बुद्धिपूर्व्वं प्रवर्त्तन्ते षट्सर्गा ब्रह्मणस्तु ते। विस्तरानुग्रहं सर्गं कीर्त्त्यमानं निबोधत
चतुर्द्धावास्थितः सोऽथ सर्वभूतेषु कृत्स्नशः। विपर्ययेण शक्त्या च तुष्ट्या सिद्ध्या तथैव च
स्थावरेषु विपर्यासस्तिर्यग्योनिषु शक्तिता। सिद्धात्मानो मनुष्यास्तु तुष्टिर्द्देवेषु कृत्स्नशः
इत्येते प्राकृताश्चैव वैकृताश्च नव स्मृताः। सर्गाः परस्परस्याथ प्रकारा बहवः स्मृताः
अग्रे ससर्ज्ज वै ब्रह्मा मानसानात्मनः समान्। सनन्दनञ्च सनकं विद्वांसं च सनातनम्
विज्ञानेन निवृत्तास्ते वैवर्तेन महौजसः। संबुद्धाश्चैव नानात्वादपविद्धास्त्रयोऽपिते। असृष्ट्वैव प्रजासर्गं प्रतिसर्गं गताः पुनः
तदा तेषु व्यतीतेषु तदान्यान् साधकांश्च तान्। मानसानसृजद्ब्रह्मा पुनः स्थानाभिमानिनः। आभूतसंप्लवावस्थान्नामतस्तान्निबोधत
आपोऽग्निः पृथिवी वायुरन्तरिक्षं दिशस्तथा। स्वर्गं दिवः समुद्रांश्च नदान् शैलान् वनस्पतीन्
ओषधीनां तथात्मानो ह्यात्मानो वृक्षवीरुधाम्। लवाः काष्ठाः कलाश्चैव मुहूर्त्ताः सन्धिरात्र्यहाः
अर्द्धमासाश्च मासाश्च अयनाब्दयुगानि च। स्थानाभिमानिनः सर्वे स्थानाख्याश्चैव ते स्मृताः
वक्राद्यस्य ब्राह्मणाः संप्रसूतास्तद्वक्षस्तः क्षत्रियाः पूर्वभागैः। वैश्याश्चोर्वोर्यस्य पद्भ्याञ्च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः
नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम्। अण्डाज्जज्ञे पुनर्ब्रह्मा लोकास्तेन कृताः स्वयम्
एष वः कथितः पादः समासान्न तु विस्तरात्। अनेनाद्येन पादेन पुराणं संप्रकीर्तितम्
इत्येष प्रथमः पादः प्रक्रियार्थः प्रकीर्तितः। श्रुत्वा तु संहृष्टमनाः काश्यपेयः सनातनः
सम्बोध्य सूतं वचसा पप्रच्छाथोत्तरां कथाम्। अतःप्रभृति कल्पज्ञ प्रतिसंधिं प्रचक्ष्व नः
समतीतस्य कल्पस्य वर्त्तमानस्य चोभयोः। कल्पयोरन्तरं यच्च प्रतिसंधिर्यतस्तयोः। एतद्वेदितुमिच्छामः अत्यन्तकुशलो ह्यसि
अत्र वोऽहं प्रवक्ष्यामि प्रतिसंधिञ्च यस्तयोः। समतीतस्य कल्पस्य वर्त्तमानस्य चोभयोः
मन्वन्तराणि कल्पेषु येषु यानि च सुव्रताः। यश्चायं वर्त्तते कल्पो वाराहः साम्प्रतः शुभः
अस्मात् कल्पाच्च यः कल्पः पूर्वोऽतीतः सनातनः। तस्य चास्य च कल्पस्य मध्यावस्थान्निबोधत
प्रत्याहृते पूर्वकल्पे प्रतिसंधिं च तत्र वै। अन्यः प्रवर्त्तते कल्पो जनाल्लोकात् पुनः पुनः
व्युच्छिन्नात् प्रतिसंधेस्तु कल्पात् कल्पः परस्परम्। व्युच्छिद्यन्ते क्रियाःसर्वाः कल्पान्ते सर्वशस्तदा। तस्मात् कल्पात्तु कल्पस्य प्रतिसंधिर्निगद्यते
मन्वन्तरयुगाख्यानामप्युच्छिन्नाश्च सन्धयः। परस्पराः प्रवर्त्तन्ते मन्वन्तरयुगैः सह
उक्ता ये प्रक्रियार्थेन पूर्वकल्पाः समासतः। तेषां परार्द्धकल्पानां पूर्वो ह्यस्मात्तु यः परः। आसीत् कल्पो व्यतीतो वै परार्द्धेन परस्तु सः
अन्ये भविष्या ये कल्पा अपरार्द्धाद्गुणीकृताः। प्रथमः साम्प्रतस्तेषां कल्पोऽयं वर्त्तते द्विजाः
यस्मिन् पूर्वः परार्द्धे तु द्वितीये पर उच्यते। एतावान् स्थितिकालश्च प्रत्याहारस्ततः स्मृतः
अस्मात् कल्पात्तु यः पूर्वं कल्पोऽतीतः सनातनः। चतुर्युगसहस्रान्ते अहो मन्वन्तरैः पुरा
क्षीणे कल्पे तदा तस्मिन् दाहकाले ह्युपस्थिते। तस्मिन् कल्पे तदा देवा आसन्वैमानिकास्तु ये
नक्षत्रग्रहतारास्तु चन्द्रसूर्यग्रहाश्च ये। अष्टाविंशतिरेवैताः कोट्यस्तु सुकृतात्मनाम्
मन्वन्तरे तथैकस्मिन् चतुर्दशसु वै तथा। त्रीणि कोटिशतान्यासन् कोट्याद्विनवतिस्तथा। अष्टाधिकाः सप्तशताः सहस्राणां स्मृताः पुरा
वैमानिकानां देवानां कल्पेऽतीते तु येऽभवन्। एकैकस्मिंस्तु कल्पे वै देवा वैमानिकाः स्मृताः