नोद्भिज्जा नारकाश्चैव ते ह्यधर्मप्रसूतयः। न मूलफलपुष्पञ्च नार्त्तवं ह्यृतवो न च
सर्वकामसुखः कालो नात्यर्थं ह्युष्णशीतता। मनोभिलषिताः कामास्तासां सर्वत्र सर्वदा
उत्तिष्ठन्ति पृथिव्यां वै ताभिर्ध्याता रसोत्थिताः। बलवर्णकरी तासां सिद्धिः सा रोगनाशिनी
असंस्कार्यैः शरीरैश्च प्रजास्ताः स्थिरयौवनाः। तासां विशुद्धात् सङ्कल्पाज्जायन्ते मिथुनाः प्रजाः
समं जन्म च रूपञ्च म्रियन्ते चैव ताः समम्। तदा सत्यमलोभश्च क्षमा तुष्टिः सुखं दमः
निर्विशेषाः कृताः सर्वा रूपायुःशीलचेष्टितैः। अबुद्धिपूर्वकं वृत्तं प्रजानां जायते स्वयम्
अप्रवृत्तिः कृतयुगे कर्मणोः शुभपापयोः। वर्णाश्रमव्यवस्थाश्च न तदासन्न सङ्करः
अनिच्छाद्वेषयुक्तास्ते वर्त्तयन्ति परस्परम्। तुल्यरूपायुषः सर्वा अधमोत्तमवर्ज्जिताः
सुखप्राया ह्यशोकाश्च उत्पद्यन्ते कृते युगे। नित्यप्रहृष्टमनसो महासत्त्वा महाबलाः
लाभालाभौ नास्वास्तां मित्रामित्रे प्रियाप्रिये। मनसा विषयस्तासान्निरीहाणां प्रवर्त्तते। न लिप्सन्ति हि ताऽन्योन्यन्नानुगृह्णन्ति चैव हि
ध्यानं परं कृतयुगे त्रेतायां ज्ञानमुच्यते। प्रवृत्तं द्वापरे यज्ञं दानं कलियुगे वरम्
सत्त्वं कृतं रजस्त्रेता द्वापरन्तु रजस्तमौ। कलौ तमस्तु विज्ञेयं युगवृत्तवशेन तु
कालः कृते युगे त्वेष तस्य संख्यान्निबोधत। चत्वारि तु सहस्राणि वर्षाणां त्त कृतं युगम्
सन्ध्यांशौ तस्य दिव्यानि शतान्यष्टौ च संख्यया। तदा तासां बभूवायुर्न्न च क्लेशविपत्तयः
ततः कृतयुगे तस्मिन् सन्ध्यांशे हि गते तु वैः। पादावशिष्टो भवति युगधर्मस्तु सर्वशः
सन्ध्यायामप्यतीतायामन्तकाले युगस्य तु। पादतश्वावतिष्ठेत्तु सन्ध्याधर्मो युगस्य तु। एवं कृते तु निःशेषे सिद्धि स्त्वन्तर्दधे तदा
तस्याञ्च सिद्धौ भ्रष्टायां मानस्यामभवत्ततः। सिद्धिरन्या युगे तस्मिस्त्रेतायामन्तरे कृताः
सर्गादौ या मयाष्टौ तु मानस्यो वै प्रकीर्त्तिताः। अष्टौ ताः क्रमयोगेन सिद्धयो यान्ति संक्षयम्
कल्पादौ मानसी ह्येषा सिद्धिर्भवति सा कृते। मन्वन्तरेषु सर्वेषु चतुर्युगविभागशः। वर्णाश्रमाचारकृतः कर्मसिद्धोद्भवः स्मृतः
सन्ध्याकृतस्य पादेन सन्ध्यापादेन चांशतः। कृतसन्ध्यांशका ह्येते त्रींस्त्रीन् पादान् परस्परान्। ह्रसन्ति युगधर्मैस्ते तपः श्रुतबलायुषैः
ततः कृतांशे क्षीणे तु बभूव तदनन्तरम्। त्रेतायां युगमन्यन्तु कृताशमृषिसत्तमाः
तस्मिन् क्षीणे कृतांशे तु तच्छिष्टासु प्रजास्विह। कल्पादौ संप्रवृत्तायास्त्रेतायाः प्रमुखे तदा
प्रणश्यति तदा सिद्धिः कालयोगेन नान्यथा। तस्यां सिद्धौ प्रणष्टायामन्या सिद्धिरवर्त्तत
अपां सौक्ष्म्ये प्रतिगते तदा मेघात्मना तु तौ। मेघेभ्यस्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्ज्जनम्
सकृदेव तया वृष्ट्या संयुक्ते पृथिवीतले। प्रादुरासंस्तदा तासां वृक्षास्तु गृहसंस्थिताः
सर्वप्रत्युपभोगस्तु तासां तेभ्यः प्रजायते। वर्त्तयन्ति हि तेभ्यस्तास्त्रेतायुगमुखे प्रजाः
ततः कालेन महता तासामेव विपर्ययात्। रागलोभात्मको भावस्तदा ह्याकस्मिकोऽभवत्
यत्तद्भवति नारीणां जीवितान्ते तदार्त्तवम्। तदा तद्वै न भवति पुनर्युगबलेन तु
तासां पुनः प्रवृत्तं तु मासे मासे तदार्त्तवम्। ततस्तेनैव योगेन वर्त्ततां मिथुने तदा
. तासां तत्कालभावित्वान्मासि मास्युपगच्छताम्। अकाले ह्यार्त्तवोत्पत्तिर्गर्भोत्पत्तिरजायत