तस्मात्तु नामरूपाणि तान्येव प्रतिपेदिरे। पुनः पुनस्ते कल्पेषु जायन्ते नामरूपतः
ततः सर्गे ह्यवष्टब्धे सिसृक्षोर्ब्रह्मणस्तु वै। प्रजास्ता ध्यायतस्तस्य सत्याभिध्यायिनस्तदा
मिथुनानां सहस्रन्तु सोऽसृजद्वै मुखात्तदा। जनास्ते ह्युपपद्यन्ते सत्त्वोद्रिक्ताः सुचेतसः
सहस्रमन्यद्वक्षस्तो मिथुनानां ससर्ज्ज ह। ते सर्वे रजसोद्रिक्ताः शुष्मिणश्चाप्यशुष्मिणः
सृष्ट्वा सहस्रमन्यत्तु द्वन्द्वानामूरुतः पुनः। रजस्तमोभ्यामुद्रिक्ता ईहाशीलास्तु ते स्मृताः
पद्भ्यां सहस्रमन्यत्तु मिथुनानां ससर्ज्ज ह। उद्रिक्तास्तमसा सर्वे निःश्रीका ह्यल्पतेजसः
ततो वै हर्षमानास्ते द्वन्द्वोत्पन्नास्तु प्राणिनः। अन्योन्या हृच्छपाविप्टा मैथुनायोपचक्रमुः
ततःप्रभृति कल्पेऽस्मिन् मिथुनोत्पत्तिरुच्यते। मासे मासेर्त्तवं यद्यत्तदाज्ञासिद्धि योषितात्
तस्मात्तदा न सुषुवुः सेवितैरपि मैथुनैः। आयुषोऽन्ते प्रसूयन्ते मिथुनान्येव ते सकृत्
कुटकाः कुविकाश्चैव उत्पद्यन्ते मुमूर्षिताः। ततःप्रभृति कल्पेऽस्मिन् मिथुनानां हि सम्भवः
ध्याते तु मनसा तासां प्रजानां जायते सकृत्। शब्दादि विषयः शुद्धः प्रत्येकं पञ्चलक्षणः
इत्येवं मनसा पूर्वं प्राक्सृष्टिर्या प्रजापतेः। तस्यान्ववाये सम्भूता यैरिदं पूरितं जगत्
सरित्सरः समुद्रांश्च सेवन्ते पर्वतानपि। तदा नात्यम्बुशीतोष्णा युगे तस्मिन् चरन्ति वै
पृथ्वीरसोद्भवं नाम आहारं ह्याहरन्ति वै। ताः प्रजाः कामचारिण्यो मानसीं सिद्धिमास्थिताः
धर्माधर्मौ न तास्वास्तां निर्विशेषाः प्रजास्तु ताः। तुल्यमायुः सुखं रूपं तासां तस्मिन् कृते युगे
धर्माधर्मौ न तास्वास्तां कल्पादौ तु कृते युगे। स्वेन स्वेनाधिकारेण जज्ञिरे ते कृते युगे
चत्वारि तु सहस्राणि वर्षाणां दिव्यसंख्यया। आद्यं कृतयुगं प्राहुः सन्ध्यानान्तु चतुः शतम्
ततः सहस्रशस्तासु प्रजासु प्रथितास्वपि। न तासां प्रतिघातोऽस्ति न द्वन्द्वन्नापि च क्रमः
पर्वतोदधिसेविन्यो ह्यनिकेताश्रयास्तु ताः। विशोकाः सत्त्वबहुला एकान्तसुखितप्रजाः
ता वै निकामचारिण्यो नित्यं मुदितमानसाः। पशवः पक्षिणश्चैव न तदासन् सरीसृपाः
नोद्भिज्जा नारकाश्चैव ते ह्यधर्मप्रसूतयः। न मूलफलपुष्पञ्च नार्त्तवं ह्यृतवो न च
सर्वकामसुखः कालो नात्यर्थं ह्युष्णशीतता। मनोभिलषिताः कामास्तासां सर्वत्र सर्वदा
उत्तिष्ठन्ति पृथिव्यां वै ताभिर्ध्याता रसोत्थिताः। बलवर्णकरी तासां सिद्धिः सा रोगनाशिनी
असंस्कार्यैः शरीरैश्च प्रजास्ताः स्थिरयौवनाः। तासां विशुद्धात् सङ्कल्पाज्जायन्ते मिथुनाः प्रजाः
समं जन्म च रूपञ्च म्रियन्ते चैव ताः समम्। तदा सत्यमलोभश्च क्षमा तुष्टिः सुखं दमः
निर्विशेषाः कृताः सर्वा रूपायुःशीलचेष्टितैः। अबुद्धिपूर्वकं वृत्तं प्रजानां जायते स्वयम्
अप्रवृत्तिः कृतयुगे कर्मणोः शुभपापयोः। वर्णाश्रमव्यवस्थाश्च न तदासन्न सङ्करः
अनिच्छाद्वेषयुक्तास्ते वर्त्तयन्ति परस्परम्। तुल्यरूपायुषः सर्वा अधमोत्तमवर्ज्जिताः
सुखप्राया ह्यशोकाश्च उत्पद्यन्ते कृते युगे। नित्यप्रहृष्टमनसो महासत्त्वा महाबलाः
लाभालाभौ नास्वास्तां मित्रामित्रे प्रियाप्रिये। मनसा विषयस्तासान्निरीहाणां प्रवर्त्तते। न लिप्सन्ति हि ताऽन्योन्यन्नानुगृह्णन्ति चैव हि