उक्तं च विष्णुमाहात्म्यं विष्णोर्जन्मादिशब्दनम्। तुर्वसुः शुक्रदौहित्रो देवयान्यां यदोरभूत्। अनुर्द्रुह्युस्तथा पूरुर्ययातितनया नृपाः
अत्र वंश्या महात्मानस्तेषां पार्थिवसत्तमाः। कीर्त्यन्ते दीर्घयशसो भूरिद्रविणतेजसः
कुशिकस्य च विप्रर्षेः सम्यग्यो धर्मसंश्रयः। बार्हस्पत्यन्तु सुरभिर्यत्र शापमिहानुदत्
कीर्त्तनं जह्नुवंशस्य शन्तनोर्वीर्यशब्दनम्। भविष्यतां तथा राज्ञामुपसंहारशब्दनम्
अनागतानां सप्तानां मनूनां चोपवर्णनम्। भौमस्यान्ते कलियुगे क्षीणे संहारवर्णनम्
परार्द्धपरयोश्चैव लक्षणं परिकीर्त्त्यते। ब्रह्मणो योजनाग्रेण परिमाणविनिर्णयः
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिकः स्मृतः। त्रिविधः सर्व भूतानां कीर्त्त्यते प्रतिसञ्चरः
अनावृष्टिर्भास्कराच्च घोरः संवर्त्तकोऽनलः। मेघो ह्येकार्णवं वायुस्तथा रात्रिर्महात्मनः
संख्यालक्षणमुद्दिष्टं ततो ब्राह्मं विशेषतः। भूरादीनां च लोकानां सप्तानामुपवर्णनम्। कीर्त्त्यन्ते चात्र निरयाः पापानां रौरवादयः
ब्रह्मलोकोपरिष्टात्तु शिवस्य स्थानमुत्तमम्। यत्र संहारमायान्ति सर्वभूतानि संक्षये
सर्वेषां चैव सत्त्वानां परिणामविनिर्णयः। ब्रह्मणः प्रतिसंसर्गे सर्वसंहारवर्णनम्
अष्टरूप्यमतः प्रोक्तं प्राणस्याष्टकमेव च। गतिश्चोर्ध्वमधश्चोक्ता धर्माधर्मसमाश्रयात्
कल्पे कल्पे च भूतानां महतामपि संक्षयः। प्रसंख्याय च दुःखानि ब्रह्मणश्चाप्यनित्यता
दौरात्म्यं चैव भोगानां परिणामविनिर्णंयः। दुर्लभत्वं च मोक्षस्य वैराग्याद्दोषदर्शनम्
व्यक्ताव्यक्तं परित्यज्य सत्त्वं ब्रह्मणि संस्थितम्। नानात्वदर्शनाच्छुद्धं ततस्तदभिवर्त्तते
ततस्तापत्रयातीतो नीरूपाख्यो निरञ्जनः। आनन्दो ब्रह्मणः प्रोक्तो न बिभेति कुतश्चन
कीर्त्त्यते च पुनः सर्गो ब्रह्मणोऽन्यस्य पूर्ववत्। कीर्त्त्यते ऋषिवंशश्च सर्वपापप्रणाशनः
इति कृत्यसमुद्देशः पुराणस्योपवर्णितः। कीर्त्त्यन्ते जगतो ह्यत्र सर्वप्रलयविक्रियाः। प्रवृत्तयश्च भूतानां निवृत्तीनां फलानि च
प्रादुर्भावो वसिष्ठस्य शक्तेर्जन्म तथैव च। सौदासान्निग्रहस्तस्य विश्वामित्रकृतेन च
पराशरस्य चोत्पत्तिरदृश्यत्वं यथा विभोः। जज्ञे पितॄणां कन्यायां व्यासश्चापि यथा मुनिः
शुकस्य च तथा जन्म सह पुत्रस्य धीमतः। पराशरस्य प्रद्वेषो विश्वामित्रकृतो यथा
वसिष्ठसम्भृतश्चाग्निर्विश्वामित्रजिघांसया। सन्तानहेतोर्विभुना चीर्णः स्कन्देन धीमता। दैवेन विधिना विप्र विश्वामित्रहितैषिणा
एकं वेदञ्चतुष्पादञ्चतुर्द्धा पुनरीश्वरः। यथा बिभेद भगवान् व्यासः सर्वान् स्वबुद्धितः। तस्य शिष्यैः प्रशिष्यैश्च शाखा भेदाः पुनः कृताः
प्रयोगैः षड्गुणीयैश्च यथा पृष्टः स्वयम्भुवा। पृष्टेन चानुपृष्टास्ते मुनयो धर्मकाङ्क्षिणः
सुनाभं दिव्यरूपाख्यं सत्याङ्गं शुभविक्रमम्। अनौपम्यमिदञ्चक्रं वर्त्तमानमतन्द्रिताः। पृष्ठतो यात नियतास्ततः प्राप्स्यथ यद्धितम्
गच्छतो धर्मचक्रस्य यत्र नेमिर्विशीर्यते। पुण्यः स देशो मन्तव्य इत्युवाच तदा प्रभुः। उक्त्वा चैवमृषीन् ब्रह्मा ह्यदृश्यत्वमगात्पुनः
गङ्गागर्भसमाहारं नैमिषेयत्वमेव च। ईजिरे चैव सत्रेण मुनयो नैमिषे तदा। मृते शरद्वति तथा तस्य चोत्थापनं कृतम्
ऋषयो नैमिषेयास्तु श्रद्धया परया पुनः। निःसीमां गामिमां कृत्स्नां कृत्वा राजानमाहरन्। यथाविधि यथाशास्त्रं तमातिथ्यैरपूजयन्
प्रीतं तथा कृतातिथ्यं राजानं विधिवत्तदा। अन्तर्द्धानगतः क्रूरः स्वर्भानुरसुरोऽहरत्
अनुसस्रुर्हतं चापि नृपमैडं यथा पुरा। गन्धर्व सहितं दृष्ट्वा कलापग्रामवासिनम्