पादाङ्किते मुण्डपृष्ठे गदाधरसमीपतः। तीर्थे चाकाशगङ्गायां गिरिकर्णमुखेषु च ।। ५०.
स्नातोऽथ पिण्डदो ब्रह्मलोकं कुलशतं नयेत्। देवनद्यां वैतरण्यां स्नातः स्वर्गं नयेत्पितॄन् ।। ५०.
स्नातो गोदो वैतरण्यां त्रिःसप्तकुलमुद्धरेत्। सत्यं सत्यं पुनः सत्यं वैतरण्यां तु नारद ।। ५०.
एकविंशतिकुलान्याहुस्तारयेन्नात्र संशयः। या सा वैतरणी नाम नदी त्रैलोक्यविश्रुता ।। ५०.
सावतीर्णा गयाक्षेत्रे पितॄणां तरणाय वै। गोदावर्य्यां वैतरण्यां यमुनायां तथैव च ।। ५०.
देवनद्यां गोप्रचारे श्राद्धदः स्वर्नयेत्पितॄन्। पुष्करिण्यां घृतकुल्यां मधुकुल्यां तथैव च ।। ५०.
कोटितीर्थे रुक्मिणीये पिण्डदः स्वर्नयेत्पितॄन्। त्रिरात्रोपोषणेनैव तीर्थाभिगमनेन च ।। ५०.
अदत्त्वा काञ्चनङ्गाश्च दरिद्रो जायते नरः। घृतकुल्या मधुकुल्या देविका च महानदी ।। ५०.
शिलायाः सङ्गमो यत्र मधुस्रवा प्रकीर्तिता। अयुतं चाश्वमेधानां स्नानकृल्लभते नरः ।। ५०.
श्राद्धं सपिण्डकं कृत्वा पिण्डदानं तथैव च। कुलानां शतमुद्धृत्य विष्णुलोकं नयेन्नरः ।। ५०.
दशाश्च मेधिके हंसतीर्थे चामरकङ्कटे। कोटितीर्थे रुक्मकुण्डे पिण्डदः स्वर्नयेत्पितॄन् ।। ५०.
वैतरण्यां घृतकुल्यां मधुकुल्यां तथैव च। कोटितीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वरञ्च यः ।। ५०.
कोटिजन्म भवेद्विप्रो धनाढ्यो वेदपारगः । मार्कण्डेयेशकोचीशौ नत्वा स्यात्पितृतारकः ।। ५०.
रुक्म पारिजातवने पार्व्वत्या सह शङ्करः। रहस्ये संस्थितो रेमे युगानामयुतं पुरा ।। ५०.
मरीचिः फलपुष्पार्थं पारिजातवनं गतः। दृष्ट्वा शप्तो महेशेन यस्मात्सुखविघातकः ।। ५०.
दुःखी भवेति तद्भीतो मरिचिस्तुष्टुवे शिवम्। तुष्टः प्रोवाच तं शम्भुर्वृणीष्व वरमुत्तमम् ।। ५०.
शापाद् भवतु मुक्तिर्म्मे मरीचिः प्राह शङ्करम्। भवेद्गयायां मुक्तिस्ते शिवोक्तः प्रययौ गयाम् ।। ५०.
शिलास्थितस्तपस्तेपे सर्व्वेषां दुष्करञ्च यत्। मरीचिरीश्वराच्छप्तः कृष्णत्वमगमत्पुरा ।। ५०.
तपसा दारुणेनेह स विप्रः शुक्लतां गतः । हरिरूचे मरीचिञ्च वरं वृणुहि पुत्रक ।। ५०.
किमलभ्यं त्वयि तुष्टे मरीचिः प्राह माधवम्। हरशापाद्विमुक्तोऽहं शिला भवतु पावनी ।। ५०.
पितृमुक्तिकरी च स्यात्तथेत्युक्त्वा दिवं गतः। दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः ।। ५०.
यत्र दत्तं पितृभ्यस्तु भवत्यक्षयमित्युत। तत्र स्नातो दिवं याति स्वशरीरेण मानवः ।। ५०.
पाप्मानं प्रजहात्येष जीर्णत्वचमिवोरगः। तत्पङ्गजवनं पुण्यं पुण्यकृद्भिर्निषेवितम् ।। ५०.
पाण्डुशिला वै तत्रास्ते श्राद्धं यत्राक्षयं भवेत्। युधिष्ठिरस्तु तस्यां हि श्राद्धं कर्त्तुं ययौ मुने ।। ५०.
तत्र काले पाण्डुनोक्तं मद्धस्ते देहि पिण्डकम्। हस्तं त्यक्त्वा शिलायाञ्च पिण्डदानञ्चकार सः ।। ५०.
शिलायां पिण्डदानेन प्रहृष्टो व्यासनन्दनः। वरं ददौ स्वपुत्राय राज्यं कुरु महीतले ।। ५०.
अकण्टकन्तु सम्पूर्णं त्वं मे त्राता हि पुत्रक। स्वर्गं व्रज शरीरेण भ्रातृभिः परिवारितः ।। ५०.
दृष्टिमात्रेण सम्पूतान्नरकस्थान्दिवं नय। इत्युक्त्वा प्रययौ पाण्डुः शाश्वतं पदमव्ययम् ।। ५०.
उद्भिज्जाः स्वेदजा वापि ह्यण्डजा ये जरायुजाः। मधुस्रवां समासाद्य मृताः स्वर्गपुरं ययुः ।। ५०.
दशाश्वमेधिके हंसतीर्थे श्राद्धाद्दिवं व्रजेत्। दशाश्वमेधहंसौ च नत्वा शिवपुरं व्रजेत् ।। ५०.