पितुर्विनिर्गतौ हस्तौ गयाशिरसि शन्तनोः। नादात्पिण्डं करो भीष्मो ददौ विष्णुपदे ततः ।। ४९.
शन्तनुः प्राह सन्तुष्टः शास्त्रार्थे निश्चलो भवान्। त्रिकालदृष्टिर्भवत् चान्ते विष्णुश्च ते गतिः ।। ४९.
स्वेच्छया मरणं चास्तु इत्युक्त्वा मुक्तिमागतः। कनकेशञ्च केदारं नारसिंहं च वामनम् ।। ४९.
उदङ्मार्गे समभ्यर्च्च्य पितॄन्सर्व्वांश्च तारयेत्। गयाशिरसि यः पिण्डान्येषां नाम्ना तु निर्वपेत् ।। ४९.
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः। गयाशिरसि यः पिण्डं शमीपत्रप्रमाणतः ।। ४९.
कन्दमूलफलाद्यैर्वा दद्यात्स्वर्गं नयेत्पितॄन्। पदानि यत्र दृश्यन्ते विष्ण्वादीनां तदग्रतः ।। ४९.
श्राद्धं कृत्वा सपिण्डञ्च तेषां लोकान्नयेत्पितॄन्। सर्व्वत्र मुण्डपृष्ठाद्रिः पदैरेभिः सुलक्षितः ।। ४९.
प्रयान्ति पितरः सर्व्वे ब्रह्मलोकमनामयम्। हेत्यसुरस्य यच्छीर्षं गदया तद्द्विधाकृतम् ।। ४९.
ततः प्रक्षालिता यस्मात्तीर्थं तच्च विमुक्तये। गदालोलमिति ख्यातं सर्व्वेषामुत्तमोत्तमम् ।। ४९.
गदालोले महातीर्थे गदाप्रक्षालनाद्धरेः। स्नानं करोमि सिद्ध्यर्थमक्षयं पदमाप्नुयाम् ।। ४९.
पञ्चमेऽह्नि गदालोले स्नात्वा कुर्य्यात्सपिण्डकम्। श्राद्धं पितॄन्ब्रह्मलोकं नयेदात्मानमेव च ।। ४९.
ब्रह्मप्रकल्पितान्विप्रान् हव्यकव्यादिनार्च्चयेत्। तैस्तुष्टैस्तोषिताः सर्व्वाः पितृभिः सह देवताः ।। ४९.
कृते श्राद्धेऽक्षयवटे अन्नेनैव प्रयत्नतः। पितॄन्नयेद्ब्रह्मलोकमक्षयन्तु सनातनम् ।। ४९.
वटवृक्षसमीपे तु शाकेनाप्युदकेन वा। एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ।। ४९.
देयं दानं षोडशकं गयातीर्थपुरोधसे। वस्त्रं गन्धादिभिः पुत्रैः सम्यक्संपूज्य यत्नतः ।। ४९.
गयातीर्थवटे चैव पितॄणां दत्तमक्षयम् । दृष्ट्वा नत्वा च संपूज्य वटेशं सुसमाहितः ।। ४९.
पितॄन्नयेद्ब्रह्मलोकमक्षयन्तु सनातनम्। गयायां धर्म्मपृष्ठे च सरसि ब्रह्मणस्त था ।। ४९.
गयाशीर्षे वटे चैव पितॄणां दत्तमक्षयम्। एकार्णवे वटस्याग्रे यः शेते योगनिद्रया ।। ४९.
बालरूपधरस्तस्मै नमस्ते योगशायिने। संसारवृक्षशस्त्रायाशेषपापहराय च ।। ४९.
अक्षयब्रह्मदात्रे च नमोऽक्षयवटाय वै। कलौ माहेश्वरा लोका येन तस्माद्गदाधरः। लिङ्गरूपोऽभवत्तञ्च वन्दे श्रीप्रपितामहम् ।। ४९.
यज्ञञ्चक्रे गयो राजा बह्वन्नं बहुदक्षिणम्। यत्र द्रव्यसमूहानां संख्या कर्त्तुं न शक्यते ।। ५०.
स्थिता गयायामन्नादिपर्व्वताः पञ्चविंशतिः। प्रशंसन्ति द्विजास्तत्र देशे देशे सुपूजिताः ।। ५०.
नैव पूर्व्वं केप्यकुर्व्वन्न करिष्यन्ति चापरे। सिकता वा यथा लोके यथा च दिवि तारकाः ।। ५०.
तथा बहुसुवर्णाद्यैरसङ्ख्यातास्तु दक्षिणाः । नैवेह पूर्वे ये केचिन्न करिष्यन्ति चापरे ।। ५०.
प्रशंसन्ति द्विजास्तृप्ता देशे देशे सुपूजिताः। गयं विष्ण्वादयस्तुष्टा वरं ब्रूहीति चाब्रुवन् ।। ५०.
गयस्तान्प्रार्थयामास ह्यभिशप्ताश्च चे पुरा। ब्रह्मणा ते द्विजाः पूता भवन्तु क्रतुपूजिताः ।। ५०.
गयाश्राद्धविधानाय द्विजा मूर्त्ताश्चदुर्द्दश। तेषां वाक्यं प्रकुर्व्वीत यदि ब्रह्मा स्वयं भवेत् ।। ५०.
गौतमं काश्यपं कौत्सं कौशिकं कण्वमेव च। भारद्वाजं ह्यौशनसं वात्स्यं पाराशरं तथा ।। ५०.
हरित्कुमारमाण्डव्यं लोकाक्षिं लोकसंमहत्। वासिष्ठञ्च तथात्रेयं गोत्राण्येषां चतुर्द्दश ।। ५०.
गयापुरीति मन्नाम्ना ख्याता ब्रह्म पुरी यथा। एवमस्तु वरं दत्त्वा तथा चान्तर्दधुः सुराः ।। ५०.