सन्निपातः पुनस्तस्य यथा यज्ञे महर्षिभिः। दृष्ट्वा हिरण्मयं सर्वं यज्ञे वस्तु महात्मनाम्
तदा वै नैमिषेयाणां सत्रे द्वादशवार्षिके। यथा विवदमानस्तु ऐडः संस्थापितस्तु तैः
जनयित्वा त्वरण्यान्ते ऐडपुत्रं यथायुषम्। समापयित्वा तत्सत्रमायुषं पर्युपासते
एतत्सर्वं यथावृत्तं व्याख्यातं द्विजसत्तमाः। ऋषीणां परमं चात्र लोकतन्त्रमनुत्तमम्
ब्रह्मणा यत्पुरा प्रोक्तं पुराणं ज्ञानमुत्तमम्। अवतारश्च रुद्रस्य द्विजानुग्रहकारणात्
तथा पाशुपता योगाः स्थानानाञ्चैव कीर्त्तनम्। लिङ्गोद्भवस्य देवस्य नीलकण्ठत्वमेव च
कथ्यते यत्र विप्राणां वायुना ब्रह्मवादिना। धन्यं यशस्यमायुष्यं पुण्यं पापप्रणाशनम्। कीर्त्तनं श्रवणं चास्य धारणञ्च विशेषतः
अनेन हि क्रमेणेदं पुराणं संप्रचक्ष्यते। सुखमर्थः समासेन महानप्युपलभ्यते। तस्मात् किञ्चित्सुमुद्दिश्य पश्चाद्वक्ष्यामि विस्तरम्
पादमाद्यमिदं सम्यक् योऽधीयीत जितेन्द्रियः। तेनाधीतं पुराणं तत् सर्वं नास्त्यत्र संशयः
यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः। न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्। बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति
अभ्यसन्निममध्यायं साक्षात् प्रोक्तं स्वयम्भुवा। आपदं प्राप्य मुच्येत यथेष्टां प्राप्नुयाद्घतिम्
यस्मात् पुरा ह्यनतीदं पुराणं तेन तत् स्मृतम्। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते
नारायणः सर्वमिदं विश्वं व्याप्य प्रवर्त्तते। तस्यापि जगतः स्रष्टुः स्रष्टा देवो महेश्वरः
अतश्च संक्षेपमिमं श्रृणुध्वं महेश्वरः सर्वमिदं पुराणम्। स सर्गकाले च करोति सर्गान् संहारकाले पुनराददीत
शुक उवाच।। प्रत्यब्रुवन् पुनः सूतमृषयस्ते तपोधनाः। कुत्र सत्रं समभवत् तेषामद्भुतकर्मणाम्
कियन्तं चैव तत्कालं कथं च समवर्त्तत। आचचक्ष पुराणं च कथं तेभ्यः प्रभञ्चनः
आचक्ष्व विस्तरेणेदं परं कौतूहलं हि नः। इति सन्नोदितः सूतः प्रत्युवाच शुभं वचः
श्रृणुध्वं यत्र ते धीरा ईजिरे सत्रमुत्तमम्। यावन्तं चाभवत् कालं यथा च समवर्तत
सिसृक्षमाणा विश्वं हि यत्र विश्वसृजः पुरा। सत्रं हि ईजिरे पुण्यं सहस्रं परिवत्सरान्
तपो गृहपतिर्यत्र ब्रह्मा ब्रह्माऽभवत् स्वयम्। इलाया यत्र पत्नीत्वं शामित्रं यत्र बुद्धिमान्। मृत्युश्चक्रे महातेजास्तस्मिन् सत्रे महात्मनाम्
विबुधा ईजिरे तत्र सहस्रं प्रतिवत्सरान्। भ्रमतो धर्मचक्रस्य यत्र नेमिरशीर्यत। कर्मणा तेन विख्यात नैमिषं मुनिपूजितम्
यत्र सा गोमती पुण्या सिद्धचारण सेविता। रोहिणी सुषुवे तत्र ततः सौम्योऽभवत् सुतः
शक्तिर्ज्येष्ठः समभवद्वसिष्ठस्य महात्मनः। अरुन्धत्याः सुता यत्र शतमुत्तमतेजसः
कल्माषपादो नृपतिर्यत्र शप्तश्च शक्तिना। यत्र वैरं समभवद्विश्वामित्रवसिष्ठयोः
अदृश्यन्त्यां समभवन्मुनिर्यत्र पराशरः। पराभवो वसिष्ठस्य यस्मिन् जातेऽप्यवर्त्तत
तत्र ते ईजिरे सत्रं नैमिषे ब्रह्मवादिनः। नैमिषे ईजिरे यत्र नैमिषेयास्ततः स्मृताः
तत्सत्रमभवत्तेषां समा द्वादश धीमताम्। पुरूरवसि विक्रान्ते प्रशासति वसुन्धराम्
अष्टादश समुद्रस्य द्वीपानश्नन् पुरूरवाः। तुतोष नैव रत्नानां लोभादिति हि नः श्रुतम्
उर्वशी चकमे यं च देवहूतिप्रणोदिता। आजहार च तत्सत्रं स्वर्वेश्यासहसङ्गतः