सत्त्वोद्रेकात् प्रबुद्धस्तु शून्यं लोकमवेक्ष्य च। इमञ्चोदाहरन्त्यत्र श्लोकं नारायणं प्रति
आपो नाराख्यास्तनव इत्यपान्नाम शुश्रुमः। आपूर्य नाभिं तत्रास्ते तेन नारायणः स्मृतः
सहस्रशीर्षा सुमनाः सहस्रपात् सहस्रचक्षुर्वदनः सहस्रभुक्। सहस्रबाहुः प्रथमः प्रजा पतिस्त्रयीपथे यः पुरुषो निरुच्यते
आदित्यवर्णो भुवनस्य गोप्ता एको ह्यपूर्वः प्रथमं तुराषाट्। हिरण्यगर्भः पुरुषो महात्मा स पठ्यते वै तमसःपरस्तात्
कल्पादौ रजसोद्रिक्तो ब्रह्मा भूत्वाऽसृजत् प्रजाः। कल्पान्ते तमसोद्रिक्तो कालो भूत्वाऽग्रसत् पुनः
स वै नारायणा ख्यस्तु सत्त्वोद्रिक्तोऽर्णवे स्वपन्। त्रिधा विभज्य चात्मानं त्रैलोक्ये समवर्त्तत
सृजते ग्रसते चैव वीक्षन्ते च त्रिभिस्तु तान्। एकार्णवे तदा लोके नष्टे स्थावरजङ्गमे
चतुर्युगसहस्रान्ते सर्वतः सलिलावृते। ब्रह्मा नारायणाख्यस्तु अप्रकाशार्णवे स्वपन्
चतुर्विधाः प्रजा ग्रस्त्वा ब्राह्म्यां रात्र्यां महार्णवे। पश्यन्ति तं महर्ल्लोकात् सुप्तं कालं महर्षयः
भृग्वादयो यथा सप्त कल्पे ह्यस्मिन् महर्षयः। ततो विवर्त्तमानैस्तैर्महान् परिगतः परः
गत्यर्थाद् ऋषयो धातोर्न्नामनिर्वृत्तिरादितः। तस्मादृषिपरत्वेन महांस्तस्मान्महर्षयः
महर्ल्लोकस्थितैर्दृष्टः कालः सुप्तस्तदा च तैः। सत्याद्याः सप्त येह्यासन् कल्पेऽतीते महर्षयः
एवं ब्राह्मीषु रात्रीषु ह्यती तासु सहस्रशः। दृष्टवन्तस्तथा ह्यन्ये सुप्तं कालं महर्षयः
कल्पयामास वै ब्रह्मा तस्मात् कालो निरुच्यते
स स्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः। व्यक्ताव्यक्तो महादेवस्तस्य सर्वमिदं जगत्
इत्येष प्रतिसन्धिर्वः कीर्त्तितः कल्पयोर्द्वयोः। साम्प्रतातीतयोर्मध्ये प्रागवस्था बभूव या
कीर्त्तिता तु समासेन कल्पे कल्पे यथा तथा। साम्प्रतं ते प्रवक्ष्यामि कल्पमेतं निबोधत
तुल्यं युगसहस्रस्य नैशं कालमुपास्य सः। शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात्
ब्रह्मा तु सलिले तस्मिन् वायुर्भूत्वा तदाचरत्। अन्धकारे तदा तस्मिन् नष्टे स्थावरजङ्गमे
जलेन समनुव्याप्ते सर्वतः पृथिवीतले। अविभागेन भूतेषु समन्तात्सुस्थितेषु च
निशायामिव खद्योतः प्रावृट्काले ततस्ततः। तदाकाशे चरन् सोऽथ वीक्ष्यमाणः स्वयम्भुवः
प्रतिष्ठाया ह्यपायन्तु मार्गमाणस्तदा प्रभुः। ततस्तु सलिले तस्मिन् ज्ञात्वा ह्यन्तर्गतां महीम्
अनुमानात्तु सम्बुद्धो भूमेरुद्धरणं प्रति। चकारान्यां तनुञ्चैव पूर्वकल्पादिषु स्मृताम्
स तु रूपं वराहस्य कृत्वाऽपः प्राविशत् प्रभुः। अद्भिः सञ्छादितामुर्वीं समीक्ष्याथ प्रजापतिः
उद्धृत्योर्वीमथाद्भ्यस्तु अपस्तास्तु स विन्यसत्। सामुद्रीस्तु समुद्रेषु नादेयीर्निम्नगास्वपि। पार्थिवीस्तु स विन्यस्य पृथिव्यां सोऽचिनोद्गिरीन्
प्राक्सर्गे दह्यमाने तु तदा संवर्त्तकाग्निना। तेनाग्निना प्रलीनास्ते पर्वता भुवि सर्वशः
शैत्यादेकार्णवे तस्मिन् वायुनापस्तु संहृताः। निषक्ता यत्र यत्रासंस्तत्रतत्राऽचलोऽभवत्
स्कन्नाचलत्वादचलाः पर्वभिः पर्वताः स्मृताः। गिरयोऽद्भिर्निगीर्णत्वाच्चयनाच्च शिलोच्चयाः
ततस्तु तां समुद्धृत्य क्षितिमन्तर्ज्जलात् प्रभुः। स्वस्थाने स्थापयित्वा च विभागमकरोत् पुनः
सप्त सप्त तु वर्षाणि तस्या द्वीपेषु सप्तसु। विषमाणि समीकृत्य शिलाभिरचिनोद्गिरीन्