त्वया सूत महाबुद्धिर्भगवान् ब्रह्मवित्तमः। इतिहासपुराणार्थं व्यासः सम्यगुपासितः। दुदोह वै मतिं तस्य त्वं पुराणाश्रयां कथाम्
एषाञ्च ऋषिमुख्यानां पुराणं प्रति धीमताम्। शुश्रूषास्ति महाबुद्धे तच्छ्रावयितुमर्हसि
सर्वे हीमे महात्मानो नाना गोत्राः समागताः। स्वान् स्वान् वंशान् पुराणैस्तु श्रृणुयुर्ब्रह्मवादिनः
सपुत्रान् दीर्घसत्रेऽस्मिञ्छ्रवयेथा मुनीनथ। दीक्षिष्यमाणैरस्माभि स्तेन प्रागसि संस्मृतः
इति सन्नोदितः सूतस्तैरेव मुनिभिः पुरा। पुराणार्थं पुराणज्ञैः सत्यव्रतपरायणैः
स्वधर्म एष सूतस्य सद्भिर्दृष्टः पुरातनैः। देवतानामृषीणाञ्च राज्ञाञ्चामिततेजसाम्
वंशानां धारणं कार्यं श्रुतानाञ्च महात्मनाम्। इतिहासपुराणेषु दिष्टा ये ब्रह्मवादिभिः
न हि वेदेष्वधिकारः कश्वित् सूतस्य दृश्यते। वैन्यस्य हि पृथोर्यज्ञे वर्त्तमाने महात्मनः। सुत्यायामभवत् सूतः प्रथमं वर्णवैकृतः
ऐन्द्रेण हविषा तत्र हविः पृक्तं बृहस्पतेः। जुहावेन्द्राय देवाय ततः सूतो व्यजायत। प्रमादात्तत्र सञ्जज्ञे प्रायश्चित्तञ्च कर्मसु
शिष्यहव्येन यत् पृक्तमभिभूतं गुरोर्हविः। अधरोत्तरचारेण जज्ञे तद्वर्णवैकृतः
यच्च क्षत्रात् समभवद्ब्राह्मणाऽवरयोनितः। ततः पूर्वेण साधर्म्यात्तुल्यधर्मा प्रकीर्त्तितः
मध्यमो ह्येष सूतस्य धर्मः क्षत्रोपजीवनम्। रथनागाश्वचरितं जघन्यञ्च चिकित्सितम्
तत् स्वधर्ममहं पृष्टो भवद्भिर्ब्रह्मवादिभिः। कस्मात् सम्यङ्न विब्रूयां पुराणमृषिपूजितम्
पितॄणां मानसी कन्या वासवी समपद्यत। अपध्याता च पितृभिर्मत्स्ययोनौ बभूव सा
अरणीव हुताशस्य निमित्तं यस्य जन्मनः। तस्यां जातो महायोगी व्यासो वेदविदां वरः
तस्मै भगवते कृत्वा नमो व्यासाय वेधसे।। पुरुषाय पुराणाय भृगुवाक्यप्रवर्त्तिने। मानुषच्छद्मरूपाय विष्णवे प्रभविष्णवे
जातमात्रञ्च यं वेद उपतस्थे ससङ्ग्रहः। धर्ममेव पुरस्कृत्य जातूकर्णादवाप तम्
मतिं मन्थानमाविध्य येनासौ श्रुतिसागरात्। प्रकाशं जनितो लोके महाभारतचन्द्रमाः
वेदद्रुमश्च यं प्राप्य सशाखः समपद्यत। भूमिकालगुणान् प्राप्य बहुशाखो यथा द्रुमः
तस्मादहमुपश्रुत्य पुराणं ब्रह्मवादिनः। सर्वज्ञात्सर्ववेदेषु पूजिताद्दीप्ततेजसः
पुराणं सम्प्रवक्ष्यामि यदुक्तं मातरिश्वना। पृष्टेन मुनिभिः पूर्वं नैमिषीयैर्महात्मभिः
महेश्वरः परोऽव्यक्तश्चतुर्बाहुश्चतुर्मुखः। अचिन्त्यश्चाप्रमेयश्च स्वयम्भूर्हेतुरीश्वरः
अव्यक्तं कारणं यद्यन्नित्यं सदसदात्मकम्। महदादिविशेषान्तं सृजतीति विनिश्चयः
अण्डं हिरण्मयञ्चैव बभूवाप्रतिमं ततः। अण्डस्यावरणञ्चाद्भिरपामपि च तेजसा
वायुना तस्य नभसा नभो भूतादिना वृतम्। भूतादिर्महता चैव अव्यक्तेनावृतो महान्
अतोऽत्र विश्वदेवानामृषीणाञ्चोपवर्णितम्। नदीनां पर्वतानाञ्च प्रादुर्भावोऽत्र शस्यते
मन्वन्तराणां सर्वेषां कल्पानाञ्चोपवर्णनम्। कीर्त्तनं ब्रह्मक्षत्रस्य ब्रह्म जन्म च कीर्त्त्यते
अतो ब्रह्मणि स्रष्टृत्वं प्रजासर्गोपवर्णनम्। अवस्थाश्चात्र कीर्त्त्यन्ते ब्रह्मणोऽव्यक्तजन्मनः
कल्पानां वत्सराश्चैव जगतः स्थापनन्तथा। शयनञ्च हरेरत्र पृथिव्युद्धरणन्तथा
सन्निवेशः पुरादीनां वर्णाश्रमविभागशः। वृक्षाणां गृहसंस्थानां सिद्धानाञ्चविनाशनम्