गयश्च भोगान्सम्भुज्य विष्णुलोकं परं ययौ। विशालायां विशालोऽभूद्राजाऽपुत्रो ऽब्रवीद्द्विजान् ।। ५०.
कथं पुत्रादयो मे स्युर्विशालं चाब्रुवन्द्विजाः। गयायां पिण्डदानेन तव सर्व्वं भविष्यति ।। ५०.
विशालोऽपि गयाशीर्ष पिण्डदः पुत्रवानभूत्। दृष्ट्वाकाशे सितं रक्तं कृष्णं पुरुषमब्रवीत् ।। ५०.
के यूयं तेषु चैवैकः सितः प्रोचे विशालकम्। अहं सितस्ते जनक इन्द्रलोकादिहागतः ।। ५०.
मम पुत्र पिता रक्तो ब्रह्महा पापकृत्तमः । अयं पितामहः कृष्ण ऋषयो येन घातिताः ।। ५०.
अवीचिनरकं प्राप्तौ मुक्तौ त्वत्पिण्डदानतः। पितॄन्पितामहांश्चैव तथैव प्रपितामहान् ।। ५०.
प्रीणयामीति यत्तोयं त्वया दत्तमरिन्दम। तेनास्मद्युगपद्योगो जातो वाक्येन सत्तम ।। ५०.
मुक्तिः कृता त्वया पुत्र व्रजामः स्वर्गमुत्तमम्। एवं पुत्रैः पितॄणां च कर्तव्या मुक्तिरुत्तमा ।। ५०.
त्वञ्च राज्यं चिरं कृत्वा भुक्त्वा भोगांश्च दुर्ल्लभान्। यज्ञान्सदक्षिणान्कृत्वा यायाद्विष्णुपुरं ततः ।। ५०.
एवं लब्धवरो राजा राज्यं कृत्वा दिवंगतः। प्रेतराजः सह प्रेतैर्गयाश्राद्धाद्दिवं गतः ।। ५०.
प्रेतः कश्चिद्विमुक्त्यर्थं वणिजं कञ्चिदब्रवीत्। मम नाम्ना गयाशीर्षे पिण्डनिर्व्वापणं कुरु ।। ५०.
प्रेतभावविमुक्त्यर्थं त्वं गृहाण धनं मम। तद्वनं सर्व्वमादाय गयाश्राद्धव्ययं कुरु ।। ५०.
षोडशपञ्चभागांश्च तुभ्यं वै दत्तवानहम्। स्वनामानि यथान्यायं सम्यगाख्यातवानहम् ।। ५०.
गत्वा गयां गयाशीर्ष प्रेतराजाय पिण्डकम्। समदाद्बन्धुभिः सार्द्धं स्वपितृभ्यस्ततो ददौ ।। ५०.
प्रेतः प्रेतत्वनिर्म्मुक्तो वणिक् स्वगृहमागतः । एवं गयस्य शम्भोश्च क्षेत्रं विष्णो रवेस्तथा ।। ५०.
उपोषितोऽथ गायत्रीतीर्थे महानदीस्थिते। गायत्र्याः पुरतः स्नात्वा प्रातःसन्ध्यामुपासयेत् ।। ५०.
श्राद्धं सपिण्डकं कृत्वानयेद्ब्रह्मण्यतां कुलम्। तीर्थे समुदिते स्नात्वा सावित्र्याः पुरतो नरः ।। ५०.
सन्ध्यामुपास्य मध्याह्ने नयेत्कुलशतन्दिवम्। पिण्डदानं ततः कुर्य्यात्पितॄणां मुक्तिकाम्यया ।। ५०.
प्राचीसरस्वतीतीर्थे स्नात्वा चापि यथाविधि। सन्ध्यामुपास्य सायाह्ने विष्णुलोकं नयेत्पितॄन् ।। ५०.
बहुजन्मकृतात्सन्ध्यालोपान्मुक्तस्त्रिसन्ध्य कृत्। विशालायां लेलिहाने तीर्थे च भरताश्रमे ।। ५०.
पादाङ्किते मुण्डपृष्ठे गदाधरसमीपतः। तीर्थे चाकाशगङ्गायां गिरिकर्णमुखेषु च ।। ५०.
स्नातोऽथ पिण्डदो ब्रह्मलोकं कुलशतं नयेत्। देवनद्यां वैतरण्यां स्नातः स्वर्गं नयेत्पितॄन् ।। ५०.
स्नातो गोदो वैतरण्यां त्रिःसप्तकुलमुद्धरेत्। सत्यं सत्यं पुनः सत्यं वैतरण्यां तु नारद ।। ५०.
एकविंशतिकुलान्याहुस्तारयेन्नात्र संशयः। या सा वैतरणी नाम नदी त्रैलोक्यविश्रुता ।। ५०.
सावतीर्णा गयाक्षेत्रे पितॄणां तरणाय वै। गोदावर्य्यां वैतरण्यां यमुनायां तथैव च ।। ५०.
देवनद्यां गोप्रचारे श्राद्धदः स्वर्नयेत्पितॄन्। पुष्करिण्यां घृतकुल्यां मधुकुल्यां तथैव च ।। ५०.
कोटितीर्थे रुक्मिणीये पिण्डदः स्वर्नयेत्पितॄन्। त्रिरात्रोपोषणेनैव तीर्थाभिगमनेन च ।। ५०.
अदत्त्वा काञ्चनङ्गाश्च दरिद्रो जायते नरः। घृतकुल्या मधुकुल्या देविका च महानदी ।। ५०.
शिलायाः सङ्गमो यत्र मधुस्रवा प्रकीर्तिता। अयुतं चाश्वमेधानां स्नानकृल्लभते नरः ।। ५०.
श्राद्धं सपिण्डकं कृत्वा पिण्डदानं तथैव च। कुलानां शतमुद्धृत्य विष्णुलोकं नयेन्नरः ।। ५०.