श्राद्धं कृत्वा सभ्यपदे ज्योतिष्टोमफलं लभेत् । आवसथ्यपदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ।। ४९.
श्राद्धं कृत्वा शक्रपदे इन्द्रलोकं नयेत्पितॄन्। अगस्त्यस्य पदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ।। ४९.
क्रौञ्चमातङ्गयोः श्राद्धी ब्रह्मलोकं नयेत्पितॄन्। श्राद्धी सूर्य्यपदे पञ्च पापिनोऽर्क्कपुरं नयेत् ।। ४९.
कार्तिकेयपदे श्राद्धी शिवलोकं नयेत्पितॄन्। गणेशस्य पदे श्राद्धी रुद्रलोकं नयेत्पितॄन् ।। ४९.
गजकर्णतर्पणकृन्निर्मलं स्वर्नयेत्पितॄन्। अन्येषाञ्च पदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ।। ४९.
सर्व्वेषां काश्यपं श्रेष्ठं विष्णो रुद्रस्य वै पदम्। ब्रह्मणश्च पदं चापि श्रेष्ठं तत्र प्रकीर्त्तितम् ।। ४९.
प्रारम्भे च समाप्तौ च तेषामन्यतमं स्मृतम्। श्रेयस्करं भवेत्तत्र श्राद्धकर्त्तुश्च नारद ।। ४९.
कश्यपस्य पदे दिव्ये भारद्वाजो मुनिः पुरा। श्राद्धं कृत्वोद्यतो दातुं पित्रादिभ्यश्च पिण्डकम् ।। ४९.
शुक्लकृष्णौ ततो हस्तौ पदमुद्भिद्य निर्गतौ। दृष्ट्वा हस्तद्वयं तत्र मुनिः संशयमागतः ।। ४९.
ततः स्वमातरं शान्तां पप्रच्छ स महामुनिः। कश्यपस्य पदे दिव्ये शुक्ले कृष्णेऽथ वा करे ।। ४९.
पिण्डो देयो मया मातर्जानासि पितरं वद शान्तोवाच ४९.
भारद्वाजस्ततः पिण्डं दातुं कृष्णाय चोद्यतः। श्वेतोऽदृश्योऽब्रवीत्तत्र पुत्रस्त्वं हि ममौरसः ।। ४९.
कृष्णोऽब्रवीन्मम क्षेत्रं ततो मे देहि पिण्डकम्। स्वैरिण्यथाब्रवीद्दातुं क्षेत्रिणे बीजिने ततः ।। ४९.
भारद्वाजस्ततः पिण्डं कश्यपस्य पदे ददौ । हंसयुक्तविमानेन ब्रह्मलोकमुभौ गतौ ।। ४९.
रामो रुद्रपदे श्राद्धे पिण्डदानाय चोद्यतः। पिता दशरथः स्वर्गात्प्रसार्य्य करमागतः ।। ४९.
नादात्पिण्डं करे रामो ददौ रुद्रपदे ततः। शास्त्रार्थातिक्रमाद्भीतं रामं दशरथोऽब्रवीत् ।। ४९.
तारितोऽहं त्वया पुत्र रुद्रलोकमवाप्नुयाम्। हस्ते पिण्डप्रदानेन स्वर्गतिर्न हि मे भवेत् ।। ४९.
त्वञ्च राज्यं चिरं कृत्वा पालयित्वा द्विजान्प्रजाः। यज्ञान्सदक्षिणान्कृत्वा विष्णुलोकं व्रजिष्यसि ।। ४९.
पुर्य्ययोध्याजनैः सार्द्धं कृमिकीटादिभिः सह। इत्युक्त्वासौ दशरथो रुद्रलोकं परं ययौ ।। ४९.
भीष्मो विष्णुपदे श्रेष्ठे आहूय पितरं स्वकम्। श्राद्धं कृत्वोद्यतो दातुं पित्रादिभ्यश्च पिण्डकम् ।। ४९.
पितुर्विनिर्गतौ हस्तौ गयाशिरसि शन्तनोः। नादात्पिण्डं करो भीष्मो ददौ विष्णुपदे ततः ।। ४९.
शन्तनुः प्राह सन्तुष्टः शास्त्रार्थे निश्चलो भवान्। त्रिकालदृष्टिर्भवत् चान्ते विष्णुश्च ते गतिः ।। ४९.
स्वेच्छया मरणं चास्तु इत्युक्त्वा मुक्तिमागतः। कनकेशञ्च केदारं नारसिंहं च वामनम् ।। ४९.
उदङ्मार्गे समभ्यर्च्च्य पितॄन्सर्व्वांश्च तारयेत्। गयाशिरसि यः पिण्डान्येषां नाम्ना तु निर्वपेत् ।। ४९.
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः। गयाशिरसि यः पिण्डं शमीपत्रप्रमाणतः ।। ४९.
कन्दमूलफलाद्यैर्वा दद्यात्स्वर्गं नयेत्पितॄन्। पदानि यत्र दृश्यन्ते विष्ण्वादीनां तदग्रतः ।। ४९.
श्राद्धं कृत्वा सपिण्डञ्च तेषां लोकान्नयेत्पितॄन्। सर्व्वत्र मुण्डपृष्ठाद्रिः पदैरेभिः सुलक्षितः ।। ४९.
प्रयान्ति पितरः सर्व्वे ब्रह्मलोकमनामयम्। हेत्यसुरस्य यच्छीर्षं गदया तद्द्विधाकृतम् ।। ४९.
ततः प्रक्षालिता यस्मात्तीर्थं तच्च विमुक्तये। गदालोलमिति ख्यातं सर्व्वेषामुत्तमोत्तमम् ।। ४९.
गदालोले महातीर्थे गदाप्रक्षालनाद्धरेः। स्नानं करोमि सिद्ध्यर्थमक्षयं पदमाप्नुयाम् ।। ४९.