भरतस्याश्रमे श्राद्धान्नयेद्ब्रह्मालयं पितॄन्। मतङ्गस्य पदे श्राद्धी ब्रह्मलोकं नयेत्पितॄन् ।। ५०.
निर्म्मथ्याग्निं शमीगर्भे विधिर्विष्ण्वादिभिः सह। लेभे तीर्थन्तु यज्ञार्थं त्रिषु लोकेषु विश्रुतम् ।। ५०.
मखसंज्ञन्तु तत्तीर्थं पितॄणां मुक्ति दायकम्। स्नात्वा च तर्पणं कृत्वा पिण्डदो मुक्तिमाप्नुयात् ।। ५०.
पितॄन्स्वर्गं नयेन्नत्वा सङ्गमेऽङ्गारकेश्वरौ। गयाकूटे पिण्डदानादश्वमेधफलं लभेत् ।। ५०.
भस्मकूटे भस्मनाथं नत्वा च तारयेत्पितॄन् । त्यक्तपापो भवेन्मुक्तः सङ्गमे स्नानमाचरेत् ।। ५०.
इष्टिं चक्रेऽश्वमेधाख्यं वसिष्ठो मुनिसत्तमः। इष्टितो निर्गतः शम्भुर्वरं वृणु वसिष्ठकम् ।। ५०.
प्राहेति तं वसिष्ठोऽपि शिव तुष्ठोऽसि मे यदि। वस्तव्यं चात्र देवेश तथेत्युक्त्वा शिवः स्थितः ।। ५०.
पिण्डदो धेनुकारण्ये कामधेनुपदेषु च। स्नात्वा नत्वाथ सम्पूज्य ब्रह्मलोकं नयेत्पितॄन् ।। ५०.
कर्द्दमाले गयानाभौ मुण्डपृष्ठसमीपतः। स्नात्वा श्राद्धादिकं कृत्वा पितॄणामनृणो भवेत् ।। ५०.
फल्गुचण्डीश्मशानाक्षीमङ्गलाद्याः समर्च्चयेत्। गयायाञ्च वृषोत्सर्गात्रिः सप्तकुलमुद्धरेत् ।। ५०.
यत्र तत्र स्थिता देवा ऋषयोऽपि जितेन्द्रियाः । आद्यं गदाधरं ध्यायञ्छ्राद्धपिण्डादिदानतः ।। ५०.
कुलानां शतमुद्धृत्य ब्रह्मलोकं नयेत् पितॄन्। गया गयो गया दित्यो गायत्री च गदाधरः ।। ५०.
गया गयासुरश्चैव षङ्गया मुक्तिदायकाः। गयाख्यानमिदं पुण्यं यः पठेत्सततं नरः ।। ५०.
श्रृणुयाच्छ्रद्धया यस्तु स याति परमां गतिम्। पाठयेद्वा गयाख्यानं विप्रेभ्यः पुण्यकृन्नरः ।। ५०.
गयाश्राद्धं कृतं तेन कृतं तेन सुनिश्चितम्। गयाया महिमानञ्च ह्यभ्यसेद्यः समाहितः ।। ५०.
तेनेष्टं राजसूयेन अश्वमेधेन नारद। लिखेद्वा लेखयेद्वापि पूजयेद्वापि पुस्तकम् ।। ५०.
तस्य गेहे स्थिरा लक्ष्मीः सुप्रसन्ना भविष्यति। उपाख्यानमिदं पुण्यं गृहे तिष्ठति पुस्तकम् ।। ५०.
सर्पाग्निचौरजनितं भयं तत्र न विद्यते। श्राद्धकाले पठेद्यस्तु गयामाहात्म्यमुत्तमम् ।। ५०.
विधिहीनन्तु तत्सर्वं पितॄणान्तु गयासमम्। यानि तीर्थानि त्रैलोक्ये तानि दृष्टानि तत्र वै। येन ज्ञातं गयाख्यानं श्रुतं वा पठितं मुने ।। ५०.
सनत्कुमारो मुनिपुङ्गवाय पुण्यां कथाञ्चाथ निवेद्य भक्त्या। स्वमाश्रमं पुण्यवनैरुपेतं विसृज्य संगीतगुरुं जगाम ।। ५०.
श्रीगणेशाय नमः ।। नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम्। देवीं सरस्वतीं चैव ततो जयमुदीरयेत्।। जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः। यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति।। प्रपद्ये देवमीशानं शाश्वतं ध्रुवमव्ययम्। महादेवं महात्मानं सर्वस्य जगतः पतिम्
ब्रह्माणं लोककर्त्तारं सर्वज्ञमपराजितम्। प्रभुं भूतभविष्यस्य साम्प्रतस्य च सत्पतिम्
ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः। ऐश्वर्यञ्चैव धर्मश्च सहसिद्धिचतुष्टयः
य इमान् पश्यते भावान्नित्यं सदसदात्मकान्। आविशन्ति पुनस्तं वै क्रियाभावार्थमीश्वरम्
लोककृल्लोकतत्त्वज्ञो योगमास्थाय तत्त्ववित्। असृजत् सर्वभूतानि स्थावराणि चराणि च
तमजं विश्वकर्माणं चित्पतिं लोकसाक्षिणम्। पुराणाख्यानजिज्ञासुर्व्रजामि शरणं प्रभुम्
ब्रह्मवायुमहेन्द्रेभ्यो नमस्कृत्य समाहितः। ऋषीणाञ्च वरिष्ठाय वसिष्ठाय महात्मने
तन्नप्त्त्रे चातियशसे जातूकर्णाय चर्षये। वसिष्ठाय च शुचये कृष्णद्वैपायनाय च
पुराणं सम्प्रवक्ष्यामि ब्रह्मोक्तं वेदसम्मितम्। धर्मार्थन्यायसंयुक्तैरागमैः सुविभूषितम्
असीमकृष्णे विक्रान्ते राजन्येऽनुपमत्विषि। प्रशासतीमां धर्मेण भूमिं भूमिपसत्तमे