तथैव चान्यानपि धैर्यशोभिनो मुनीन् बृहस्पत्युशनःपुरोगमान्। तपःशुभाचारऋषीन् दयान्वितान् प्रणम्य वक्ष्ये कलिपापनाशिनीम्
प्रजापतेः सृष्टिमिमामनुत्तमां सुरेश देवर्षिगणैरलंकृताम्। शुबामतुल्यामनघामृषिप्रियां प्रजापतीनामपि चोल्बणार्च्चिषाम्
तपोभृतां ब्रह्मदिनादिकालिकीं प्रभूतमाविष्कृतपौरुषश्रियम्। श्रुतौ स्मृतौ च प्रसृतामुदाहृतां परां पराणामनिलप्रकीर्त्तिताम्
समासबन्धैर्नियतैर्यथातथं विशब्दनेनापि मनःप्रहर्षिणीम्। यस्याञ्च बद्धा प्रथमा प्रवृत्तिः प्राधानिकी चेश्वरकारिता च
यत्तत्स्मृतं कारणमप्रमेयं ब्रह्म प्रधानं प्रकृतिप्रसूतिः। आत्मा गुहा योनिरथापि चक्षुः क्षेत्रं ततैवामृतमक्षरञ्च
शुक्रं तपः सत्त्वमतिप्रकाशं तद्व्यष्टि नित्यं पुरुषं द्वितीयम्। तमप्रमेयं पुरुषेण युक्तं स्वयम्भुवा लोकपितामहेन
उत्पादकत्वाद्रजसोतिरेकात् कालस्य योगान्निगमावधेश्च। क्षेत्रज्ञयुक्तान् नियतान्विकारान् लोकस्य सन्तानाविवृद्धिहेतून्। प्रकृत्यवस्था सुषुवे तथाष्टौ सङ्कल्पमात्रेण महेश्वरस्य
देवासुराद्रिद्रुमसागराणां मनुप्रजेशर्षिपितृद्विजानाम्। पिशाचयक्षोरगराक्षसानां ताराग्र हार्क्कर्क्षनिशाचराणाम्
मासर्त्तु संवत्सररात्र्यहानां दिक्कालयोगादियुगायनानाम्। वनौषधीनामपि वीरुधाञ्च जलौकसामप्सरसां पशूनाम्
विद्युत्सरिन्मेघविहङ्गमानां यत्सूक्ष्मगं यद्भुवि यद्वियत्स्थम्। यत्स्थावरं यत्र यदस्ति किञ्चित् सर्वस्य तस्यास्ति गतिर्विभक्तिः
छन्दांसि वेदाः सऋचो यजूंषि सामानि सोमस्व तथैव यज्ञः। आजीव्यमेषां यदभीप्सितञ्च देवस्य तस्यैव च वै प्रजापतेः
वैवस्वतस्यास्य मनोः पुरस्तात् सम्भू तिरुक्ता प्रसवश्च तेषाम्। येषामिदं पुण्यकृतां प्रसूत्या लोकत्रयं लोकनमस्कृतानाम्। सुरेशदेवर्षिमनुप्रधीनामापूरितञ्चोपरिभूषितञ्च
रुद्रस्य शापात् पुनरुद्भवश्च दक्षस्य चाप्यत्र मनुष्यलोके। वासः क्षितौ वा नियमाद्भवस्य दक्षस्य चात्र प्रतिशापलाभः
मन्वन्तराणां परिवर्त्तनानि युगेषु सम्भूतिविकल्पनञ्च। ऋषित्वमार्षस्य च संप्रवृद्धिर्यथा युगादिष्वपि चेत्तदत्र
ये द्वापरेषु प्रथयन्ति वेदान् व्यासाश्च तेऽज्ञ क्रमशो निबद्धाः। कल्पस्य संख्या भुवनस्य संख्या ब्राह्मस्य चाप्यत्र दिनस्य संख्या
अण्डोद्भिजस्वेदजरायुजानां धर्मात्मनां स्वर्गनिवासिनां वा। ये यातनास्थानगताश्च जीवास्तर्केण तेषामपि च प्रमाणम्
आत्यन्तिकः प्राकृतिकश्च योऽयं नैमित्तिकश्च प्रतिसर्गहेतुः। बन्धश्च मोक्षश्च विशिष्य तत्र प्रोक्ता च संसारगतिः परा च
प्रकृत्यवस्थैषु च कारणेषु याच स्थितिर्या च पुनः प्रवृत्तिः। तच्छास्त्रयुक्त्या स्वमतिप्रयत्नात् समस्तमाविष्कृतधीधृतिभ्यः। विप्रा ऋषिभ्यः समुदाहृतं यद्यथातथं तच्छृणुतोच्यमानम्
ऋषयस्तु ततः श्रुत्वा नैमिषारण्यवासिनः। प्रत्यूचुस्ते ततः सर्वे सूतं पर्याकुलेक्षणाः
भवान् वै वंशकुशलो व्यासात् प्रत्यक्षदर्शवान्। तस्मात्त्वं भवनं कृत्स्नं लोकस्यामुष्य वर्णय
यस्य यस्यान्वया ये ये तांस्तानिच्छाम वेदितुम्। तेषां पूर्वर्षिसृष्टिं च विचित्रां तां प्रजापतेः
असकृत्परिपृष्टस्तैर्महात्मा लोमहर्षणः। विस्तरेणानुपूर्व्या च कथयामास सत्तमः
पृष्टां चैतां कथां दिव्यां श्लक्ष्णां पापप्रणाशिनीम्। कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसम्मताम्
यश्चेमांधारयेन्नित्यं श्रृणुयाद्वाप्यभीक्ष्णशः। श्रावयेच्चापि विप्रेभ्यो यतिभ्यश्च विशेषतः
शुचिः पर्वसु युक्तात्मा तीर्थेष्वायतनेषु च। दीर्घमायुरवाप्नोति स पुराणानुकीर्त्तनात्। स्ववंशधारणं कृत्वा स्वर्गलोके महीयते
विस्तारावयवं तेषां यथाशब्दं यथाश्रुतम्। कीर्त्त्यमानं निबोधध्वं सर्वेषां कीर्त्तिवर्द्धनम्
धन्यं यशस्यं शत्रुघ्नं स्वर्ग्यमायुर्विवर्धनम्। कीर्त्तनं स्थिरकीर्त्तीनां सर्वेषां पुण्यकारिणाम्
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च। वंशानुचरितञ्चेति पुराणं पंचलक्षणम्
कल्पेभ्योऽपि हि यः कल्पः शुचिभ्यो नियतः शुचिः। पुराणं सम्प्रवक्ष्यामि मारुतं वेदसम्मितम्
प्रबोधः प्रलयश्चैव स्थितिरुत्पत्तिरेव च। प्रक्रिया प्रथमः पादः कथ्यवस्तुपरिग्रहः