गुणं पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम्। तेषां यावच्च यद्यच्च तत्तत्तावद्गुणं स्मृतम्
उपलभ्य शुचेर्गन्धं केचिद्वायोरनैपुणात्। पृथिव्यामेव तद्विद्यादेषां वायोश्च संश्रयात्
एते सप्त महावीर्या नानाभूताः पृथक् पृथक्। नाशक्नुवन् प्रजाः स्रष्टुमसमागम्य कृत्स्नशः। ते समेत्य महात्मानो ह्ययोन्यस्यैव संश्रयात्
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च। महदाद्या विशेषान्ता अण्डमुत्पादयन्ति ते
एककालं समुत्पन्नं जलबुद्बुदवच्च तत्। विशेषेभ्योऽण्डमभवद् बृहत्तदुदकं च यत्। तत्तस्मिन् कार्यकरणं संसिद्धं ब्रह्मणस्तदा
प्राकृतेऽण्डे विबुद्धे सन् क्षेत्रज्ञो ब्रह्मसंज्ञितः। स वै शरीरी प्रथमः स वै पुरुष उच्यते
आदिकर्त्ता च भूतानां ब्रह्माऽग्रे समवर्त्तत। हिरण्यगर्भः सोऽग्रोऽस्मिन् प्रादुर्भूतश्चतुर्मुखः। सर्गे च प्रति सर्गे च क्षेत्रज्ञो ब्रह्मसंज्ञितः
करणैः सह सृज्यन्ते प्रत्याहारे त्यजन्ति च। भजन्ते च पुनर्देहानसमाहारसन्धिषु
हिरण्मयस्तु यो मेरुस्तस्योल्बं तन्महात्मनः। गर्भोदकं समुद्राश्च जराद्यस्थीनि पर्वताः
तस्मिन्नण्डे त्विमे लोका अन्तर्भूतास्तु सप्त वै। सप्तद्वीपा च पृथ्वीयं समुद्रैः सह सप्तभिः
पर्वतैः सुमहद्भिश्च नदीभिश्च सहस्रशः। अन्तस्तस्मिंस्त्विमे लोका अन्तर्विश्वमिदं जगत्
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना। लोकालोकं च यत् किंचिच्चाण्डे तस्मिन् समर्पितम्
अद्भिर्दशगुणाभिस्तु बाह्यतोऽण्डं समावृतम्। आपो दशगुणा ह्येवन्तेजसा बाह्यतो वृताः
तेजौदशगुणेनैव बाह्यतो वायुना वृतम्। वायोर्द्दशगुणेनैव बाह्यतो नभसा वृतम्
आकाशेन वृतो वायुः खं च भूतादिना वृतम्। भूतादिर्महता चापि अव्यक्तेन वृतो महान्। एतैरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम्
एतास्वावृत्य चान्योन्यमष्टौ प्रकृतयः स्थिताः। प्रसर्गकाले स्थित्वा च ग्रसन्त्येताः परस्परम्
एवं परस्परोत्पन्ना धारयन्ति परस्परम्। आधाराधेयभावेन विकारस्य विकारिषु
अव्यक्तं क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते। इत्येष प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः। अबुद्धिपूर्वं प्रागासीत् प्रादुर्भूता तडिद्यथा
एतद्धिरण्यगर्भस्य जन्म यो वेद तत्त्वतः। आयुष्मान् कीर्तिमान् धन्यः प्रजावांश्च भवत्युत
निवृत्तिकामोऽपि नरः शुद्धात्मा लभते गतिम्। पुराणश्रवणान्नित्यं सुखं च क्षेममाप्नुयात्
यद्धि सृष्टेस्तु संख्यातं मया कालान्तरन्द्विजाः। एतत् कालान्तरं ज्ञेयमहर्वै पारमेश्वरम्
रात्रिस्त्वेतावती ज्ञेया परमेशस्य कृत्स्नशः। अहस्तस्य तु या सृष्टिः प्रलयो रात्रिरुच्यते
अहश्च विद्यते तस्य न रात्रिरिति धारणा। उपचारः प्रक्रियते लोकानां हितकाम्यया
प्रजाः प्रजानाम्पतय ऋषयो मुनिभिः सह। ऋषीन् सनत्कुमाराख्यान् ब्रह्मसायुज्यगैः सह
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च। तन्मात्रा इन्द्रियगणो बुद्धिश्च मनसा सह
अहस्तिष्ठन्ति ते सर्वे परमेशस्य धीमतः। अहरन्ते प्रलीयन्ते रात्र्यन्ते विश्वसंभवः
स्वात्मन्यवस्थिते सत्वे विकारे प्रतिसंहते। साधर्म्येणावतिष्ठेते प्रधानपुरुषावुभौ
तमः सत्त्वगुणावेतौ समत्वेन व्यवस्तितौ। अत्रोद्रिक्तौ प्रसूतौ च तौ तथा च परस्परम्। गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते
तिलेषु वा यथा तैवं घृतं पयसि वा स्थितम्। तथा तमसि सत्त्वे च रजोऽव्यक्ताश्रितं स्थितम्
उपास्य रजनीं कृत्स्नां परां माहेश्वरीं तदा। अहर्मुखे प्रवृत्ते च पुरः प्रकृतिसम्भवः