पुराणं सम्प्रवक्ष्यामि यदुक्तं मातरिश्वना। पृष्टेन मुनिभिः पूर्वं नैमिषीयैर्महात्मभिः
महेश्वरः परोऽव्यक्तश्चतुर्बाहुश्चतुर्मुखः। अचिन्त्यश्चाप्रमेयश्च स्वयम्भूर्हेतुरीश्वरः
अव्यक्तं कारणं यद्यन्नित्यं सदसदात्मकम्। महदादिविशेषान्तं सृजतीति विनिश्चयः
अण्डं हिरण्मयञ्चैव बभूवाप्रतिमं ततः। अण्डस्यावरणञ्चाद्भिरपामपि च तेजसा
वायुना तस्य नभसा नभो भूतादिना वृतम्। भूतादिर्महता चैव अव्यक्तेनावृतो महान्
अतोऽत्र विश्वदेवानामृषीणाञ्चोपवर्णितम्। नदीनां पर्वतानाञ्च प्रादुर्भावोऽत्र शस्यते
मन्वन्तराणां सर्वेषां कल्पानाञ्चोपवर्णनम्। कीर्त्तनं ब्रह्मक्षत्रस्य ब्रह्म जन्म च कीर्त्त्यते
अतो ब्रह्मणि स्रष्टृत्वं प्रजासर्गोपवर्णनम्। अवस्थाश्चात्र कीर्त्त्यन्ते ब्रह्मणोऽव्यक्तजन्मनः
कल्पानां वत्सराश्चैव जगतः स्थापनन्तथा। शयनञ्च हरेरत्र पृथिव्युद्धरणन्तथा
सन्निवेशः पुरादीनां वर्णाश्रमविभागशः। वृक्षाणां गृहसंस्थानां सिद्धानाञ्चविनाशनम्
योजनानां पथाञ्चैव सञ्चरो बहुविस्तरः। स्वर्गे स्थानविभागश्च मर्त्त्यानां भुविचारिणाम्
वृक्षाणामोषधीनाञ्च वीरुधाञ्च प्रकीर्त्तनम्। वृक्षनारकिकीटत्वं मर्त्त्यानां परिकीर्त्तितम्
देवतानामृषीणाञ्च द्वे सृती परिकीर्त्तिते। अन्नादीनां तनूनाञ्च सर्जनन्त्यजनन्तथा
प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम्। अनन्तरञ्च वक्रेभ्यो वेदास्तस्य विनिःसृताः
अङ्गानि धर्मशास्त्रञ्च व्रतानि नियमास्तथा। पशूनां पुरुषाणाञ्च सम्भवः परिकीर्तितः
तथा निर्वचनं प्रोक्तं कल्पस्य च परिग्रहः। नव सर्गाः पुनः प्रोक्ता ब्रह्मणो बुद्धिपूर्वकाः
त्रयोऽन्ये बुद्धिपूर्वास्तु ततो लोकानकल्पयत्। ब्रह्मणोऽवयवेभ्यश्च धर्मादीनां समुद्भवः
ये द्वादश प्रसूयन्ते प्रजाः कल्पे पुनः पुनः। कल्पयोरन्तरं प्रोक्तं प्रतिसन्धिश्च यस्तयोः
तमोमात्रावृतत्वाच्च ब्रह्मणोऽधर्मसम्भवः। तथैव शतरूपायाः सम्भवश्च ततः परम्
प्रियव्रतोत्तानपादौ प्रसूत्याकूतयश्च ताः। कीर्त्त्यन्ते धूतपाप्मानो येषु लोकाः प्रतिष्ठिताः
रुचेः प्रजापतेश्चोर्द्वमाकूत्यां मितुनोद्भवः। प्रसूत्यामपि दक्षस्य कन्यानां प्रभवस्ततः
दाक्षायणीषु चाप्यूर्द्ध्वं श्रद्धाद्यासु महात्मनाम्। धर्मस्य कीर्त्त्यते सर्गः सात्त्विकस्य सुखोदयः
तथाऽधर्म्मस्य हिंसायां तामसोऽशुभलक्षणः। महेश्वरस्य सत्याञ्च प्रजासर्गः प्रकीर्तितः
निरामयञ्च ब्रह्माणं तादृशं कीर्त्तितं पुनः। योगं योगनिधिः प्राह द्विजानां मुक्तिकांक्षिणाम्
अवतारश्च रुद्रस्य महाभाग्यं तथैव च। त्रैवेदिकां कथाञ्चापि संवादः परमो महान्
ब्रह्मनारायणाभ्याञ्च यत्र स्तोत्रं प्रकीर्त्तितम्। स्तुतस्ताभ्यां स देवेशस्तुतोष भगवान् शिवः
प्रादुर्भावोऽथ रुद्रस्य ब्रह्मणोऽङ्गे महात्मनः। कीर्त्त्यते नाम हेतुश्च यथाऽरोदीन्महामनाः
रुद्रादीनि यथा ह्यष्टौ नामान्याप्नोत् स्वयम्भुवः। यथा च तैर्व्याप्रतमिदं त्रैलोक्यं सचराचरम्
भृग्वादीनामृषीणाञ्च प्रजासर्गोपवर्णनम्। वसिष्ठस्य च ब्रह्मर्षेर्यत्र गोत्रानुकीर्त्तनम्
अग्नेः प्रजायाः सम्भूतिः स्वाहायां यत्र कीर्त्तिता। पितॄणां द्विप्रकाराणां स्वधायास्तदनन्तरम्