ईशत्वाच्च यथा शप्ता जाता देवाः स्वयम्भुवा। मरुत्प्रसादो मरुतां दित्या देवांशसम्भवाः
कीर्त्त्यन्ते मरुताञ्चाथ गणास्ते सप्तसप्तकाः। देवत्वं पितृवाक्येन वायुस्कन्धेन चाश्रयः
दैत्यानां दानवानाञ्च गन्धर्वोरगरक्षसाम्। सर्वभूतपिशाचानां पशूनां पक्षिवीरुधाम्। उत्पत्तयश्चाप्सरसां कीर्त्त्यन्ते बहुविस्तरात्
समुद्रसंयोगकृतं जन्मैरावतहस्तिनः। वैनतेयसमुत्पत्तिस्तथा चास्याभिषेचनम्
भृगूणां विस्तरश्चोक्तस्तथा चाङ्गिरसामपि। कश्यपस्य पुलस्त्यस्य तथैवात्रेर्म्महात्मनः
पराशरस्य च मुनेः प्रजानां यत्र विस्तरः। देवतानामृषीणाञ्च प्रजोत्पत्तिस्ततः परम्
तिस्रः कन्याः प्रकीर्त्त्यन्ते यासु लोकाः प्रतिष्ठिताः। पितृदौहित्रनिर्द्देशो देवानां जन्म चोच्यते
विस्तरस्ते भगवतः पञ्चानां सुमहात्मनाम्। इलाया विस्तरश्चोक्त आदित्यस्य ततः परम्
विकुक्षिचरितञ्चोक्तं धुन्धोश्चैव निबर्हणम्। बृहद्बलान्तसंक्षेपादिक्ष्वाक्वाद्याः प्रकीर्त्तिताः
निम्यादीनां क्षितीशानां यावज्जहुगणादिति। कीर्त्त्यते विस्तरो यश्च ययातेरपि भूपतेः
यदुवंशसमुद्देशो हैहयस्य च विस्तरः। क्रोष्टोरनन्तरं चोक्तस्तथा वंशस्य विस्तरः
ज्यामघस्य च माहात्म्यं प्रजासर्गश्च कीर्त्त्यते। देवावृधस्य त्वर्कस्य वृष्टेश्चैव महात्मनः
अत्रिमित्रान्वयश्चैव विष्णोर्द्दिव्याभिशंसनम्। विवस्वतोऽथ संप्राप्तिर्मणिरत्नस्य धीमतः
युधा जितः प्रजासर्गः कीर्त्त्यते च महात्मनः। कीर्त्त्यते चान्वयः श्रीमान् राजर्षेर्देवमीढुषः
पुनश्च जन्म चाप्युक्तं चरितञ्च महात्मनः। कंसस्यचापि दौरात्म्यमेकान्तेन समुद्भवः
वासुदेवस्य देवक्यां विष्णोर्ज्जन्म प्रजापतेः। विष्णोरनन्तरञ्चापि प्रजासर्गोपवर्णनम्
दैवासुरे समुत्पन्ने विष्णुना स्त्रीवधे कृते। संरक्षता शक्रवधं शापः प्राप्तः पुरा भृगोः। भृगुश्चोत्थापयामास दिव्यां शुक्रस्य मातरम्
देवानामसुराणां च संग्रामा द्वादशायुताः। नारसिंहप्रभृतयः कीर्त्त्यन्ते प्राणनाशनाः
शुक्रेणाराधनं स्थाणोर्धीरेण तपसा कृतम्। वरदानप्रलुब्धेन यत्र शर्वस्तवः कृतः। अनन्तरं विनिर्दिष्टं देवासुरविचेष्टितम्
जयन्त्या सह सक्ते तु यत्र शुक्रे महात्मनि। असुरान्मोहयामास शुक्ररूपेण बुद्धिमान्। बृहस्पतिस्तु तान् शुक्रः शशाप सुमहाद्युतिः
उक्तं च विष्णुमाहात्म्यं विष्णोर्जन्मादिशब्दनम्। तुर्वसुः शुक्रदौहित्रो देवयान्यां यदोरभूत्। अनुर्द्रुह्युस्तथा पूरुर्ययातितनया नृपाः
अत्र वंश्या महात्मानस्तेषां पार्थिवसत्तमाः। कीर्त्यन्ते दीर्घयशसो भूरिद्रविणतेजसः
कुशिकस्य च विप्रर्षेः सम्यग्यो धर्मसंश्रयः। बार्हस्पत्यन्तु सुरभिर्यत्र शापमिहानुदत्
कीर्त्तनं जह्नुवंशस्य शन्तनोर्वीर्यशब्दनम्। भविष्यतां तथा राज्ञामुपसंहारशब्दनम्
अनागतानां सप्तानां मनूनां चोपवर्णनम्। भौमस्यान्ते कलियुगे क्षीणे संहारवर्णनम्
परार्द्धपरयोश्चैव लक्षणं परिकीर्त्त्यते। ब्रह्मणो योजनाग्रेण परिमाणविनिर्णयः
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिकः स्मृतः। त्रिविधः सर्व भूतानां कीर्त्त्यते प्रतिसञ्चरः
अनावृष्टिर्भास्कराच्च घोरः संवर्त्तकोऽनलः। मेघो ह्येकार्णवं वायुस्तथा रात्रिर्महात्मनः
संख्यालक्षणमुद्दिष्टं ततो ब्राह्मं विशेषतः। भूरादीनां च लोकानां सप्तानामुपवर्णनम्। कीर्त्त्यन्ते चात्र निरयाः पापानां रौरवादयः
ब्रह्मलोकोपरिष्टात्तु शिवस्य स्थानमुत्तमम्। यत्र संहारमायान्ति सर्वभूतानि संक्षये