इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्। बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति
अभ्यसन्निममध्यायं साक्षात् प्रोक्तं स्वयम्भुवा। आपदं प्राप्य मुच्येत यथेष्टां प्राप्नुयाद्घतिम्
यस्मात् पुरा ह्यनतीदं पुराणं तेन तत् स्मृतम्। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते
नारायणः सर्वमिदं विश्वं व्याप्य प्रवर्त्तते। तस्यापि जगतः स्रष्टुः स्रष्टा देवो महेश्वरः
अतश्च संक्षेपमिमं श्रृणुध्वं महेश्वरः सर्वमिदं पुराणम्। स सर्गकाले च करोति सर्गान् संहारकाले पुनराददीत
शुक उवाच।। प्रत्यब्रुवन् पुनः सूतमृषयस्ते तपोधनाः। कुत्र सत्रं समभवत् तेषामद्भुतकर्मणाम्
कियन्तं चैव तत्कालं कथं च समवर्त्तत। आचचक्ष पुराणं च कथं तेभ्यः प्रभञ्चनः
आचक्ष्व विस्तरेणेदं परं कौतूहलं हि नः। इति सन्नोदितः सूतः प्रत्युवाच शुभं वचः
श्रृणुध्वं यत्र ते धीरा ईजिरे सत्रमुत्तमम्। यावन्तं चाभवत् कालं यथा च समवर्तत
सिसृक्षमाणा विश्वं हि यत्र विश्वसृजः पुरा। सत्रं हि ईजिरे पुण्यं सहस्रं परिवत्सरान्
तपो गृहपतिर्यत्र ब्रह्मा ब्रह्माऽभवत् स्वयम्। इलाया यत्र पत्नीत्वं शामित्रं यत्र बुद्धिमान्। मृत्युश्चक्रे महातेजास्तस्मिन् सत्रे महात्मनाम्
विबुधा ईजिरे तत्र सहस्रं प्रतिवत्सरान्। भ्रमतो धर्मचक्रस्य यत्र नेमिरशीर्यत। कर्मणा तेन विख्यात नैमिषं मुनिपूजितम्
यत्र सा गोमती पुण्या सिद्धचारण सेविता। रोहिणी सुषुवे तत्र ततः सौम्योऽभवत् सुतः
शक्तिर्ज्येष्ठः समभवद्वसिष्ठस्य महात्मनः। अरुन्धत्याः सुता यत्र शतमुत्तमतेजसः
कल्माषपादो नृपतिर्यत्र शप्तश्च शक्तिना। यत्र वैरं समभवद्विश्वामित्रवसिष्ठयोः
अदृश्यन्त्यां समभवन्मुनिर्यत्र पराशरः। पराभवो वसिष्ठस्य यस्मिन् जातेऽप्यवर्त्तत
तत्र ते ईजिरे सत्रं नैमिषे ब्रह्मवादिनः। नैमिषे ईजिरे यत्र नैमिषेयास्ततः स्मृताः
तत्सत्रमभवत्तेषां समा द्वादश धीमताम्। पुरूरवसि विक्रान्ते प्रशासति वसुन्धराम्
अष्टादश समुद्रस्य द्वीपानश्नन् पुरूरवाः। तुतोष नैव रत्नानां लोभादिति हि नः श्रुतम्
उर्वशी चकमे यं च देवहूतिप्रणोदिता। आजहार च तत्सत्रं स्वर्वेश्यासहसङ्गतः
तस्मिन्नरपतौ सत्रं नैमिषेयाः प्रचक्रिरे। यं गर्भे सुषुवे गङ्गा पावकाद्दीप्ततेजसम्। तदुल्बं पर्वते न्यस्तं हिरण्यं प्रत्यपद्यत
हिरण्मयं ततश्चक्रे यज्ञवाटं महात्मनाम्। विश्वकर्मा स्वयं देवो भावयन् लोकभावनम्
बृहस्पतिस्ततस्तत्र तेषाममिततेजसाम्। ऐलः पुरूरवा भेजे तं देशं मृगयां चरन्
तं दृष्ट्वा महदाश्चार्यं यज्ञवाटं हिरण्मयम्। लोभेन हतविज्ञानस्तदादातुं प्रचक्रमे
नैमिषेयास्ततस्तस्य चुक्रुधुर्नृपतेर्भृशम्। निजघ्नुश्चापि संक्रुद्धाः कुशवज्रैर्मनीषिणः। ततो निशान्ते राजानं मुनयो दैवनोदिताः
कुशवज्रैर्विनिष्पिष्टः स राजा व्यजहात्तनुम् । और्वशेयं ततस्तस्य पुत्रञ्चक्रुर्नृपं भुवि
नहुषस्य महात्मानं पितरं यं प्रचक्षते। स तेषु वर्त्तते सम्यग् धर्मशीलो महीपतिः। आयुरारोग्यमत्युग्रं तस्मिन् स नरसत्तमः
सान्त्वयित्वा च राजानं ततो ब्रह्मविदां वराः। सत्रमारेभिरे कर्त्तुं यथावद्धर्मभूतये
बभूव सत्रं तत्तेषां बह्वाश्चर्यं महात्मनाम्। विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव
वैखानसैः प्रियसखैर्वालखिल्यैर्मरीचिकैः। अन्यैश्च मुनिभिर्जुष्टं सूर्यवैश्वानरप्रभैः