इज्यत्वादुच्यते यज्ञः कविर्विक्रान्तदर्शनात्। क्रमणः क्रमणीयत्वाद्वर्णकस्याभिपालनात्
आदित्यसंज्ञः कपिलस्त्वग्रजोऽग्निरिति स्मृतः। हिरण्यमस्य गर्भोऽभूद्धिरण्यस्यापि गर्भजः। तस्माद्धिरण्यगर्भः स पुराणेऽस्मिन्निरुच्यते
स्वयम्भुवो निवृत्तस्य कालो वर्षाग्रजस्तु यः। न शक्यः परिसंख्यातुमपि वर्षशतैरपि
कल्पसंख्यानिवृत्तेस्तु पराख्यो ब्रह्मणः स्मृतः। तावच्छेषोऽस्य कालोऽन्यस्तस्यान्ते प्रतिसृज्यते
कोटिकोटिसहस्राणि अन्तर्भूतानि यानि वै। समतीतानि कल्पानान्तावच्छेषाः परास्तु ये
यस्त्वयं वर्त्तते कल्पो वाराहन्तं निबोधत। प्रथमः साम्प्रतस्तेषां कल्पोऽयं वर्त्तते द्विजाः
तस्मिन् स्वायम्भुवाद्यास्तु मनवः स्युश्चतुर्द्दश। अतीता वर्त्तमानाश्च भविष्या ये च वै पुनः
तैरियं पृथिवी सर्वा सप्तद्वीपा समन्ततः। पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः। प्रजाभिस्तपसा चैव तेषां श्रृणुत विस्तरम्
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै। भविष्याणि भविष्यैश्च कल्पः कल्पेन चैव ह
अतीतानि च कल्पानि सोदकानि सहान्वयैः। अनागतेषु तद्वच्च तर्क्कः कार्यो विजानता
आपो ह्यग्नेः समभवन्नष्टेऽग्नौ पृथिवीतले। सान्तरालैकलीनेऽस्मान्नष्टे स्थावरजङ्गमे
एकार्णवे तदा तस्मिन् न प्राज्ञायत किञ्चन। तदा स भगवान् ब्रह्मा सहस्राक्षः सहस्रपात्
सहस्रशीर्षा पुरुषो रुक्मवर्णोऽह्यतीन्द्रियः। ब्रह्मा नारायणाख्यः स सुष्वाप सलिले तदा
सत्त्वोद्रेकात् प्रबुद्धस्तु शून्यं लोकमुदीक्ष्य सः। इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति
आपो नारा वै तनव इत्यपां नाम शुश्रुमः। अप्सु शेते च यत्तस्मात्तेन नारायणः स्मृतः
तुल्यं युगसहस्रस्य नैशं कालमुपास्य सः। शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात्
ब्रह्मा तु सलिले तस्मिन् वायुर्भूत्वा तदाचरत्। निशायामिव खद्योतः प्रावृट्काले ततस्ततः
ततस्तु सलिले तस्मिन् विज्ञायान्तर्गतां महीम्। अनुमानादसंमूढो भूमेरुद्धरणं प्रति
अकरोत् स तनुं त्वन्यां कल्पादिषु यथा पुरा। ततो महात्मा मनसा दिव्यं रूपमचिन्तयत्
सलिलेनाप्लुतां भूमिं दृष्ट्वा स तु समन्ततः। किन्नु रूपं महत् कृत्वा उद्धरेयमहं महीम्
जलक्रीडासु रुचिरं वाराहं रूपमस्मरत्। अधृष्यं सर्व्वभूतानां वाङ्मयं धर्मसंज्ञितम्
दशयोजनविस्तींर्ण शतयोजनमुच्छ्रितम्। नीलमेघप्रतीकाशं मेघस्तनितनिःस्वनम्
महापर्व्वतवर्ष्माणं श्वेतं तीक्ष्णोग्रदंष्ट्रिणम्। विद्युदग्निप्रकाशाक्षमादित्यसमतेजसम्
पीनवृत्तायतस्कन्धं सिंहविक्रान्तगामिनम्। पीनोन्नतकटीदेशं सुश्लक्ष्णं शुभलक्षणम्
रूपमास्थाय विपुलं वाराहममितं हरिः। पृथिव्युद्धरणार्थाय प्रविवेश रसातलम्
स वेदवाद्युपद्रष्टा क्रतुवक्षाश्चितीमुखः। अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः
अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः। आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान्
सत्यधर्ममयः श्रीमान् धर्म्मविक्रमसंस्थितः। प्रायश्चित्तरतो घोरः पशुजानुर्महाकृति
ऊर्द्ध्वगात्रो होमलिङ्गः स्थानबीजो महौषधिः। वेद्यान्तरात्मा मन्त्रस्फिगाज्यस्पृक् सोमशोणितः
- पा.भे. वेदस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान्। प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरन्वितः