यस्य यस्यान्वया ये ये तांस्तानिच्छाम वेदितुम्। तेषां पूर्वर्षिसृष्टिं च विचित्रां तां प्रजापतेः
असकृत्परिपृष्टस्तैर्महात्मा लोमहर्षणः। विस्तरेणानुपूर्व्या च कथयामास सत्तमः
पृष्टां चैतां कथां दिव्यां श्लक्ष्णां पापप्रणाशिनीम्। कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसम्मताम्
यश्चेमांधारयेन्नित्यं श्रृणुयाद्वाप्यभीक्ष्णशः। श्रावयेच्चापि विप्रेभ्यो यतिभ्यश्च विशेषतः
शुचिः पर्वसु युक्तात्मा तीर्थेष्वायतनेषु च। दीर्घमायुरवाप्नोति स पुराणानुकीर्त्तनात्। स्ववंशधारणं कृत्वा स्वर्गलोके महीयते
विस्तारावयवं तेषां यथाशब्दं यथाश्रुतम्। कीर्त्त्यमानं निबोधध्वं सर्वेषां कीर्त्तिवर्द्धनम्
धन्यं यशस्यं शत्रुघ्नं स्वर्ग्यमायुर्विवर्धनम्। कीर्त्तनं स्थिरकीर्त्तीनां सर्वेषां पुण्यकारिणाम्
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च। वंशानुचरितञ्चेति पुराणं पंचलक्षणम्
कल्पेभ्योऽपि हि यः कल्पः शुचिभ्यो नियतः शुचिः। पुराणं सम्प्रवक्ष्यामि मारुतं वेदसम्मितम्
प्रबोधः प्रलयश्चैव स्थितिरुत्पत्तिरेव च। प्रक्रिया प्रथमः पादः कथ्यवस्तुपरिग्रहः
उपोद्वातोऽनुषङ्गश्च उपसंहार एव च। धर्म्यं यशस्यमायुष्यं सर्वपापप्रणाशनम्
एवं हि पादाश्चत्वारः समासात् कीर्त्तिता मया। वक्ष्याम्येतान् पुनस्तांस्तु विस्तरेण यथाक्रमम्
तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च। अन्ताय प्रथमायैव विशिष्टाय प्रजात्मने। ब्रह्मणे लोकतन्त्राय नमस्कृत्य स्वयम्भुवे
महदाद्यं विशेषान्तं सवैरुप्यं सलक्षणम्। पञ्चप्रमाणं षट्श्येतं पुरुषाधिष्ठितं नुतम्। असंशयात् प्रवक्ष्यामि भूतसर्गमनुत्तमम्
अव्यक्तं कारणं यत्तु नित्यं सदसदात्मकम्। प्रधानं प्रकृतिं चैव यमाहुस्तत्त्व चिन्तकाः
गन्धवर्णरसैर्हीनं शब्दस्पर्शविवर्ज्जितम्। अजातं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम्
जगद्योनिं महद्भूतं परं ब्रह्म सनातनम्। विग्रहं सर्वभूतानामव्यक्तमभवत् किल
अनाद्यन्तमजं सूक्ष्मन्त्रिगुणं प्रभवाव्ययम्। असाम्प्रतमविज्ञेयं ब्रह्माग्रे समवर्त्तत
तस्यात्मना सर्वमिदं व्याप्तमासीत्तमोमयम्। गुणसाम्ये तदा तस्मिन् गुणभावे तमोमये
गर्गकाले प्रधानस्य क्षेत्रज्ञाधिष्ठितस्य वै। गुणभावाद्वाच्यमानो महान् प्रादुर्बभूव ह
सूक्ष्मेण महता सोऽथ अव्यक्तेन समावृतः। सत्वोद्रिक्तो महानग्रे सत्त्वमात्रप्रकाशकम्। मनो महांश्च विज्ञेयो मनस्तत्कारणं स्मृतम्
लिङ्गमात्रसमुत्पन्नः) क्षेत्रज्ञाधिष्ठितस्तु सः। धर्मादीनान्तु रूपाणि लोकतत्त्वार्थहेतवः। महांस्तु सृष्टिं कुरुते नोद्यमानः सिसृक्षया
मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः। प्रज्ञा चितिः स्मृतिः संवित् विपुरं चोच्यते बुधैः
मनुते सर्वभूतानां यस्माच्चेष्टाफलं विभुः। सौक्ष्मत्वेन विवृद्धानां तेन तन्मन उच्यते
तत्त्वानामग्रजो यस्मान्महांश्च परिमाणतः। शेषेभ्योऽपि गुणेभ्योऽसौ महानिति ततः स्मृतः
बिभर्ति मानं मनुते विभागं मन्यतेऽपि च। पुरुषो भोगसम्बन्धात् तेन चासौ मतिः स्मृतः
बृहत्त्वादृंहणत्वाच्च भावानां सलिलाश्रयात्। यस्माद्बृंहयते भावान् ब्रह्मा तेन निरुच्यते
आपूरयित्वा यस्माच्च कृत्स्नान् देहाननुग्रहैः। तत्त्वभावांश्च नियतां स्तेन पूरिति चोच्यते
बुध्यते पुरुषश्चात्र सर्वभावान् हिताहितान् । यस्माद्बोधयते चैव तेन बुद्धिर्निरुच्यते
ख्यातिः प्रत्युपभोगश्च यस्मात् संवर्त्तते ततः। भोगश्च ज्ञाननिष्ठत्वात्तेन ख्यातिरिति स्मृतः