क्षोभयामास योगेन परेण परमेश्वरः। प्रधानं पुरुषञ्चैव प्रविश्याण्डं महेश्वरः
प्रधानात् क्षोभ्यमाणात्तु रजो वै समवर्त्तत। रजः प्रवर्त्तकं तत्र बीजेष्वपि यथा जलम्
गुणवैषम्यमासाद्य प्रसूयन्ते ह्यधिष्ठिताः। गुणेभ्यः क्षोभ्य माणेभ्यस्त्रयो देवा विजज्ञिरे। आश्रिताः परमा गुह्याः सर्वात्मानः शरीरिणः
रजो ब्रह्मा तमो ह्यग्निः सत्त्वं विष्णुरजायत। रजःप्रकाशको ब्रह्मा स्रष्ट्टृत्वेन व्यवस्थितः
तमःप्रकाशकोऽग्निस्तु कालत्वेन व्यवस्थितः। सत्त्वप्रकाशको विष्णुरौदासीन्ये व्यवस्थितः
एत एव त्रयो देवा एत एव त्रयोऽग्नयः। परस्पराश्रिता ह्येते परस्परमनुव्रताः
परस्परेण वर्त्तन्ते धारयन्ति परस्परम्। अन्योन्यमिथुनाह्येते ह्यन्योन्यमुपजीविनः। क्षणं वियोगो न ह्येषान्न त्यजन्ति परस्परम्
ईश्वरो हि परो देवो विष्णुस्तु महतः परः । ब्रह्मा तु रजसोद्रिक्तः सर्गायेह प्रवर्त्तते। परश्च पुरुषो ज्ञेयः प्रकृतिश्च परा स्मृता
अधिष्ठितोऽसौ हि महेश्वरेण प्रवर्त्तते चोद्यमानः समन्तात्। अनुप्रवर्त्तन्ति महान्त एव चिरस्थिताः स्वे विष्ये प्रियत्वात्
प्रधानं गुणवैषम्यात्सर्गकाले प्रवर्त्तते। ईश्वराधिष्ठितात् पूर्वन्तस्मात्सदसदात्मकात्। ब्रह्मा बुद्धिश्च मिथुनं युगपत्सम्बभूवतुः
तस्मात्तमोऽव्यक्तमयः क्षेत्रज्ञो ब्रह्मसंज्ञितः। संसिद्धः कार्यकरणैर्ब्रह्माऽग्रे समवर्त्तत
तेजसा प्रथमनो धीमानव्यक्तः संप्रकाशते। स वै शरीरी प्रथमः कारणत्वे व्यवस्थितः
अप्रतीघेन ज्ञानेन ऐश्वर्येण च सोऽन्वितः। धर्मेण चाप्रतीघेन वैराग्येण समन्वितः
तस्येश्वरस्याप्रतिघं ज्ञानं वैराग्यलक्षणम्। धर्मैश्वर्यकृता बुद्धिर्ब्राह्मी जज्ञेऽभिमानिनः
अव्यक्ताज्जायते चास्य मनसा च यदिच्छति। वशीकृतत्वाद्वैगुण्यात् सुरेशत्वात्स्वभावतः
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तकोऽभवत्। सहस्रमूर्द्धा पुरुषस्तिस्रोऽवस्थाः स्वयम्भुवः
सत्त्वं रजश्च ब्रह्मत्वे कालत्वे च रजस्तमः. सात्विकं पुरुषत्वे च गुणवृत्तिः स्वयम्भुवः
लोकान् सृजति ब्रह्मत्वे कालत्वे संक्षिपत्यपि। पुरुषत्वे ह्युदासीन स्तिस्रोऽवस्थाः प्रजापते
ब्रह्मा कमलगर्भाभः कालो जात्याञ्जनप्रभः। पुरुषः पुण्डरीकाक्षो रूपं तत्परमात्मनः
योगेश्वरः शरीराणि करोति विकरोति च। नानाकृतिक्रियारूपनामवृत्तिः स्वलीलया
त्रिधा यद्वर्त्तते लोके तस्मात्रिगुण उच्यते। चतुर्द्धा प्रविभक्तत्वाच्चतुर्व्यूहः प्रकीर्तितः
यदाप्नोति यदादत्ते यच्चास्ति विषयं प्रति। तच्चास्य सततं भावस्तस्मादात्मा निरुच्यते
ऋषिः सर्वगतत्वाच्च शरीराद्यत्स्वयं प्रभुः। स्वामित्वमस्य तत्सर्वं विष्णुः सर्वप्रवेशनात्
भगवान् भगसद्भावाद्रागो रागस्य शासनात्। परश्च तु प्रकृतत्वादवनादोमितिः स्मृतः
सर्वज्ञः सर्वविज्ञानात् सर्वः सर्वं यतस्ततः। नराणामयनं यस्मात्तेन नारायणः स्मृतः
त्रिधा विभज्य स्वात्मानं त्रैलोक्यं सम्प्रवर्त्तते। सृजते ग्रसते चैव वीक्षते च त्रिभिस्तु यत्। अग्रे हिरण्यगर्भः स प्रादुर्भूतश्चतुर्मुखः
आदित्वाच्चादितेवोऽसावजातत्वादजः स्मृतः। पाति यस्मात्प्रजाः सर्वाःप्रजापतिरतः स्मृतः
देवेषु च महान् देवो महादेवस्ततः स्मृतः। सर्वेशत्वाच्च लोकानामवश्यत्वात्तथेश्वरः
बृहत्त्वाच्च स्मृतो ब्रह्मा भूतत्वाद्भूत उच्यते। क्षेत्रज्ञः क्षेत्रविज्ञानाद्विभुः सर्वगतो यतः
यस्मात् पुर्यनुशेते च तस्मात् पुरुष उच्यते। नोत्पादितत्वात् पूर्वत्वात् स्वयम्भूरिति स स्मृतः