औत्तमे चान्तरे चैव तुषितस्तु विदुः स वै। वशवर्त्तिभिरुत्पन्नो वशवर्त्ती हरिः पुनः ।। ५.
सत्यायामभवत्सत्यः सत्यैः सह सुरोत्तमैः। तामसस्यान्तरे चापि सम्प्राप्ते पुनरेव हि। भार्यायां हरिभिः सार्द्धं हरिरेव बभूव ह ।। ५.
चारिष्णवेऽन्तरे चापि हरिर्दवः पुनस्तु सः। वैकुण्ठायामसौ जज्ञे ह्याभूतरजसैः सह। वैकुण्ठः स पुनर्द्देवः सम्प्राप्ते चाक्षुषेऽन्तरे ।। ५.
धर्मो नारायणः साध्यः साध्यैः सह सुरैरभूत् । स तु नारायणः साध्यः प्राप्ते वैवस्वतेऽन्तरे ।। ५.
मारीचात् कश्यपाद्विष्णुरदित्यां सम्बमूव ह। त्रिस्त्रिः क्रमैरिमान् लोकान् जित्वा विष्णुरुरुक्रमम् ।। ५.
प्रत्यपादयदिन्द्राय देवेभ्यश्चैव स प्रभुः। इत्येतासतनवस्तस्य व्यतीताः सप्त सप्तसु। मन्वन्तरेष्वतीतेषु याभिः संरक्षिताः प्रजाः ।। ५.
तस्माद्विष्टमिदं सर्वं वामनेनेह जायता। तस्मात्स वै स्मृतो विष्णुर्विशेर्धातोः प्रवेशनात् ।। ५.
इत्येते ब्रह्मणश्चैव वामनस्य महात्मनः। एकत्वञ्च पृथक्त्वञ्च विशिष्टत्वञ्च कीर्त्तितम् ।। ५.
देवतानामिहांशेन जायन्ते यास्तु देवताः। तासान्तास्तेजसा बुद्ध्या श्रुतेन च बलेन च। जायन्ते तत्समाश्चैव ता वै तेषामनुग्रहात् ।। ५.
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छघ्वं विष्णोस्तेजोंऽशसम्भवम् ।। ५.
स एवं जायतेंऽशेन केचिदिच्छन्ति मानवाः। ततोऽपरे ब्रुवन्तीममन्योन्यांशेन जायते ।। ५.
एवं विवदमानास्ते दृष्ट्वा तान्वै ब्रुवन्ति ह। यस्मान्न विद्यते भेदो मनसश्चेतसश्च ह। तस्मादनुग्रहास्तेषां क्षेत्रज्ञास्ते भवन्त्युत ।। ५.
एकस्तु प्रभुशक्त्या वै बहुधा भवतीश्वरः। भूत्वा यस्माच्च बहुधा भवन्येकः पुनस्तु सः ।। ५.
तस्मात्सुमनसो भेदाज्जायन्ते तेजसश्च ह। मन्वन्तरेषु सर्वेषु प्रजाः स्थावरजङ्गमाः। सर्गादौ सकृदुत्पन्नास्तिष्ठन्तीह प्रशंसया ।। ५.
प्राप्ते प्राप्ते तु कल्पान्ते रुद्रः संहरति प्रजाः। जायन्ते मोहयन्तोऽन्यानीश्वरा योगमायया ।। ५.
ऐश्वर्येण चरन्तस्ते मोहयन्ति ह्यनीश्वराः। तस्माद्दोषप्रचारेषु युक्तायुक्तं न विद्यते ।। ५.
भूतापवादिनो दुष्टा मध्यस्था भूतभाविनः। भूतापवादिनः शक्तास्त्रयो वेदाः प्रवादिनाम् ।। ५.
दृढपूर्वश्रुतत्वाच्च प्रवादाच्चैव लौकिकात्। चतुर्भिः कारणैरेभिर्यथातत्त्वं न विन्दति ।। ५.
पूर्वमर्थान्तरे न्यस्ताः कालान्तरगता अपि। तेनान्यत् सन्तमप्यर्थं द्वेषान्न प्रतिपद्यते ।। ५.
दर्शानां द्रव्यभूतो यो गुणभूतस्तु तेषु यः। कर्मणां मनसां कर्त्ता अभिजात्या च यो महान्। श्रुतज्ञैः कारणैरेतैश्चतुर्भिः परिकीर्त्त्यते ।। ५.
अशक्तरुष्टो जानाति देवताः प्रविभागशः। इमौ चोदाहरन्त्यत्र श्लोकौ योगेश्वरं प्रति ।। ५.
आत्मनः प्रतिरूपाणि परेषाञ्च सहस्रशः। कुर्याद्योगबलम्प्राप्य तैश्च सर्वैः सहाचरेत् ।। ५.
प्राप्नुयाद्विषयाश्चैव तथैवोग्रतपश्चरन् । संहरेच्च पुनः सर्वान् सूर्यतेजो गुणानिव ।। ५.
एतच्छ्रुत्वा वचस्तस्य नैमिषेयास्तपस्विनः। पप्रच्छुऋषयः श्रेष्ठं वचनस्य यथाक्रमम् ।। ६.
सप्तस्विह कथं देवा जाता मन्वन्तरेष्विह। इन्द्रविष्णुप्रधानास्ते आदित्यास्तु महौजसः। एतत् प्रब्रूहि नः सर्वं विस्तराद्रोमहर्षण ।। ६.
एव मुक्तस्तदा सूतो विनयी ब्रह्मवादिभिः। उवाच वदतां श्रेष्ठो यथा पृष्टो महर्षिभिः ।। ६.
व्रह्मणो वै मुखात् सृष्टा यथा देवाः प्रजेप्सया। सर्व मन्त्रशरीरास्ते स्मृता मन्वतरेष्विह ।। ६.
दर्शश्च पौर्णमासश्च बृहद्यच्च रथन्तरम्। आकूतः प्रथमस्तेषां ततस्त्वाकूतिरेव च ।। ६.
वित्तिश्चैव सुवित्तिश्च आकूतिः कूतिरेव च। अधीष्टस्तु ततो ज्ञेयः अधीतिश्चैव तत्त्वतः। विज्ञातिश्चैव विज्ञातो मानवो ये च द्वादश ।। ६.
ज्ञेयो द्वादशपुत्रश्च यश्चाब्देन समाजयेत्। तं दृष्ट्वा चाब्रवीद्ब्रह्मा जया देवानसूयत ।। ६.