रुचेः प्रजापतेश्चोर्द्वमाकूत्यां मितुनोद्भवः। प्रसूत्यामपि दक्षस्य कन्यानां प्रभवस्ततः
दाक्षायणीषु चाप्यूर्द्ध्वं श्रद्धाद्यासु महात्मनाम्। धर्मस्य कीर्त्त्यते सर्गः सात्त्विकस्य सुखोदयः
तथाऽधर्म्मस्य हिंसायां तामसोऽशुभलक्षणः। महेश्वरस्य सत्याञ्च प्रजासर्गः प्रकीर्तितः
निरामयञ्च ब्रह्माणं तादृशं कीर्त्तितं पुनः। योगं योगनिधिः प्राह द्विजानां मुक्तिकांक्षिणाम्
अवतारश्च रुद्रस्य महाभाग्यं तथैव च। त्रैवेदिकां कथाञ्चापि संवादः परमो महान्
ब्रह्मनारायणाभ्याञ्च यत्र स्तोत्रं प्रकीर्त्तितम्। स्तुतस्ताभ्यां स देवेशस्तुतोष भगवान् शिवः
प्रादुर्भावोऽथ रुद्रस्य ब्रह्मणोऽङ्गे महात्मनः। कीर्त्त्यते नाम हेतुश्च यथाऽरोदीन्महामनाः
रुद्रादीनि यथा ह्यष्टौ नामान्याप्नोत् स्वयम्भुवः। यथा च तैर्व्याप्रतमिदं त्रैलोक्यं सचराचरम्
भृग्वादीनामृषीणाञ्च प्रजासर्गोपवर्णनम्। वसिष्ठस्य च ब्रह्मर्षेर्यत्र गोत्रानुकीर्त्तनम्
अग्नेः प्रजायाः सम्भूतिः स्वाहायां यत्र कीर्त्तिता। पितॄणां द्विप्रकाराणां स्वधायास्तदनन्तरम्
पितृवंशप्रसङ्गेन कीर्त्यते च महेश्वरात्। दक्षस्य शापः सत्यर्थे भृग्वादीनाञ्च धीमताम्
प्रतिशापश्च रुद्रस्य दक्षादद्भुतकर्मणः। प्रतिषेधश्च वैरस्य कीर्त्यते यत्र विस्तरात्
तेषां नियोगो द्वीपेषु देशेषु च पृथक् पृथक्। स्वायम्भुवस्य सर्गस्य ततश्चाप्यनुकीर्त्तनम्
उक्तो नाभेर्निसर्गश्च रजसश्च महात्मनः। द्वीपानां ससमुद्राणां पर्वतानाञ्च कीर्त्तनम्
वर्षाणाञ्च नदीनाञ्च तद्भेदानाञ्च सर्वशः। द्वीपभेदसहस्राणामन्तर्भेदश्च सप्तसु
विस्तरान् मण्डलाच्चैव जम्बूद्वीपसमुद्रयोः। प्रमाणं योजनाग्रेण कीर्त्त्यते पर्वतैः सह
हिमवान् हेमकूटस्तु निषधो मेरुरेव च। नीलः श्वेतः शृङ्गवांश्च कीर्त्त्यन्ते वर्षपर्वताः
तेषामन्तरविष्कम्भा उच्छ्रायायामविस्तराः। कीर्त्त्यन्ते योजनाग्रेण ये च तत्र निवासिनः
भारतादीनि वर्षाणि नदीभिः पर्वतैस्तथा। भूतैश्चोपनिविष्टानि गतिमद्भिर्ध्रुवैस्तथा
जम्बूद्वीपादयो द्वीपाः समुद्रैः सप्तभिर्वृताः। ततश्चाप्यम्मयी भूमिर्लोकालोकश्च कीर्त्त्यते
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी। भूरादयश्च कीर्त्त्यन्ते वरणैः प्राकृतैः सह
सर्वञ्च तत्प्रधानस्य परिमाणैकदेशिकम्। सव्यासपरिमाणञ्च संक्षेपेणैव कीर्त्त्यते
सूर्याचन्द्रमसोश्चैव पृथिव्याश्चाप्यशेषतः। प्रमाणं योजनाग्रेण साम्प्रतैरभिमानिभिः। महेन्द्राद्याः सभाः पुण्या मानसोत्तरमूर्द्धनि
अत ऊर्द्ध्वं गतिश्चोक्ता स्वर्गस्यालातचक्रवत्। नागवीथ्यजवीथ्योश्च लक्षणं परिकीर्त्त्यते
काष्ठयोर्लेखयोश्चैव मण्डलानाञ्च योजनैः। लोकालोकस्य सन्ध्याया अह्नो विषुवतस्तथा
लोकपालाः स्थिताश्चोर्द्ध्वं कीर्त्त्यन्ते ये चतुर्दिशम्। पित्रूणां देवतानां च पन्थानौ दक्षिणोत्तरौ
गृहिणां न्यासिनाञ्चोक्तौ रजःसत्त्वसमाश्रयात्। कीर्त्त्यते च पदं विष्णोर्धर्माद्या यत्र धिष्ठिताः
सूर्याचन्द्रमसोश्चारो ग्रहाणां ज्योतिषां तथा। कीर्त्त्यते ध्रुवसामर्थ्यात् प्रजानां च शुभाशुभम्
ब्रह्मणा निर्मितः सौरः स्यन्दनोऽर्थवशात् स्वयम्। कीर्त्त्यते भगवान् येन प्रसर्पति दिवि स्वयम्
स रथोऽधिष्ठितो देवैरादित्यैः ऋषिभिस्तथा। गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः