकृदेव तया वृष्ट्या संयुक्ते पृथिवीतले। प्रादुरासंस्तदा तासां वृक्षास्तु गृहसंस्थिताः
सर्वप्रत्युपभोगस्तु तासां तेभ्यः प्रजायते। वर्त्तयन्ति हि तेभ्यस्तास्त्रेतायुगमुखे प्रजाः
ततः कालेन महता तासामेव विपर्ययात्। रागलोभात्मको भावस्तदा ह्याकस्मिकोऽभवत्
यत्तद्भवति नारीणां जीवितान्ते तदार्त्तवम्। तदा तद्वै न भवति पुनर्युगबलेन तु
तासां पुनः प्रवृत्तं तु मासे मासे तदार्त्तवम्। ततस्तेनैव योगेन वर्त्ततां मिथुने तदा
. तासां तत्कालभावित्वान्मासि मास्युपगच्छताम्। अकाले ह्यार्त्तवोत्पत्तिर्गर्भोत्पत्तिरजायत
विपर्ययेण तासां तु तेन कालेन भाविना। प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसंस्थिताः
ततस्तेषु प्रणष्टेषु विभ्रान्ता व्याकुलेन्द्रियाः। अभि ध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा
प्रादुर्बभूवुस्तासां च वृक्षास्ते गृहसंस्थिताः। वस्त्राणि च प्रसूयन्ते फलान्याभरणानि च
तेष्वेव जायते तासां गंधवर्णरसान्वितम्। अमाक्षिकं महावीर्यं पुटके पुटके मधु
तेन ता वर्तयन्ति स्म मुखे त्रेतायुगस्य च। हृष्टतुष्टास्तया सिद्ध्या प्रजा वै विगतज्वराः
पुनः कालांतरेणैव पुनर्ल्लोभावृतास्तु ताः। वृक्षांस्तान् पर्यगृह्णन्त मधु वा माक्षिकं बलात्
तासां तेनापचारेण पुनर्ल्लोककृतेन वै। प्रणष्टा मधुना सार्द्धं कल्पवृक्षाः व्कचित् व्कचित्
तस्यामेवाल्पशिष्टायां संध्याकालवशात्तदा। प्रावर्तंत तदा तासां द्वंद्वान्यभ्युत्थितानि तु
शीतवातातपैस्तीव्रैस्ततस्ता दुःखिता भृशम्
कृत्वा द्वंद्व प्रतीकारं निकेतानि हि भोजिरे। पूर्वं निकमिपारास्ते अनिकेताश्रया भृशम्
यथायोग्यं यथाप्रीति निकेतेष्ववसन् पुनः। मरुधन्वसु निम्नेषु पर्वतेषु नदीषु च। संश्रयन्ति च दुर्गाणि धन्वानं शाश्वतोदकम्
यथायोगं यथाकामं समेषु विषमेषु च। आरब्धास्ते निकेता वै कर्त्तं शीतोष्ण वारणम्
ततः संस्थापयामास खेटानि च पुराणि च। ग्रामांश्चैव यथाभागं तथैवान्तः पुराणि च
तासामायामविष्कम्भान् संनिवेशान्तराणि च। चक्रुस्तदा यथाप्रज्ञं प्रदेशः संज्ञितस्तु तैः
अंगुष्ठस्य प्रदेशिन्या व्यासः प्रादेश उच्यते। तालः स्मृतो मध्यमया गोकर्णश्चाप्यनामया
कनिष्ठया वितस्तिस्तु द्वादशाङुल उच्यते। रत्निरङ्गुलपर्व्वाणि संख्यया त्वेकविंशतिः
चतुर्विंशतिभिश्चैव हस्तः स्यादङ्गुलानि तु। किष्कुः स्मृतो द्विरत्निस्तु द्विचत्वारिंशदङ्गुलम्
चतुर्हस्तं धनुर्दण्डो नालिकायुगमेव च। धनुः सहस्रे द्वे तत्र गव्यूतिस्तैर्विभाव्यते
अष्टौ धनुःसहस्राणि योजनं तौर्निरुच्यते। एतेन योजनेनैव सन्निवेशस्ततः कृतः
चतुर्णामेव दुर्गाणां स्वसमुत्थानि त्रीणि तु। चतुर्थं कृत्रिमं दुर्गं तस्य वक्ष्याम्यहं विधिम्