सूक्ष्मेण महता सोऽथ अव्यक्तेन समावृतः। सत्वोद्रिक्तो महानग्रे सत्त्वमात्रप्रकाशकम्। मनो महांश्च विज्ञेयो मनस्तत्कारणं स्मृतम्
लिङ्गमात्रसमुत्पन्नः) क्षेत्रज्ञाधिष्ठितस्तु सः। धर्मादीनान्तु रूपाणि लोकतत्त्वार्थहेतवः। महांस्तु सृष्टिं कुरुते नोद्यमानः सिसृक्षया
मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः। प्रज्ञा चितिः स्मृतिः संवित् विपुरं चोच्यते बुधैः
मनुते सर्वभूतानां यस्माच्चेष्टाफलं विभुः। सौक्ष्मत्वेन विवृद्धानां तेन तन्मन उच्यते
तत्त्वानामग्रजो यस्मान्महांश्च परिमाणतः। शेषेभ्योऽपि गुणेभ्योऽसौ महानिति ततः स्मृतः
बिभर्ति मानं मनुते विभागं मन्यतेऽपि च। पुरुषो भोगसम्बन्धात् तेन चासौ मतिः स्मृतः
बृहत्त्वादृंहणत्वाच्च भावानां सलिलाश्रयात्। यस्माद्बृंहयते भावान् ब्रह्मा तेन निरुच्यते
आपूरयित्वा यस्माच्च कृत्स्नान् देहाननुग्रहैः। तत्त्वभावांश्च नियतां स्तेन पूरिति चोच्यते
बुध्यते पुरुषश्चात्र सर्वभावान् हिताहितान् । यस्माद्बोधयते चैव तेन बुद्धिर्निरुच्यते
ख्यातिः प्रत्युपभोगश्च यस्मात् संवर्त्तते ततः। भोगश्च ज्ञाननिष्ठत्वात्तेन ख्यातिरिति स्मृतः
ख्यायते तद्गुणैर्वापि नामादिभिरनेकशः। तस्माच्च महतः संज्ञा ख्यातिरित्यभिधीयते
साक्षात् सर्वं विजानाति महात्मा तेन चेश्वरः। तस्माज्जाता ग्रहाश्चैव प्रज्ञा तेन स उच्यते
ज्ञानादीनि च रूपाणि क्रतुकर्मफलानि च। चिनोति यस्माद्भोगार्थान्तेनासौ चितिरुच्यते
वर्त्तमानान्यतीतानि तथा चानागतान्यपि। स्मरते सर्वकार्याणि तेनासौ स्मृतिरुच्यते
कृत्स्नं च विन्दते ज्ञानं तस्मान्माहात्म्यमुच्यते। तस्माद्विदेर्विदेश्चैव संविदित्यभिधीयते
विद्यते स च सर्वस्मिन् सर्वं तस्मिश्च विद्यते। तस्मात्संविदिति प्रोक्तो महान्वै बुद्धिमत्तरैः
ज्ञानात्तु ज्ञानमित्याह भगवान् ज्ञानसन्निधिः। द्वन्द्वानां विपुरीभावाद्विपुरं प्रोच्यते बुधैः
सर्वेशत्वाच्च लोकानामवश्यं च तथेश्वरः। बृहत्वाच्च स्मृतो ब्रह्मा भूतत्वाद्भव उच्यते
क्षेत्रक्षेत्रज्ञविज्ञानादेकत्वाच्च स कः स्मृतः। यस्मात् पुर्यनुशेते च तस्मात् पुरुष उच्यते। नोत्पादितत्वात् पूर्वत्वात् स्वयम्भूरिति चोच्यते
पर्यायवाचकैः शब्दैस्तत्त्वमाद्यमनुत्तमम्। व्याख्यातं तत्त्वभावज्ञैरेवं सद्भावचिन्तकैः
महान् सृष्टिं विकुरुते चोद्यमानः सिसृक्षया। सङ्कल्पोऽध्यवसायश्च तस्य वृत्तिद्वयं स्मृतम्
धर्मादीनि च रूपाणि लोकतत्त्वार्थहेतवः। त्रिगुणस्तु स विज्ञेयः सत्त्वराजसतामसः
त्रिगुणाद्रजसोद्रिक्तादहङ्कारस्ततोऽभवत्। महता चावृतः सर्गो भूतादिविकृतस्तु सः
तस्माच्च तमसोद्रिक्तादहङ्कारादजायत। भूततन्मात्रसर्गस्तु भूतादिस्तामसस्तु सः
thumb|महाभूताः आकाशं शुषिरं तस्मादुद्रिक्तं शब्दलक्षणम्। आकाशं शब्दमात्रन्तु भूतादिश्चावृणोत् पुनः
शब्दमात्रन्तदाकाशं स्पर्शमात्रं ससर्ज ह। भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज्ज ह
बलवान् जायते वायुः स वै स्पर्शगुणो मतः। आकाशं शब्दमात्रन्तु स्पर्शमात्रं समावृणोत्
रसमात्रास्तु ता ह्यापो रूपमात्राभिरावृणोत्। आपो रसान् विकुर्वन्त्यो गन्धमात्रं ससर्ज्जिरे
सङ्घातो जायते तस्मात्तस्य गन्धो गुणः स्मृतः। रसमात्रन्तु तत्तोयं गन्धमात्रं समावृणोत्
तस्मिंस्तस्मिंस्तु तन्मात्रा तेन तन्मात्रता स्मृता। अविशेषवाचकत्वादविशेषास्ततः स्मृताः। अशान्तघोरमूढत्वादविशेषास्ततः पुनः