तिर्य्यक्स्रोतस्तु दृष्ट्वा वै द्वितीयं विश्वमीश्वरः। अहंकृता अहंमना अष्टाविंशद्विधात्मकाः
एकादशेन्द्रियविधा नवधा चोदयस्तथा। अष्टौ च तारकाद्याश्च तेषां शक्तिविधाः स्मृताः
अतः प्रकाशास्ते सर्व्वे आवृताश्च बहिः पुनः। यस्मात्तिर्यक् प्रवर्त्तेत तिर्य्यक्स्रोताः स उच्यते
तिर्यक्स्रोताश्च दृष्ट्वा वै द्वितीयं विश्वमीश्वरः। अभिप्रायमथोद्धूतं दृष्ट्वा सर्व्वन्तथाभिधम्। तस्याभिध्यायतो नित्यं सात्त्विकः समवर्त्तत
ऊर्द्ध्वस्रोतास्तृतीयस्तु स चैवोर्द्ध्वव्यवस्थितः। यस्माद्व्यवर्त्ततोह्द्ध्वन्तु ऊर्द्ध्वस्रोतास्ततः स्मृतः
ते सुखप्रीतिबहुला बहिरन्तश्च संवृता। प्रकाशा बहिरन्तश्च ऊर्द्ध्वस्रोतोद्भवाः स्मृताः
तेन वा तादयो ज्ञेयाः सृष्टात्मानो व्यवस्थिताः। ऊर्द्ध्वस्रोतास्तृतीयो वै तेन सर्गस्तु स स्मृतः
ऊर्द्ध्वस्रोतःसु सृष्टेषु देवेषु स तदा प्रभुः। प्रीतिमानभवद्ब्रह्मा ततोऽन्यं सोऽभ्यमन्यत। ससर्ज्ज सर्गमन्यं स साधकं प्रभुरीश्वरः
अथाभिध्यायतस्तस्य सत्याभिध्यायिनस्तदा। प्रादुर्ब्बभूव चाव्यक्तादर्व्वाक्स्रोतः सुसाधकम्। यस्मादर्वाक्व्यवर्त्तेत ततोऽर्व्वाक्स्रोत उच्यते
ते च प्रकाशबहुलास्तमः सत्त्वरजोधिकाः। तस्मात्ते दुःखबहुला भूयो भूयश्च कारिणः
प्रकाशा बहिरन्तश्च मनुष्याः साधकाश्च ते। लक्षणैस्तारकाद्यैस्ते अष्टधा च व्यवस्थिताः
सिद्धात्मानो मनुष्यास्ते गन्धर्वसहधर्म्मिणः। इत्येष तेजसः सर्गो ह्यर्व्वाक्स्रोताः प्रकीर्त्तितः
पञ्चमोऽनुग्रहः सर्गश्चतुर्द्धा स व्यवस्थितः। विपर्य्ययेण शक्त्या च तुष्ट्या सिद्ध्या तथैव च। विवृत्तं वर्त्तमानञ्च तेऽर्थं जानन्ति तत्त्वतः
भूतादिकानां सत्त्वानां षष्ठः सर्गः स उच्यते। विपर्य्ययेण भूतादिरशक्त्या च व्यवस्थितः
प्रथमो महतः सर्गो विज्ञेयो महतस्तु सः। तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रिय कः स्मृतः। इत्येष प्राकृतः सर्गः सम्भूतो भुद्धिपूर्वकः
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः। तिर्य्यक्सोताश्च यः सर्गस्तिर्य्यग्योनिः स पञ्चमः
तथोर्द्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः। तथार्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः
अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसस्तु सः। पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः। प्राकृतास्तु त्रयः सर्गाः कृतास्ते बुद्धिपूर्व्वकाः
बुद्धिपूर्व्वं प्रवर्त्तन्ते षट्सर्गा ब्रह्मणस्तु ते। विस्तरानुग्रहं सर्गं कीर्त्त्यमानं निबोधत
चतुर्द्धावास्थितः सोऽथ सर्वभूतेषु कृत्स्नशः। विपर्ययेण शक्त्या च तुष्ट्या सिद्ध्या तथैव च
स्थावरेषु विपर्यासस्तिर्यग्योनिषु शक्तिता। सिद्धात्मानो मनुष्यास्तु तुष्टिर्द्देवेषु कृत्स्नशः
इत्येते प्राकृताश्चैव वैकृताश्च नव स्मृताः। सर्गाः परस्परस्याथ प्रकारा बहवः स्मृताः
अग्रे ससर्ज्ज वै ब्रह्मा मानसानात्मनः समान्। सनन्दनञ्च सनकं विद्वांसं च सनातनम्
विज्ञानेन निवृत्तास्ते वैवर्तेन महौजसः। संबुद्धाश्चैव नानात्वादपविद्धास्त्रयोऽपिते। असृष्ट्वैव प्रजासर्गं प्रतिसर्गं गताः पुनः
तदा तेषु व्यतीतेषु तदान्यान् साधकांश्च तान्। मानसानसृजद्ब्रह्मा पुनः स्थानाभिमानिनः। आभूतसंप्लवावस्थान्नामतस्तान्निबोधत
आपोऽग्निः पृथिवी वायुरन्तरिक्षं दिशस्तथा। स्वर्गं दिवः समुद्रांश्च नदान् शैलान् वनस्पतीन्
ओषधीनां तथात्मानो ह्यात्मानो वृक्षवीरुधाम्। लवाः काष्ठाः कलाश्चैव मुहूर्त्ताः सन्धिरात्र्यहाः
अर्द्धमासाश्च मासाश्च अयनाब्दयुगानि च। स्थानाभिमानिनः सर्वे स्थानाख्याश्चैव ते स्मृताः