द्वीपेषु तेषु वर्षाणि चत्वारिंशत्तथैव च। तावन्तः पर्वताश्चैव वर्षान्ते समवस्थिताः। सर्गादौ सन्निविष्टास्ते स्वभावेनैव नान्यथा
सप्त द्वीपाः समुद्राश्च अन्योन्यस्य तु मण्डलम्। सन्निकृष्टाः स्वभावेन समावृत्य परस्परम्
भूराख्यांश्चतुरो लोकांश्चन्द्रादित्यौ ग्रहैः सह। पूर्वं तु निर्म्ममे ब्रह्मा स्थानानीमानि सर्वशः
कल्पस्य चास्य ब्रह्मा वै ह्यसृजत् स्थानिनः पुरा। आपोऽग्रिः पृथिवी वायुरन्तरिक्षं दिवं तथा
स्वर्गं दिशः समुद्रांश्च नदीः सर्वांश्च पर्वतान्। ओषधीनां तथात्मानमात्मानं वृक्षवीरुधाम्
लवाः काष्ठाः कलाश्चैव मुहूर्तं सन्धिरात्र्यहम्। अर्द्धमासांश्च मासांश्च अयनाब्दयुगानि च
स्थानाभिमानिनश्चैव स्थानानि च पृथक् पृथक्। स्थानात्मानः स सृष्ट्वा वै युगावस्थां विनिर्ममे
कृतं त्रेता द्वापरं च कलिं चैव तथा युगम्। कल्पस्यादौ कृतयुगे प्रथमे सोऽसृजत् प्रजाः
प्रागुक्ता या मया तुभ्यं पूर्वकालं प्रजास्तु ताः। तस्मिन् संवर्त्तमाने तु कल्पे दग्धास्तदाऽग्निना
अप्राप्ता यास्तपोलोकं जनलोकं समाश्रिताः। प्रवर्तन्ति पुनः सर्गे बीजार्थं ता भवन्ति हि
बीजार्थेन स्थितास्तत्र पुनः सर्गस्य कारणात्। ततस्ताः सृज्यमानास्तु सन्तानार्थं भवन्ति हि
धर्म्मार्थकाममोक्षाणामिह ताः साधकाः स्मृताः। देवाश्च पितरश्चैव ऋषयो मनवस्तथा
ततस्ते तपसा युक्तः स्थानान्यापूरयन्ति हि। ब्रह्मणो मानसास्ते वै सिद्धात्मानो भवन्ति हि
ये सर्गा द्वेषयुक्तेन कर्मणा ते दिवं गताः। आवर्त्तमाना इह ते सम्भवन्ति युगे युगे
स्वकर्मफलशेषेण ख्याताश्चैव तथात्मिकाः। संभवन्ति जनाल्लोकात् कर्मसंशयबन्धनात्
आशयः कारणं तत्र बोद्धव्यं कर्मणां तु सः। तैः कर्मभिस्तु जायन्ते जनाल्लोकाः शुभाशुभैः
गृह्णन्ति ते शरीराणि नानारूपाणि योनिषु। देवाद्यस्थावरान्ते च उत्पद्यन्ते परस्परम्
तेषां ये यानि कर्माणि प्राक् सृष्टेः प्रतिपेदिरे। तान्येते प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः
हिस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते। तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते
कल्पेष्वासन् व्यतीतेषु रूपनामानि यानि च। तान्येवानागते काले प्रायशः प्रतिपेदिरे
तस्मात्तु नामरूपाणि तान्येव प्रतिपेदिरे। पुनः पुनस्ते कल्पेषु जायन्ते नामरूपतः
ततः सर्गे ह्यवष्टब्धे सिसृक्षोर्ब्रह्मणस्तु वै। प्रजास्ता ध्यायतस्तस्य सत्याभिध्यायिनस्तदा
मिथुनानां सहस्रन्तु सोऽसृजद्वै मुखात्तदा। जनास्ते ह्युपपद्यन्ते सत्त्वोद्रिक्ताः सुचेतसः
सहस्रमन्यद्वक्षस्तो मिथुनानां ससर्ज्ज ह। ते सर्वे रजसोद्रिक्ताः शुष्मिणश्चाप्यशुष्मिणः
सृष्ट्वा सहस्रमन्यत्तु द्वन्द्वानामूरुतः पुनः। रजस्तमोभ्यामुद्रिक्ता ईहाशीलास्तु ते स्मृताः
पद्भ्यां सहस्रमन्यत्तु मिथुनानां ससर्ज्ज ह। उद्रिक्तास्तमसा सर्वे निःश्रीका ह्यल्पतेजसः
ततो वै हर्षमानास्ते द्वन्द्वोत्पन्नास्तु प्राणिनः। अन्योन्या हृच्छपाविप्टा मैथुनायोपचक्रमुः
ततःप्रभृति कल्पेऽस्मिन् मिथुनोत्पत्तिरुच्यते। मासे मासेर्त्तवं यद्यत्तदाज्ञासिद्धि योषितात्
तस्मात्तदा न सुषुवुः सेवितैरपि मैथुनैः। आयुषोऽन्ते प्रसूयन्ते मिथुनान्येव ते सकृत्
कुटकाः कुविकाश्चैव उत्पद्यन्ते मुमूर्षिताः। ततःप्रभृति कल्पेऽस्मिन् मिथुनानां हि सम्भवः