अपां सारमयस्येन्दोः कीर्त्यते च रथस्तथा। वृद्धिक्षयौ च सौमस्य कीर्त्त्येते सूर्यकारितौ
सूर्यादीनां स्यन्दनानां ध्रुवादेव प्रकीर्त्तनम्। कीर्त्त्यते शिशुमारश्च यस्य पुच्छे ध्रुवः स्थितः
तारारूपाणि सर्वाणि नक्षत्राणि ग्रहैः सह। निवासा यत्र कीर्त्त्यन्ते देवानां पुण्यकारिणाम्
सूर्यरश्मिसहस्रे च वर्षशीतोष्णनिःस्रवः। प्रविभागश्च रश्मीनां नामतः कर्मतोऽर्थतः
परिमाणगती चोक्ते ग्रहाणां सूर्यसंश्रयात्। यथा चाशु विषात् प्राप्ता शम्भोः कण्ठस्य नीलता
ब्रह्मप्रसादितस्याशु विषादः शूलपाणिनः। स्तूयमानः सुरैर्विष्णुः स्तौति देवं महेश्वरम्
लिङ्गोद्भवकथा पुण्या सर्वपापप्रणाशिनी। विश्वरूपात् प्रधानस्य परिणामोऽयमद्भुतः
पुरूरवस ऐलस्य माहात्म्यानुप्रकीर्त्तनम्। पितॄणां द्विप्रकाराणां तर्पणं चामृतस्य वै
ततः पर्वाणि कीर्त्त्यन्ते पर्वणाञ्चैव सन्धयः। स्वर्ग लोकगतानां च प्राप्तानाञ्चाप्यधोगतिम्। पितॄणां द्विप्रकाराणां श्राद्धेनानुग्रहो महान्
युगसंख्याप्रमाणं च कीर्त्यते च कृते युगे। त्रेतायुगे चापकर्षाद्वार्तायाः संप्रवर्त्तनम्
वर्णानामाश्रमाणाञ्च संख्यानञ्च प्रवर्त्तनम्। वर्णानामाश्रमाणाञ्च संस्थितिर्धर्मतस्तथा
यज्ञप्रवर्त्तनञ्चैव संवादो यत्र कीर्त्यते। ऋषीणां वसुना सार्द्धं वसोश्चाधः पुनर्गतिः
प्रश्नानां दुर्वचत्वं च स्वायम्भुवमृते मनुम्। प्रशंसा तपसश्चोक्ता युगावस्थाश्च कृत्स्नशः। द्वापरस्य कलेश्चात्र सङ्क्षेपेण प्रकीर्तनम्
देवतिर्यङ्मनुष्याणां प्रमाणानि युगेयुगे। कीर्त्यन्ते युगसामर्थ्यात् परिणाहोच्छ्रयायुषः
शिष्टादीनां च निर्देशः प्रादुर्भावश्च कीर्त्यते। वेदस्य तद्विजातानां मंत्राणां च प्रकीर्तनम्
शाखानां परिमाणं च वेदव्यासादिशब्दनम्। मन्वन्तराणां संहारः संहारान्ते च सम्भवः
देवतानामृषीणां च मनोः पितृगणस्य च। न शक्यं विस्तराद्वक्तुमित्युक्तं च समासतः
मन्वन्तरस्य संख्या च मानुषेण प्रकीर्तिता। मन्वन्तराणां सर्वेषामेतदेव च लक्षणम्
अतीतानागतानां च वर्त्तमानेन कीर्त्त्यते। तथा मन्वन्तराणां च प्रतिसन्धानलक्षणम्
अतीतानागतानां च प्रोक्तं स्वायम्भुवेऽन्तरे। मन्वन्तरत्रयं चैव कालज्ञानं च कीर्त्त्यते
मन्वन्तरेषु देवानां प्रजेशानां च कीर्त्तनम्। दक्षस्य चापि दौहित्राः प्रियाया दुहितुः सुताः
सावर्णाद्याश्च कीर्त्त्यन्ते मनवो मेरुमाश्रिताः। ध्रुवस्योत्तानपादस्य प्रजासर्गोपवर्णनम्
पृथुनापि च वैन्येन भूमेर्द्दोहप्रवर्त्तनम्। पात्राणां पयसां चैव वंशानां च विशेषणम्। ब्रह्मादिभिः पूर्वमेव दुग्धा चेयं वसुन्धरा
दशभ्यस्तु प्रचेतेभ्यो मारिषायां प्रजापतेः। दक्षस्य कीर्त्त्यते जन्म सोमस्यांशेन धीमतः
भूतभव्यभवेशत्वं महेन्द्राणां च कीर्त्त्यते। मन्वादिका भविष्यन्ति आख्यानैर्बहुभिर्वृताः
वैवस्वतस्य च मनोः कीर्त्त्यते सर्गविस्तरः। देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम्। ब्रह्मशुक्रात् समुत्पत्तिर्भृग्वादीनां च कीर्त्यते
विनिवृत्ते प्रजासर्गे चाक्षुषस्य मनोः शुभे। दक्षस्य कीर्त्त्यते सर्गो ध्यानाद्वैवस्वतैऽन्तरे
नाशयामास शापाय आत्मनो ब्रह्मणः सुतः
ततो दक्षोऽसृजत् कन्या वीरिण्यामेव विश्रुताः। कीर्त्त्यते धर्मसर्गश्च काश्यपस्य च धीमतः
अत ऊर्ध्वं ब्रह्मणश्च विष्णोश्चैव भवस्य च। एकत्वं च पृथक्त्वं च विशेषत्वं च कीर्त्यते