वक्राद्यस्य ब्राह्मणाः संप्रसूतास्तद्वक्षस्तः क्षत्रियाः पूर्वभागैः। वैश्याश्चोर्वोर्यस्य पद्भ्याञ्च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः
नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम्। अण्डाज्जज्ञे पुनर्ब्रह्मा लोकास्तेन कृताः स्वयम्
एष वः कथितः पादः समासान्न तु विस्तरात्। अनेनाद्येन पादेन पुराणं संप्रकीर्तितम्
इत्येष प्रथमः पादः प्रक्रियार्थः प्रकीर्तितः। श्रुत्वा तु संहृष्टमनाः काश्यपेयः सनातनः
सम्बोध्य सूतं वचसा पप्रच्छाथोत्तरां कथाम्। अतःप्रभृति कल्पज्ञ प्रतिसंधिं प्रचक्ष्व नः
समतीतस्य कल्पस्य वर्त्तमानस्य चोभयोः। कल्पयोरन्तरं यच्च प्रतिसंधिर्यतस्तयोः। एतद्वेदितुमिच्छामः अत्यन्तकुशलो ह्यसि
अत्र वोऽहं प्रवक्ष्यामि प्रतिसंधिञ्च यस्तयोः। समतीतस्य कल्पस्य वर्त्तमानस्य चोभयोः
मन्वन्तराणि कल्पेषु येषु यानि च सुव्रताः। यश्चायं वर्त्तते कल्पो वाराहः साम्प्रतः शुभः
अस्मात् कल्पाच्च यः कल्पः पूर्वोऽतीतः सनातनः। तस्य चास्य च कल्पस्य मध्यावस्थान्निबोधत
प्रत्याहृते पूर्वकल्पे प्रतिसंधिं च तत्र वै। अन्यः प्रवर्त्तते कल्पो जनाल्लोकात् पुनः पुनः
व्युच्छिन्नात् प्रतिसंधेस्तु कल्पात् कल्पः परस्परम्। व्युच्छिद्यन्ते क्रियाःसर्वाः कल्पान्ते सर्वशस्तदा। तस्मात् कल्पात्तु कल्पस्य प्रतिसंधिर्निगद्यते
मन्वन्तरयुगाख्यानामप्युच्छिन्नाश्च सन्धयः। परस्पराः प्रवर्त्तन्ते मन्वन्तरयुगैः सह
उक्ता ये प्रक्रियार्थेन पूर्वकल्पाः समासतः। तेषां परार्द्धकल्पानां पूर्वो ह्यस्मात्तु यः परः। आसीत् कल्पो व्यतीतो वै परार्द्धेन परस्तु सः
अन्ये भविष्या ये कल्पा अपरार्द्धाद्गुणीकृताः। प्रथमः साम्प्रतस्तेषां कल्पोऽयं वर्त्तते द्विजाः
यस्मिन् पूर्वः परार्द्धे तु द्वितीये पर उच्यते। एतावान् स्थितिकालश्च प्रत्याहारस्ततः स्मृतः
अस्मात् कल्पात्तु यः पूर्वं कल्पोऽतीतः सनातनः। चतुर्युगसहस्रान्ते अहो मन्वन्तरैः पुरा
क्षीणे कल्पे तदा तस्मिन् दाहकाले ह्युपस्थिते। तस्मिन् कल्पे तदा देवा आसन्वैमानिकास्तु ये
नक्षत्रग्रहतारास्तु चन्द्रसूर्यग्रहाश्च ये। अष्टाविंशतिरेवैताः कोट्यस्तु सुकृतात्मनाम्
मन्वन्तरे तथैकस्मिन् चतुर्दशसु वै तथा। त्रीणि कोटिशतान्यासन् कोट्याद्विनवतिस्तथा। अष्टाधिकाः सप्तशताः सहस्राणां स्मृताः पुरा
वैमानिकानां देवानां कल्पेऽतीते तु येऽभवन्। एकैकस्मिंस्तु कल्पे वै देवा वैमानिकाः स्मृताः
अथ मन्वन्तरेष्वासंश्चतुर्दशसु वै दिवि। देवाश्च पितरश्चैव मुनयो मनवस्तथा
तेषामनुचरा ये च मनुपुत्रास्तथैव च। वर्णाश्रमिभिरीड्याश्च तस्मिन् काले तु ये सुराः। मन्वन्तरेषु येह्यासन् देवलोके दिवौकसः
ते तैः संयोजकैः सार्द्धं प्राप्ते सङ्कलने तथा। तुल्यनिष्ठास्तु ते सर्वे प्राप्ते ह्याभूतसंप्लवे
ततस्तेऽवश्यभावित्वाद् बुद्ध्वा पर्यायमात्मनः। त्रैलोक्यवासिनो देवास्तस्मिन् प्राप्ते ह्युपप्लवे
तेऽनौत्सुक्यविषादेन त्यक्त्वा स्थानानि भावतः। महर्ल्लोकाय संविग्नास्ततस्ते दधिरे मतिम्
ते युक्ता उपपद्यन्ते महसिस्थैः शरीरकैः। विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः
तैः कल्प वासिभिः सार्द्धं महानासादितस्तु यैः। ब्राह्मणैः क्षत्रियैर्वैश्यैस्तद्भक्तैश्चापरैर्ज्जनैः
मत्वा तु ते महर्ल्लोकं देवसङ्घाश्चतुर्द्दश। ततस्ते जनलोकाय सो द्वेगा दधिरे मतिम्
विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः। तैः कल्पवासिभिः सांर्द्ध महानासादितस्तु यैः
दशकृत्व इवावृत्त्या तस्माद्गच्छन्ति स्वस्तपः। तत्र कल्पान् दशस्थित्वा सत्यं गच्छन्ति वै पुनः। एतेन क्रमयोगेन यान्ति कल्पनिवासिनः