भूततन्मात्रसर्गोऽयं विज्ञेयस्तु परस्परात्। वैकारिकादहङ्कारात्सत्वोद्रिक्तात्तु सात्विकात्। वैकारिकः स सर्गस्तु युगपत्सम्प्रवर्त्तते
बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाण्यपि। साधकानीन्द्रियाणि स्युर्द्देवा वैकारिका दश। एकादशं मनस्तत्र देवा वैकारिकाः स्मृता
श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी। शब्दादीनामवाप्त्यर्थं बुद्धियुक्तानि वक्ष्यते
पादौ पायुरुपस्थञ्च हस्तौ वाग्दशमी भवेत्। गतिर्विसर्गो ह्यानन्दः शिल्पं वास्यञ्च कर्म च
आकाशं शब्दमात्रञ्च स्पर्शमात्रं समाविशेत्। द्विगुणस्तु ततो वायुः शब्द स्पर्शात्मकोऽभवत्
रूपन्तथैव विशतः शब्दस्पर्शगुणावुभौ। त्रिगुणस्तु ततश्चाग्निः स शब्दस्पर्शरूपवान्
सशब्दस्पर्शरूपञ्च रसमात्रं समाविशत्। तस्माच्चतुर्गुणा ह्यापो विज्ञेयास्ता रसात्मिकाः
सशब्दस्पर्शरूपेषु गन्धस्तेषु समाविशत्। संयुक्ता गन्धमात्रेण आचिन्वन्ति महीमिमाम्। तस्मात्पञ्चगुणा भूमिः स्थूलभूतेषु दृश्यते
शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः। परस्परानुप्रवेशाद्धारयन्ति परस्परम्
भूमेरन्तस्तिवदं सर्वं लोकालोकघनावृतम्। विशेषा इन्द्रियग्राह्या नियतत्वाच्च ते स्मृताः
गुणं पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम्। तेषां यावच्च यद्यच्च तत्तत्तावद्गुणं स्मृतम्
उपलभ्य शुचेर्गन्धं केचिद्वायोरनैपुणात्। पृथिव्यामेव तद्विद्यादेषां वायोश्च संश्रयात्
एते सप्त महावीर्या नानाभूताः पृथक् पृथक्। नाशक्नुवन् प्रजाः स्रष्टुमसमागम्य कृत्स्नशः। ते समेत्य महात्मानो ह्ययोन्यस्यैव संश्रयात्
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च। महदाद्या विशेषान्ता अण्डमुत्पादयन्ति ते
एककालं समुत्पन्नं जलबुद्बुदवच्च तत्। विशेषेभ्योऽण्डमभवद् बृहत्तदुदकं च यत्। तत्तस्मिन् कार्यकरणं संसिद्धं ब्रह्मणस्तदा
प्राकृतेऽण्डे विबुद्धे सन् क्षेत्रज्ञो ब्रह्मसंज्ञितः। स वै शरीरी प्रथमः स वै पुरुष उच्यते
आदिकर्त्ता च भूतानां ब्रह्माऽग्रे समवर्त्तत। हिरण्यगर्भः सोऽग्रोऽस्मिन् प्रादुर्भूतश्चतुर्मुखः। सर्गे च प्रति सर्गे च क्षेत्रज्ञो ब्रह्मसंज्ञितः
करणैः सह सृज्यन्ते प्रत्याहारे त्यजन्ति च। भजन्ते च पुनर्देहानसमाहारसन्धिषु
हिरण्मयस्तु यो मेरुस्तस्योल्बं तन्महात्मनः। गर्भोदकं समुद्राश्च जराद्यस्थीनि पर्वताः
तस्मिन्नण्डे त्विमे लोका अन्तर्भूतास्तु सप्त वै। सप्तद्वीपा च पृथ्वीयं समुद्रैः सह सप्तभिः
पर्वतैः सुमहद्भिश्च नदीभिश्च सहस्रशः। अन्तस्तस्मिंस्त्विमे लोका अन्तर्विश्वमिदं जगत्
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना। लोकालोकं च यत् किंचिच्चाण्डे तस्मिन् समर्पितम्
अद्भिर्दशगुणाभिस्तु बाह्यतोऽण्डं समावृतम्। आपो दशगुणा ह्येवन्तेजसा बाह्यतो वृताः
तेजौदशगुणेनैव बाह्यतो वायुना वृतम्। वायोर्द्दशगुणेनैव बाह्यतो नभसा वृतम्
आकाशेन वृतो वायुः खं च भूतादिना वृतम्। भूतादिर्महता चापि अव्यक्तेन वृतो महान्। एतैरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम्
एतास्वावृत्य चान्योन्यमष्टौ प्रकृतयः स्थिताः। प्रसर्गकाले स्थित्वा च ग्रसन्त्येताः परस्परम्
एवं परस्परोत्पन्ना धारयन्ति परस्परम्। आधाराधेयभावेन विकारस्य विकारिषु
अव्यक्तं क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते। इत्येष प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः। अबुद्धिपूर्वं प्रागासीत् प्रादुर्भूता तडिद्यथा
एतद्धिरण्यगर्भस्य जन्म यो वेद तत्त्वतः। आयुष्मान् कीर्तिमान् धन्यः प्रजावांश्च भवत्युत
निवृत्तिकामोऽपि नरः शुद्धात्मा लभते गतिम्। पुराणश्रवणान्नित्यं सुखं च क्षेममाप्नुयात्