एवं देवयुगानान्तु सहस्राणि परस्परात्। गतानि ब्रह्मलोकं वै अपरावर्त्तिनीं गतिम्
आधिपत्यं विना ते वै ऐश्वर्येण तु तत्समाः। भवन्ति ब्रह्मणस्तुल्या रूपेण विषयेण च
तत्र ते ह्यवतिष्ठन्ति प्रीतियुक्ताः प्रसङ्गमात्। आनन्दं ब्रह्मणः प्राप्य मुच्यन्ते ब्रह्मणा सह
अवश्यम्भाविनाऽर्थेन प्राकृतेनैव ते स्वयम्। नाना त्वेनाभिसम्बद्धास्तदा तत्कालभाविनः
स्वरूपतो बुद्धिपूर्वं यथा भवति जाग्रतः। तत्कालभावि तेषां तु तथा ज्ञानं प्रवर्त्तते
प्रत्याहारे तु भेदानां येषां भिन्नाभिसूष्मणाम्। तैः सार्द्धं प्रतिसृज्यन्ते कार्याणि करणानि च
नानात्वदर्शनात्तेषां ब्रह्मलोकनिवासिनाम्। विनष्टस्वाधिकाराणां स्वेन धर्मेण तिष्ठताम्
ते तुल्यलक्षणाः सिद्धाः शुद्धात्मानो निरञ्जनाः। प्रकृतौ कारणातीताः स्वात्मन्येव व्यवस्थिताः
प्रख्यापयित्वा ह्यात्मानं प्रकृतिस्तेषु सर्वशः। पुरुषाव्यवहृतत्वेन प्रतीता न प्रवर्त्तते
प्रवर्तिते पुनः सर्गे तेषां वा कारणं पुनः। संयोगे प्राकृते तेषां युक्तानां तत्त्वदर्शिनाम्
अत्रापवर्गिणां तेषामपुनर्मार्गगामिनाम्। अभावः पुनरुत्पत्तौ शान्तानामर्च्चिषामिव
ततस्तेषु गतेषूर्द्ध्वं त्रैलोक्यात्सुमहात्मसु। तैः सार्द्धं ये महर्ल्लोकात्तदा नासादिता जनाः। तच्छिष्टाश्चेह तिष्ठन्ति कल्पाद्देहमुपासते
गन्धर्वाद्याः पिशाचान्ता मानुषा ब्राह्मणादयः। पशवः पक्षिणश्चैव स्थावराः ससरीसृपाः
तिष्ठत्सु तेषु तत्कालं पृथिवीतलवासिषु। सहस्रं यत्तु रश्मीनां सूर्यस्येह विभासते। ते सप्तरश्मयो भूत्वा ह्येकैको जायते रविः
क्रमेणोत्तिष्ठमानास्ते त्रीन् लोकान् प्रदहन्त्युत। जङ्गमाः स्थावराः चैव नदीः संर्वाश्च पर्वतान्। पूर्वे शुष्का ह्यनावृष्ट्या सूर्यैस्तैश्च प्रधूपिताः
तदा ते विविशुः सर्वे निर्द्दग्धाः सूर्यरश्मिभिः। जङ्गमाः स्थावराः सर्वे धर्माधर्मात्मकास्तु वै
दग्धदेहास्ततस्ते वै गताः पापयुगात्यये। योन्या तया ह्यनिर्मुक्ताः शुभपापानुबन्धया
ततस्ते ह्युपपद्यन्ते तुल्यरूपा जने जनाः। विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः
उषित्वा रजनीं तत्र ब्रह्मणोऽव्यक्तजन्मनः। पुनः सर्गे भवन्तीह ब्रह्मणो मानसीप्रजाः
ततस्तेषु प्रवृत्तेषु जने त्रैलोक्यवासिषु। निर्दग्धेषु च लोकेषु तेषु सूर्यैस्तु सप्तभिः। वृष्ट्या क्षितौ प्लावितायां विशीर्णेष्वालयेषु च
समुद्राश्चैव मेघाश्च आपः सर्वाश्च पार्थिवाः। व्रजन्त्येकार्णवत्वं हि सलिलाख्यास्तदाश्रिताः
आगतागतिकं तद्वै यदा तु सलिलं बहु। संछाद्येमां स्थितां भूमिमर्णवाख्या तदा च सा
आभाति यस्मान्नाभान्ति भासन्तो व्याप्तिदीप्तिषु। सर्वतः समनुप्लाव्य तासाञ्चाम्भो विभाव्यते
तदम्भस्तनुते यस्मात् सर्वां पृथ्वीं समन्ततः। धातुस्तनोतिर्विस्तारे तेनाम्भस्तनवः स्मृताः
अरमित्येष शीघ्रन्तु निपातः कविभिः स्मृतः। एकार्णवे भवन्त्यापो न शीघ्रास्तेन ते नराः
तस्मिन् युगसहस्रान्ते संस्थिते ब्रह्मणोऽहनि। राजन्यां वर्त्तमानायान्तावत्तत् सलिलात्मना
ततस्तु सलिले तस्मिन्नष्टेऽग्नौ पृथिवीतले। प्रशान्तवातेऽन्धकारे निरालोके समन्ततः
येनैवाधिष्ठितं हीदं ब्रह्मा स पुरुषः प्रभुः। विभागमस्य लोकस्य पुनर्वै कर्तुमिच्छति
एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे। तदा स भवति ब्रह्मा सहस्राक्षः सहस्रपात्
सहस्रशीर्षा पुरुषो रुक्मवर्णो ह्यतीन्द्रियः। ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा