त्रयीं विद्यां ब्रह्मचर्यं प्रसूतिं श्राद्धमेव च । यज्ञञ्चैव तु दानञ्च एषामेव तु कुर्वताम्। स हि स्म विरजा भूत्वा वसतेऽन्यप्रशंसया ।। ६.
स एवं स्लोकं दृष्ट्वा तु जया देवानथाब्रवीत्। वैवस्वतेऽन्तरेऽतीते मत्समीपमिहेष्यथ ।। ६.
ततो यूयं मया सार्द्धं सिद्धिं प्राप्स्यथ शाश्वतीम्। एवमुक्त्वा तु तान् ब्रह्मा तत्रैवान्तरधीयत ।। ६.
ततो देवास्तिरोभूते ईश्वरे ह्यकुतोभयम्। प्रपन्ना अणिमाद्यैश्च युक्ता योगबलान्विताः ।। ६.
ततस्तेषान्तु यास्तन्वस्ताऽभवन् द्वादश ह्रदाः। जया इति समाख्याता जाता श्चोदधिसन्निभाः ।। ६.
ततः स्वायम्भुवे तस्मिन् सर्गेते जज्ञिरे सुराः। अजितायां रुचेः पुत्रा अजिता द्वादशात्मकः ।। ६.
विधिश्च मुनयश्चैव क्षेमो नन्दोऽव्ययस्तथा। प्राणोऽपानः सुधामा च क्रतुशक्तिव्यवस्थिताः । इत्येते मानसाः सर्वे अजिता द्वादश स्मृताः ।। ६.
ते च यज्ञे सुरैः सार्द्धं यज्ञभाजस्तदा स्मृताः। स्वायम्भुवेऽन्तरे पूर्वे ततः स्वारोचिषे पुनः। तुषितायां समुत्पन्नाः पुनः पुत्राः स्वरोचिषः ।। ६.
तुषिता नाम ते ह्यासन् प्राणाख्या यात्रिकाः सुराः। पुनस्ते तुषिता देवा उत्तमे त्वन्तरे स्वयम् ।। ६.
उत्तमस्य तु ते पुत्राः सत्यायां जज्ञिरे शुभाः। ततः सत्याः स्मृता देवा उत्तमे चान्तरे तदा ।। ६.
अभजन् यज्ञभाजस्ते तृतीये द्वापरान्तरे। ते तु सत्याः पुनर्द्देवाः सम्प्राप्ते तामसेऽन्तरे ।। ६.
हर्षा ये तमसः पुत्रा जज्ञिरे द्वादशैव तु । हरयो नाम ते देवा यज्ञभाजस्तथाऽभवन् ।। ६.
ततस्ते हरयो देवाः प्राप्ते चारिष्णवेऽन्तरे। वैकुण्ठायां ततस्ते वै चरिष्णोर्जज्ञिरे सुराः। वैकुण्ठा नाम ते देवाः पञ्चमस्यान्तरे मनोः ।। ६.
ततस्ते वै पुनर्द्देवा वैकुण्ठाः प्राप्य चाक्षुषम्। साध्यायां द्वादश सुता जज्ञिरे धर्मसूनवः ।। ६.
ततस्ते वै पुनः साध्याः संक्षीणे चाक्षुषेऽन्तरे । उपस्थिते मनोः सर्गे पुनर्वैवस्वतस्य ह ।। ६.
आद्ये त्रेतायुगमुखे प्राप्ते वैवस्वतस्य तु । अंशेन साध्यास्तेऽदित्यां मारीचात् कश्यपात् पुनः ।। ६.
जज्ञिरे द्वादशादित्या वर्त्तमानेऽन्तरे पुनः। यदा त्वेते समुत्पन्नाश्चाक्षुषस्यान्तरे मनोः ।। ६.
ततः स्वायम्भुवे साध्या जज्ञिरे द्वादशामराः। एवमाद्या जयास्ते वै शापात्समभवंस्तदा ।। ६.
य इमां सप्तसम्भूतिं देवानां देवशासनात् । पठेद्यः श्रद्धया युक्तः प्रत्वायं न गच्छति ।। ६.
इत्येते भूतयः सप्त जयानां सप्तलक्षणाः। परिक्रान्ता मया चाद्य किम्भूयः श्रोतुमिच्छथ ।। ६.
दैत्यानां दानवानाञ्च गन्धर्वोरगरक्षसाम्। सर्वभूतपिशाचानां पशूनां पक्षिवीरुधाम्। उत्पत्तिं निधनञ्चैव विस्तरात् कथयस्व नः ।। ६.
एवमुक्तस्तदा सूत उवाच ऋषिसत्तमान् । दितेः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ।। ६.
कश्यपस्यात्मजौ तौ वै सर्वेभ्यः पूर्वजौ स्मृतौ। सूत्येऽहन्यतिरात्रस्य कश्यपस्याश्वमेधिके ।। ६.
हिरण्यकशिपुर्नाम प्रथमं ऋत्विगासनम्। दित्या गर्भाद्विनिःसृत्य तत्रासीनोच्चसंसदि। हिरण्यकशिपुस्तस्मात् कर्मणा तेन स स्मृतः ।। ६.
हिरण्यकशिपोर्नाम जन्म चैव महात्मनः। प्रभाव़ञ्चैव दैत्यस्य विस्तराद्ब्रूहि नः प्रभो ।। ६.
कश्यपस्याश्वमेधोऽभूत् पुण्यो वै पुष्करे पुरा। ऋषिभिर्द्देवताभिश्च गन्धर्वै रुपशोभितः ।। ६.
उत्कृष्टेनैव विधिना आख्यानादौ यथाविधि। आसनान्युपक्लृप्तानि काञ्चनानि तु पञ्च वै ।। ६.
कुशपूतानि त्रीण्यत्र कूर्चफलकमेव च। मुख्यार्त्विजश्च चत्वारस्तेषान्तान्युपकल्पयेत् ।। ६.
शुभं तत्रासनं यत्तु होतुरर्थे प्रकल्पितम्। हिरण्मयं तथा दिव्यं दिव्यास्तरणसंस्तृतम् ।। ६.
अन्तर्वत्नी दितिश्चैव पत्नीत्वं स्मुपागता। दश वर्षसहस्राणि गर्भस्तस्या अवर्तत ।। ६.