श्रीगणेशाय नमः ।। नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम्। देवीं सरस्वतीं चैव ततो जयमुदीरयेत्।। जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः। यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति।। प्रपद्ये देवमीशानं शाश्वतं ध्रुवमव्ययम्। महादेवं महात्मानं सर्वस्य जगतः पतिम्
ब्रह्माणं लोककर्त्तारं सर्वज्ञमपराजितम्। प्रभुं भूतभविष्यस्य साम्प्रतस्य च सत्पतिम्
ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः। ऐश्वर्यञ्चैव धर्मश्च सहसिद्धिचतुष्टयः
य इमान् पश्यते भावान्नित्यं सदसदात्मकान्। आविशन्ति पुनस्तं वै क्रियाभावार्थमीश्वरम्
लोककृल्लोकतत्त्वज्ञो योगमास्थाय तत्त्ववित्। असृजत् सर्वभूतानि स्थावराणि चराणि च
तमजं विश्वकर्माणं चित्पतिं लोकसाक्षिणम्। पुराणाख्यानजिज्ञासुर्व्रजामि शरणं प्रभुम्
ब्रह्मवायुमहेन्द्रेभ्यो नमस्कृत्य समाहितः। ऋषीणाञ्च वरिष्ठाय वसिष्ठाय महात्मने
तन्नप्त्त्रे चातियशसे जातूकर्णाय चर्षये। वसिष्ठाय च शुचये कृष्णद्वैपायनाय च
पुराणं सम्प्रवक्ष्यामि ब्रह्मोक्तं वेदसम्मितम्। धर्मार्थन्यायसंयुक्तैरागमैः सुविभूषितम्
असीमकृष्णे विक्रान्ते राजन्येऽनुपमत्विषि। प्रशासतीमां धर्मेण भूमिं भूमिपसत्तमे
ऋषयः संशितात्मानः सत्यव्रतपरायणाः। ऋजवो नष्टरजसः शान्ता दान्ता जितेन्द्रियाः
धर्मक्षेत्रे कुरुक्षेत्रे दीर्घसत्रन्तु ईजिरे। नद्यास्तीरे दृषद्वत्याः पुण्यायाः शुचिरोधसः। दीक्षितास्ते यथाशास्त्रं नैमिषारण्यगोचराः
द्रष्टुं तान् स महाबुद्धिः सूतः पौराणिकोत्तमः। लोमानि हर्षयाञ्चक्रे श्रोत्रूणां यत् सुभाषितैः। कर्मणा प्रथितस्तेन लोकेऽस्मिँल्लोमहर्षणः
तपःश्रुताचारनिधेर्वेदव्यासस्य धीमतः। शिष्यो बभूव मेधावी त्रिषु लोकेषु विश्रुतः
पुराण वेदो ह्यखिलो यस्मिन् सम्यक् प्रतिष्ठितः। भारती चैव विपुला महाभारतवर्द्धिनी
धर्मार्थकाममोक्षार्थाः कथा यस्मिन् प्रतिष्ठिताः। सूक्ताः सुपरिभाषाश्च भूमावोषधयो यथा
स तान् न्यायेन सुधियो न्यायविन्मुनिपुङ्गवान्। अभिगम्योपसंसृत्य नमस्कृत्य कृताञ्जलिः। तोषयामास मेधावी प्रणिपातेन तानृषीन्
ते चापि सर्त्रिणः प्रीताः ससदस्या महौजसः। तस्मै साम च पूजाञ्च यथावत् प्रतिपेदिरे
अथ तेषां पुराणस्य शुश्रूषा समपद्यत। दृष्ट्वा तमातिविश्वस्तं विद्वांसं लोमहर्षणम्
तस्मिन् सत्रे गृहपतिः सर्वशास्त्रविशारदः। इङ्गितैर्भावमालक्ष्य तेषां सूतमनोदयत्
त्वया सूत महाबुद्धिर्भगवान् ब्रह्मवित्तमः। इतिहासपुराणार्थं व्यासः सम्यगुपासितः। दुदोह वै मतिं तस्य त्वं पुराणाश्रयां कथाम्
एषाञ्च ऋषिमुख्यानां पुराणं प्रति धीमताम्। शुश्रूषास्ति महाबुद्धे तच्छ्रावयितुमर्हसि
सर्वे हीमे महात्मानो नाना गोत्राः समागताः। स्वान् स्वान् वंशान् पुराणैस्तु श्रृणुयुर्ब्रह्मवादिनः
सपुत्रान् दीर्घसत्रेऽस्मिञ्छ्रवयेथा मुनीनथ। दीक्षिष्यमाणैरस्माभि स्तेन प्रागसि संस्मृतः
इति सन्नोदितः सूतस्तैरेव मुनिभिः पुरा। पुराणार्थं पुराणज्ञैः सत्यव्रतपरायणैः
स्वधर्म एष सूतस्य सद्भिर्दृष्टः पुरातनैः। देवतानामृषीणाञ्च राज्ञाञ्चामिततेजसाम्
वंशानां धारणं कार्यं श्रुतानाञ्च महात्मनाम्। इतिहासपुराणेषु दिष्टा ये ब्रह्मवादिभिः
न हि वेदेष्वधिकारः कश्वित् सूतस्य दृश्यते। वैन्यस्य हि पृथोर्यज्ञे वर्त्तमाने महात्मनः। सुत्यायामभवत् सूतः प्रथमं वर्णवैकृतः
ऐन्द्रेण हविषा तत्र हविः पृक्तं बृहस्पतेः। जुहावेन्द्राय देवाय ततः सूतो व्यजायत। प्रमादात्तत्र सञ्जज्ञे प्रायश्चित्तञ्च कर्मसु
शिष्यहव्येन यत् पृक्तमभिभूतं गुरोर्हविः। अधरोत्तरचारेण जज्ञे तद्वर्णवैकृतः