यदुवंशसमुद्देशो हैहयस्य च विस्तरः। क्रोष्टोरनन्तरं चोक्तस्तथा वंशस्य विस्तरः
ज्यामघस्य च माहात्म्यं प्रजासर्गश्च कीर्त्त्यते। देवावृधस्य त्वर्कस्य वृष्टेश्चैव महात्मनः
अत्रिमित्रान्वयश्चैव विष्णोर्द्दिव्याभिशंसनम्। विवस्वतोऽथ संप्राप्तिर्मणिरत्नस्य धीमतः
युधा जितः प्रजासर्गः कीर्त्त्यते च महात्मनः। कीर्त्त्यते चान्वयः श्रीमान् राजर्षेर्देवमीढुषः
पुनश्च जन्म चाप्युक्तं चरितञ्च महात्मनः। कंसस्यचापि दौरात्म्यमेकान्तेन समुद्भवः
वासुदेवस्य देवक्यां विष्णोर्ज्जन्म प्रजापतेः। विष्णोरनन्तरञ्चापि प्रजासर्गोपवर्णनम्
दैवासुरे समुत्पन्ने विष्णुना स्त्रीवधे कृते। संरक्षता शक्रवधं शापः प्राप्तः पुरा भृगोः। भृगुश्चोत्थापयामास दिव्यां शुक्रस्य मातरम्
देवानामसुराणां च संग्रामा द्वादशायुताः। नारसिंहप्रभृतयः कीर्त्त्यन्ते प्राणनाशनाः
शुक्रेणाराधनं स्थाणोर्धीरेण तपसा कृतम्। वरदानप्रलुब्धेन यत्र शर्वस्तवः कृतः। अनन्तरं विनिर्दिष्टं देवासुरविचेष्टितम्
जयन्त्या सह सक्ते तु यत्र शुक्रे महात्मनि। असुरान्मोहयामास शुक्ररूपेण बुद्धिमान्। बृहस्पतिस्तु तान् शुक्रः शशाप सुमहाद्युतिः
उक्तं च विष्णुमाहात्म्यं विष्णोर्जन्मादिशब्दनम्। तुर्वसुः शुक्रदौहित्रो देवयान्यां यदोरभूत्। अनुर्द्रुह्युस्तथा पूरुर्ययातितनया नृपाः
अत्र वंश्या महात्मानस्तेषां पार्थिवसत्तमाः। कीर्त्यन्ते दीर्घयशसो भूरिद्रविणतेजसः
कुशिकस्य च विप्रर्षेः सम्यग्यो धर्मसंश्रयः। बार्हस्पत्यन्तु सुरभिर्यत्र शापमिहानुदत्
कीर्त्तनं जह्नुवंशस्य शन्तनोर्वीर्यशब्दनम्। भविष्यतां तथा राज्ञामुपसंहारशब्दनम्
अनागतानां सप्तानां मनूनां चोपवर्णनम्। भौमस्यान्ते कलियुगे क्षीणे संहारवर्णनम्
परार्द्धपरयोश्चैव लक्षणं परिकीर्त्त्यते। ब्रह्मणो योजनाग्रेण परिमाणविनिर्णयः
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिकः स्मृतः। त्रिविधः सर्व भूतानां कीर्त्त्यते प्रतिसञ्चरः
अनावृष्टिर्भास्कराच्च घोरः संवर्त्तकोऽनलः। मेघो ह्येकार्णवं वायुस्तथा रात्रिर्महात्मनः
संख्यालक्षणमुद्दिष्टं ततो ब्राह्मं विशेषतः। भूरादीनां च लोकानां सप्तानामुपवर्णनम्। कीर्त्त्यन्ते चात्र निरयाः पापानां रौरवादयः
ब्रह्मलोकोपरिष्टात्तु शिवस्य स्थानमुत्तमम्। यत्र संहारमायान्ति सर्वभूतानि संक्षये
सर्वेषां चैव सत्त्वानां परिणामविनिर्णयः। ब्रह्मणः प्रतिसंसर्गे सर्वसंहारवर्णनम्
अष्टरूप्यमतः प्रोक्तं प्राणस्याष्टकमेव च। गतिश्चोर्ध्वमधश्चोक्ता धर्माधर्मसमाश्रयात्
कल्पे कल्पे च भूतानां महतामपि संक्षयः। प्रसंख्याय च दुःखानि ब्रह्मणश्चाप्यनित्यता
दौरात्म्यं चैव भोगानां परिणामविनिर्णंयः। दुर्लभत्वं च मोक्षस्य वैराग्याद्दोषदर्शनम्
व्यक्ताव्यक्तं परित्यज्य सत्त्वं ब्रह्मणि संस्थितम्। नानात्वदर्शनाच्छुद्धं ततस्तदभिवर्त्तते
ततस्तापत्रयातीतो नीरूपाख्यो निरञ्जनः। आनन्दो ब्रह्मणः प्रोक्तो न बिभेति कुतश्चन
कीर्त्त्यते च पुनः सर्गो ब्रह्मणोऽन्यस्य पूर्ववत्। कीर्त्त्यते ऋषिवंशश्च सर्वपापप्रणाशनः
इति कृत्यसमुद्देशः पुराणस्योपवर्णितः। कीर्त्त्यन्ते जगतो ह्यत्र सर्वप्रलयविक्रियाः। प्रवृत्तयश्च भूतानां निवृत्तीनां फलानि च
प्रादुर्भावो वसिष्ठस्य शक्तेर्जन्म तथैव च। सौदासान्निग्रहस्तस्य विश्वामित्रकृतेन च
पराशरस्य चोत्पत्तिरदृश्यत्वं यथा विभोः। जज्ञे पितॄणां कन्यायां व्यासश्चापि यथा मुनिः