त्रिधा यद्वर्त्तते लोके तस्मात्रिगुण उच्यते। चतुर्द्धा प्रविभक्तत्वाच्चतुर्व्यूहः प्रकीर्तितः
यदाप्नोति यदादत्ते यच्चास्ति विषयं प्रति। तच्चास्य सततं भावस्तस्मादात्मा निरुच्यते
ऋषिः सर्वगतत्वाच्च शरीराद्यत्स्वयं प्रभुः। स्वामित्वमस्य तत्सर्वं विष्णुः सर्वप्रवेशनात्
भगवान् भगसद्भावाद्रागो रागस्य शासनात्। परश्च तु प्रकृतत्वादवनादोमितिः स्मृतः
सर्वज्ञः सर्वविज्ञानात् सर्वः सर्वं यतस्ततः। नराणामयनं यस्मात्तेन नारायणः स्मृतः
त्रिधा विभज्य स्वात्मानं त्रैलोक्यं सम्प्रवर्त्तते। सृजते ग्रसते चैव वीक्षते च त्रिभिस्तु यत्। अग्रे हिरण्यगर्भः स प्रादुर्भूतश्चतुर्मुखः
आदित्वाच्चादितेवोऽसावजातत्वादजः स्मृतः। पाति यस्मात्प्रजाः सर्वाःप्रजापतिरतः स्मृतः
देवेषु च महान् देवो महादेवस्ततः स्मृतः। सर्वेशत्वाच्च लोकानामवश्यत्वात्तथेश्वरः
बृहत्त्वाच्च स्मृतो ब्रह्मा भूतत्वाद्भूत उच्यते। क्षेत्रज्ञः क्षेत्रविज्ञानाद्विभुः सर्वगतो यतः
यस्मात् पुर्यनुशेते च तस्मात् पुरुष उच्यते। नोत्पादितत्वात् पूर्वत्वात् स्वयम्भूरिति स स्मृतः
इज्यत्वादुच्यते यज्ञः कविर्विक्रान्तदर्शनात्। क्रमणः क्रमणीयत्वाद्वर्णकस्याभिपालनात्
आदित्यसंज्ञः कपिलस्त्वग्रजोऽग्निरिति स्मृतः। हिरण्यमस्य गर्भोऽभूद्धिरण्यस्यापि गर्भजः। तस्माद्धिरण्यगर्भः स पुराणेऽस्मिन्निरुच्यते
स्वयम्भुवो निवृत्तस्य कालो वर्षाग्रजस्तु यः। न शक्यः परिसंख्यातुमपि वर्षशतैरपि
कल्पसंख्यानिवृत्तेस्तु पराख्यो ब्रह्मणः स्मृतः। तावच्छेषोऽस्य कालोऽन्यस्तस्यान्ते प्रतिसृज्यते
कोटिकोटिसहस्राणि अन्तर्भूतानि यानि वै। समतीतानि कल्पानान्तावच्छेषाः परास्तु ये
यस्त्वयं वर्त्तते कल्पो वाराहन्तं निबोधत। प्रथमः साम्प्रतस्तेषां कल्पोऽयं वर्त्तते द्विजाः
तस्मिन् स्वायम्भुवाद्यास्तु मनवः स्युश्चतुर्द्दश। अतीता वर्त्तमानाश्च भविष्या ये च वै पुनः
तैरियं पृथिवी सर्वा सप्तद्वीपा समन्ततः। पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः। प्रजाभिस्तपसा चैव तेषां श्रृणुत विस्तरम्
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै। भविष्याणि भविष्यैश्च कल्पः कल्पेन चैव ह
अतीतानि च कल्पानि सोदकानि सहान्वयैः। अनागतेषु तद्वच्च तर्क्कः कार्यो विजानता
आपो ह्यग्नेः समभवन्नष्टेऽग्नौ पृथिवीतले। सान्तरालैकलीनेऽस्मान्नष्टे स्थावरजङ्गमे
एकार्णवे तदा तस्मिन् न प्राज्ञायत किञ्चन। तदा स भगवान् ब्रह्मा सहस्राक्षः सहस्रपात्
सहस्रशीर्षा पुरुषो रुक्मवर्णोऽह्यतीन्द्रियः। ब्रह्मा नारायणाख्यः स सुष्वाप सलिले तदा
सत्त्वोद्रेकात् प्रबुद्धस्तु शून्यं लोकमुदीक्ष्य सः। इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति
आपो नारा वै तनव इत्यपां नाम शुश्रुमः। अप्सु शेते च यत्तस्मात्तेन नारायणः स्मृतः
तुल्यं युगसहस्रस्य नैशं कालमुपास्य सः। शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात्
ब्रह्मा तु सलिले तस्मिन् वायुर्भूत्वा तदाचरत्। निशायामिव खद्योतः प्रावृट्काले ततस्ततः
ततस्तु सलिले तस्मिन् विज्ञायान्तर्गतां महीम्। अनुमानादसंमूढो भूमेरुद्धरणं प्रति
अकरोत् स तनुं त्वन्यां कल्पादिषु यथा पुरा। ततो महात्मा मनसा दिव्यं रूपमचिन्तयत्
सलिलेनाप्लुतां भूमिं दृष्ट्वा स तु समन्ततः। किन्नु रूपं महत् कृत्वा उद्धरेयमहं महीम्