जलक्रीडासु रुचिरं वाराहं रूपमस्मरत्। अधृष्यं सर्व्वभूतानां वाङ्मयं धर्मसंज्ञितम्
दशयोजनविस्तींर्ण शतयोजनमुच्छ्रितम्। नीलमेघप्रतीकाशं मेघस्तनितनिःस्वनम्
महापर्व्वतवर्ष्माणं श्वेतं तीक्ष्णोग्रदंष्ट्रिणम्। विद्युदग्निप्रकाशाक्षमादित्यसमतेजसम्
पीनवृत्तायतस्कन्धं सिंहविक्रान्तगामिनम्। पीनोन्नतकटीदेशं सुश्लक्ष्णं शुभलक्षणम्
रूपमास्थाय विपुलं वाराहममितं हरिः। पृथिव्युद्धरणार्थाय प्रविवेश रसातलम्
स वेदवाद्युपद्रष्टा क्रतुवक्षाश्चितीमुखः। अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः
अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः। आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान्
सत्यधर्ममयः श्रीमान् धर्म्मविक्रमसंस्थितः। प्रायश्चित्तरतो घोरः पशुजानुर्महाकृति
ऊर्द्ध्वगात्रो होमलिङ्गः स्थानबीजो महौषधिः। वेद्यान्तरात्मा मन्त्रस्फिगाज्यस्पृक् सोमशोणितः
- पा.भे. वेदस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान्। प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरन्वितः
दक्षिणाहृदयो योगी महासत्रमयो विभुः। उपाकर्मेष्टिरुचिरः प्रवर्ग्यवित्तभूषणः
नानाच्छन्दोगतिपथो गुह्योपनिषदासनः। छायापत्नीसहायो वै मणिश्रृङ्ग इवोच्छ्रितः। भूत्वा यज्ञवराहो वै अपः स प्राविशत् प्रभुः
अद्भिः संछादितामुर्वीं स तामश्नन् प्रजापतिः। उपगम्योज्जहाराशु अपस्ताश्च स विन्यसत्
सामुद्रीर्वै समुद्रेषु नादेयीश्च नदीष्वथ। रसातलतले मग्नां रसातलतले गताम्। प्रभुर्ल्लोकहितार्थाय दंष्ट्रयाभ्युज्जहार गाम्
ततः स्वस्थानमानीय पृथिवीं पृथिवीकरः। मुमोच पूर्वं मनसा धारयित्वा धराधरः
तस्योपरि जलौघस्य महती नौरिव स्थितः। चरितत्वाच्च देवस्य न मही याति विप्लवम्
ततोद्धृत्य क्षितिं देवो जगतः स्थापनेच्छया। पृथिव्याः प्रविभागाय मनश्चक्रेऽम्बुजेक्षणः। पृथिवीं तु समीकृत्य पृथिव्यां सोऽचिनोद् गिरीन्
प्राक् सर्वे दह्यमानास्तु तदा संवर्त्तकाग्निना। तेनाग्निना विशीर्णास्ते पर्वता भुवि सर्वशः
शैत्यादेकार्णवे तस्मिन्वायुनापस्तु संहृताः। निषिक्ता यत्र यत्रासंस्तत्रतत्राचलोऽभवत्
स्कन्नाचलत्वादचलाः पर्व्वभिः पर्व्वताः स्मृताः। गिरयोऽन्तर्निगीर्णत्वाच्चयनाच्च शिलोच्चयाः
ततस्तेषु विशीर्णेषु लोकोदधिगिरिष्वथ। विश्वकर्म्मा विभजते कल्पादिषु पुनः पुनः
ससमुद्रामिमां पृथ्वीं सप्तद्वीपां सपर्व्वताम्। भूराद्यां श्चतुरो लोकान् पुनः सोऽथ प्रकल्पयत्। लोकान् प्रकल्पयित्वा च प्रजासर्गं ससर्ज्ज ह
ब्रह्मा स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः। ससर्ज्ज सृष्टिन्तद्रूपां कल्पादिषु यथा पुरा
तस्याभिध्यायतः सर्गं तदा वै बुद्धिपूर्वकम्। प्रधानसमकालं वै प्रादुर्भूतस्तमोमयः
तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः। अविद्या पञ्चपर्व्वैषा प्रादुर्भूता महात्मनः
प़ञ्चधा चाश्रितः सर्गो ध्यायतः सोऽभिमानिनः। सर्व्वतस्तमसा चैव दीपः कुम्भवदावृतः। बहिरन्तः प्रकाशश्च शुद्धो निःसंज्ञ एव च
यस्मात्तैः संवृता बुद्धिर्मुख्यानि करणानि च। तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः
मुख्यसर्गे तथाभूतं ब्रह्मा दृष्ट्वा ह्यसाधकम्। अप्रसन्नमनाः सोऽथ ततो न्यासोऽभ्यमन्यत
तस्याभिध्यायतस्तत्र तिर्य्यक् स्रोतोऽभ्यवर्त्तत। यस्मात्तिर्यग् व्यवर्त्तेत तिर्य्यक्स्रोतस्ततः स्मृतम्
तमोबहुत्वात्ते सर्व्वे ह्यज्ञानबहुलाः स्मृताः। उत्पथग्राहिणश्चापि ते ध्यानाद्ध्यानमानिनः