पितृदेवाप्सरःसिद्धैर्गन्धर्वोरगचारणैः। सम्भारैस्तु शुभैर्जुष्टं तैरेवेन्द्रसदो यथा
स्तोत्रसत्रग्रहैर्देवान् पितृन् पित्र्यैश्च कर्मभिः। आनर्चुश्च यथाजाति गन्धर्वादीन् यथाविधि
आराधयितुमिच्छन्तस्ततः कर्मान्तरेष्वथ। जगुः सामानि गन्धर्वा ननृतुश्चाप्सरोगणाः
व्याजहुर्मुनयो वाचं चित्राक्षरपदां शुभाम्। मन्त्रादितत्त्वविद्वांसो जगदुश्च परस्परम्
वितण्डावचनाश्चैके निजघ्नुः प्रतिवादिनः। ऋषयस्तत्र विद्वांसः साङ्ख्यार्थन्यायकोविदाः
न तत्र दुरितं किंचिद्विदधुर्ब्रह्मराक्षसाः। न च यज्ञहनो दैत्या न च यज्ञमुषोऽसुराः
प्रायश्चित्तं दुरिष्टं वा न तत्र समजायत। शक्तिप्रज्ञा क्रियायोगैर्विधिरासीत् स्वनुष्ठितः
एवं वितेनिरे सत्रं द्वादशाब्दं मनीषिणः। भृग्वाद्या ऋषयो धीरा ज्योतिष्टोमान् पृथक् पृथक्। चक्रिरे पृष्ठगमनान् सर्वानयुतदक्षिणान्
समाप्तयज्ञास्ते सर्वे वायुमेव महाधिपम्। पप्रच्छुरमितात्मानं भवद्भिर्यदहं द्विजाः। प्रणोदितश्च वंशार्थं स च तानब्रवीत्प्रभुः
शिष्यः स्वयम्भुवो देवः सर्वप्रत्यक्षदृग्वशी। अणिमादिभिरष्टाभिरैश्वर्यैर्यः समन्वितः
तिर्यग्योन्यादिभिर्धर्मैः सर्वलोकान्बिभर्त्ति यः। सप्तस्कन्धादिकं शश्वत् प्लवते योजनाद्वरः
विषये नियता यस्य संस्थिताः सप्तका गणाः। व्यूहांस्त्रयाणां भूतानां कुर्वन् यश्च महाबलः। तेजसश्चात्त्युपध्यानन्दधातीमं शरीरिणम्
प्राणाद्या वृत्तयः पञ्च करणानां च वृत्तिभिः। प्रेर्यमाणाः शरीराणां कुर्वते यास्तु धारणम्
आकाशयोनिर्हि गुणः शब्दस्पर्शसमन्वितः। तैजसप्रकृतिश्चोक्तोऽप्ययं भावो मनीषिभिः
तत्राभि मानी भगवान् वायुश्चातिक्रियात्मकः। वातारणिः समाख्यातः शब्दशास्त्रविशारदः
भारत्या श्लक्ष्णया सर्वान् मुनीन् प्रह्लादयन्निव। पुराणज्ञः सुमनसः पुराणाश्रययुक्तया
सूत उवाच।। महेश्वरायोत्तमवीर्यकर्मणे सुरर्षभायामितबुद्धितेजसे। सहस्रसूर्यानलवर्च्चसे नमस्त्रिलोकसंहारविसृष्टये नमः
प्रजापतीन् लोकनमस्कृतां स्तथा स्वयम्भुरुद्रप्रभृतीन् महेश्वरान्। भृगुं मरीचिं परमेष्ठिनं मनुं रजस्तमोधर्ममथापि कश्यपम्
वसिष्ठदक्षात्रिपुलस्त्यकर्द्दमान् रुचिं विवस्वन्तमथापि च क्रतुम्। मुनिं तथैवाङ्गिरसं प्रजापतिं प्रणम्य मूर्ध्ना पुलहं च भावतः
तथैव चुक्रोधनमेकविंशतिं प्रजा विवृद्ध्यार्पितकार्यशासनम्। पुरातनानप्यपरांश्च शाश्वतांस्तथैव चान्यान् सगणानवस्थितान्
तथैव चान्यानपि धैर्यशोभिनो मुनीन् बृहस्पत्युशनःपुरोगमान्। तपःशुभाचारऋषीन् दयान्वितान् प्रणम्य वक्ष्ये कलिपापनाशिनीम्
प्रजापतेः सृष्टिमिमामनुत्तमां सुरेश देवर्षिगणैरलंकृताम्। शुबामतुल्यामनघामृषिप्रियां प्रजापतीनामपि चोल्बणार्च्चिषाम्
तपोभृतां ब्रह्मदिनादिकालिकीं प्रभूतमाविष्कृतपौरुषश्रियम्। श्रुतौ स्मृतौ च प्रसृतामुदाहृतां परां पराणामनिलप्रकीर्त्तिताम्
समासबन्धैर्नियतैर्यथातथं विशब्दनेनापि मनःप्रहर्षिणीम्। यस्याञ्च बद्धा प्रथमा प्रवृत्तिः प्राधानिकी चेश्वरकारिता च
यत्तत्स्मृतं कारणमप्रमेयं ब्रह्म प्रधानं प्रकृतिप्रसूतिः। आत्मा गुहा योनिरथापि चक्षुः क्षेत्रं ततैवामृतमक्षरञ्च
शुक्रं तपः सत्त्वमतिप्रकाशं तद्व्यष्टि नित्यं पुरुषं द्वितीयम्। तमप्रमेयं पुरुषेण युक्तं स्वयम्भुवा लोकपितामहेन
उत्पादकत्वाद्रजसोतिरेकात् कालस्य योगान्निगमावधेश्च। क्षेत्रज्ञयुक्तान् नियतान्विकारान् लोकस्य सन्तानाविवृद्धिहेतून्। प्रकृत्यवस्था सुषुवे तथाष्टौ सङ्कल्पमात्रेण महेश्वरस्य
देवासुराद्रिद्रुमसागराणां मनुप्रजेशर्षिपितृद्विजानाम्। पिशाचयक्षोरगराक्षसानां ताराग्र हार्क्कर्क्षनिशाचराणाम्
मासर्त्तु संवत्सररात्र्यहानां दिक्कालयोगादियुगायनानाम्। वनौषधीनामपि वीरुधाञ्च जलौकसामप्सरसां पशूनाम्
विद्युत्सरिन्मेघविहङ्गमानां यत्सूक्ष्मगं यद्भुवि यद्वियत्स्थम्। यत्स्थावरं यत्र यदस्ति किञ्चित् सर्वस्य तस्यास्ति गतिर्विभक्तिः